चिलारायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शुक्लध्वजः
चिलारायस्य विग्रहः असमराज्ये धुब्रिनगरे

चिलारायः आहोस्वित् शुक्लध्वजः कमताराजस्य नरनारायणस्य अनुजः एवम् सर्वसेनापतिः आसीत्। सः युद्धविशारदः चिल्लसदृशवेगेन सेनाम् नयति स्म, तथा तस्य नाम चिलारायः अभवत्। सः कमताराज्यस्य विस्तारम् कृतवान्। सः अनेकेषु रणेषु भुटिया-अहोम्-काचरी इत्यदीनाम् राज्यानाम् सेनाः पराजितवान्।[१]

चरितम्[सम्पादयतु]

चिलारायः राजाबिश्वसिङ्घस्य तृतीयः पुत्रः।[२] तस्य माता राज्ञी पद्मावती गौर् देशे जाता।[३]

चिलारायः श्रीमन्तशङ्करदेवाय शरणं दत्तवान् एवं स्वकुटुम्बसदस्यया श्रीमन्तशङ्करदेवस्य विवाहम् कृतवान्। चिलारायस्य प्रोत्साहनेन हि शङ्करदेवः ‘एकशरण धर्म’ इति नामकम् आन्दोलनम् आरब्ध्वान्।

जून मासे १५६३ वर्षे अहोमराज्यस्य राजधानीं चिलारायः जितवान्। चिलारायः भारतवर्षे छत्रपतिशिवाजीमहाराजस्य पूर्वे आकस्मिकयुद्धनीतेः विशारदः आसीत्। सः विपुलहृदयः अपि आसीत्। पराजितेभ्यः राजभ्यः सदा करुणम् आदरम् प्रदर्शयति स्म, प्रतिपक्षराज्यप्रजाम् कदापि न अपीडयत् एवं सदा शत्रुसैनिकान् अमुञ्चत्। पराजिताः राजानः केवलं करम् दातुम् आज्ञापिताः एवमपि पराजिताः सैनिकाः स्वराज्ये अपि वसितुम् अनुमताः।

भ्रातरौ वङ्गदेशम् अपि जयितुं ऐच्छताम्, परन्तु पराजितः चिलारायः सुलेइमान्-कर्रानि-इत्यमुना अफ़गान्सुल्तानेन निग्रहीतः जातः। तस्य राज्यं अफ़गान्-सुलतानः पराजितवान् कामाख्यामन्दिरमपि अक्षिपत्। किन्तु भ्रातरौ कोच्राज्यम् अमुञ्चेताम् कामाख्यामन्दिरम् पुनर्निर्माणम् अकुरुताम्।[४]

चिलारायः १५७१ तमे वर्षे गङ्गातटे मसूरिरोगद्वारा मृत्युमुपगतः।[५]

टिप्पणी[सम्पादयतु]

  1. "Article Details". Ht Syndication. 2013-03-03. Archived from the original on 2016-03-04. आह्रियत 2013-06-02. 
  2. "History Book of Cooch Behar". Coochbehar.nic.in. आह्रियत 2013-06-02. 
  3. Baruah Sarma, Geetima. "Bir Chilaray – The Great General of Assam". India-north-east.com. आह्रियत 2013-06-02. [नष्टसम्पर्कः]
  4. Sukhabilāsa Barmā (2004). Bhāwāiyā: Ethnomusicological Study. Global Vision Publishing Ho. pp. 75–. ISBN 978-81-8220-070-8. आह्रियत 2 June 2013. 
  5. Donald R. Hopkins (15 September 2002). The Greatest Killer: Smallpox in History. University of Chicago Press. pp. 141–. ISBN 978-0-226-35168-1. आह्रियत 2 June 2013. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चिलारायः&oldid=480309" इत्यस्माद् प्रतिप्राप्तम्