सदस्यः:Khitishwarnath Pandey/प्रयोगपृष्ठम्/2
पी वी नरसिंहा राव भारतस्य नवमप्रधानमन्त्री आसीत् । सः ई. स. १९९१ तमवर्षस्य जून-मासस्य २१ दिनाङ्के (२१ जून १९९१) तः ई. स. १९९६ तमवर्षस्य मई-मासस्य १६ दिनाङ्कपर्यन्तं (१६ मई १९९६) भारतस्य प्रधानमन्त्रित्वेन कार्यं कृतवान् आसीत् । चन्दशेखरस्य प्रधानमन्त्रिपदात् त्यागनन्तरं “पी. वी. नरसिंहा राव” एव प्रधानमन्त्री अभवत् । “नरसिंहा राव” प्रायः पञ्चवर्षाणि यावत् प्रधानमन्त्रित्वेन कार्यम् अवहत् । ई. स. १९७१ तमवर्षस्य सितम्बर-मासस्य ३० तमदिनाङ्कतः (३० सितम्बर १९७१) ई. स. १९७३ तमवर्षस्य जनवरी-मासस्य १० दिनाङ्कं (१० जनवरी १९७३) यावत् सः आन्ध्रप्रदेशस्य मुख्यमन्त्री अपि आसीत् [१]।
जन्म, परिवारश्च
[सम्पादयतु]“नरसिंहा राव” इत्याख्यस्य जन्म ई. स. १९२१ तमस्य वर्षस्य जून-मासस्य २८ तमे दिनाङ्के (२८ जून १९२१) आन्ध्रप्रदेश-राज्यस्य करीमनगर-मण्डलस्य वाङ्गरा-ग्रामे अभवत् । “परबमुल पार्थी वेङ्कट नरसिंहा राव” इति अस्य पूर्णनाम आसीत् । तस्य पितुः नाम “पी रङ्गा राव”, मातुः च नाम “रुक्मिणियम्मा” च आसीत् । स्वस्य जीवनकाले एव तस्य पत्न्याः मृत्युः अभवत् । तस्य त्रय़ः पुत्राः, चतस्रः पुत्र्यः च आसन् ।
शिक्षणम्
[सम्पादयतु]नरसिंहा राव इत्याख्यस्य प्राथमिकं शिक्षणं तस्यैव ग्रामे अभवत् । अनन्तरं सः उस्मानिया-विश्वविद्यालयस्य कलामहाविद्यालये स्नातकपदवीं प्राप्तवान् । ततः परं नागपुर-विश्वविद्यालयस्य हिस्लोप्-महाविद्यालये तेन विधिशास्त्रे स्नातकोत्तरपदवी प्राप्ता । नरसिंहा राव इत्यायस्य मातृभाषा तेलुगु आसीत् । सः मराठी-भाषाम् अपि जानाति स्म । सः तेलुगु-भाषा, हिन्दी-भाषा, उडिया-भाषा, मराठी-भाषा, बङ्गाली-भाषा, गुजराती-भाषा, कन्नड-भाषा, संस्कृत-भाषा, तमिळ्-भाषा, उर्दू-भाषा एताः नव भारतीयभाषाः जानाति स्म । इतः परं सः फ्रेञ्च-भाषा, अरबी-भाषा, स्पेनिश्-भाषा, जर्मन्-भाषा, पर्सियन्-भाषा च अपि जानाति स्म । सः धाराप्रवाहेण उर्दू-भाषायां, मराठी-भाषायां, हिन्दी-भाषायां, तेलुगू-भाषायाम्, आङ्ग्ल-भाषायां च भाषणं कर्तुं शक्नोति स्म ।
अभिरूचिः
[सम्पादयतु]“नरसिंहा राव” इत्याख्यस्य विभिन्नक्षेत्रेषु अभिरूचिः आसीत् । सङ्गीतं, चलच्चित्रं च तस्य रूचिकरम् आसीत् । सः भारतीयसंस्कृतौ, भारतीयदर्शने च तस्य अभिरूचिः आसीत् । लेखने अपि तस्य रूचिः आसीत् । सः काल्पनिकः लेखकः आसीत् । सः काव्यानि, लेखान् च लिखति स्म । तेन तेलुगु-भाषायां, हिन्दी-भाषायां च नैकानि काव्यानि लिखितानि आसन् । तेन तेलुगु-उपन्यासस्य हिन्दी भाषायाम् अनुवादः कृतः । इतः परं तेन मराठी-भाषायाः कृतीनाम् अपि तेलुगु-भाषायाम् अनुवादः कृतः आसीत् । सः छद्म-नामकाः बह्वीः कृतीः लिखितवान् । तेन द्विमासिका पत्रिका अपि सम्पादिता । अस्याः पत्रिकायाः नाम “काकतिया” आसीत् । अस्यां पत्रिकायां मानवाधिकारसम्बद्धाः लेखाः प्राप्यन्ते स्म । “नरसिंहा राव” इत्याख्येन स्वातन्त्र्यान्दोलने अपि भागम् अवहत् । स्वातन्त्र्यप्राप्त्यनन्तरं सः पूर्णरूपेण राजनीतिक्षेत्रे सक्रियः अभवत् ।
राजनैतिकजीवनम्
[सम्पादयतु]राजनीतिक्षेत्रे तस्य महद्योगदानम् आसीत् । ई. स. १९६२ तमवर्षात् १९७१ तमवर्षं यावत् सः आन्ध्रप्रदेश-राज्यस्य मन्त्रिमण्डले आसीत् । अनन्तरम् ई. स. १९७१ तमवर्षात् १९७३ तमवर्षं यावत् सः आन्ध्रप्रदेशराज्यस्य मुख्यमन्त्रित्वेन कार्यं कृतवान् । सः इन्दिरायाः समीपस्थः जनः आसीत् । सङ्कटसमये सः इन्दिरायाः प्रति निष्ठावान् आसीत् । ई. स. १९६९ तमवर्षे कॉङ्ग्रेस-पक्षस्य विभाजनम् अभवत् । तदा अपि नरसिंहा राव इन्दिरया सहैव आसीत् । तेन कारणेन “नरसिंहा राव” इत्याख्याय लाभः अभवत् । “नरसिंहा राव” इत्याख्यः ई. स. १९७२ तमे वर्षे राष्ट्रस्तरीयनेता अभवत् । तदनन्तरं तेन बहुषु मन्त्रालयेषु मन्त्रित्वेन कार्यं कृतम् । गृहमन्त्रालये, सुरक्षामन्त्रालये, विदेशमन्त्रालये इत्यादिषु मन्त्रालयेषु सः मन्त्री आसीत् । चन्द्रशेखरस्य प्रधानमन्त्रिपदे सति निर्वाचनस्य प्रचारसमये एव राजीवस्य मृत्युः अभवत् । यस्मिन् “नरसिंहा राव” इत्याख्यः प्रधानमन्त्री अभवत्, तस्मिन् निर्वाचने चरणद्वयम् अभवत् । राजीवस्य मृत्योः पूर्वं, मृत्योः परं च द्विचरणात्मकं निर्वाचनम् अभवत् । राजीवस्य मृत्योः कारणात् जनानाम् आश्वासनेन लाभः जातः । निर्वाचने कॉङ्ग्रेस्-पक्षेण (आई) २३२ स्थानानि प्राप्तानि । अनन्तरं “नरसिंहा राव” कॉङ्ग्रेस्-पक्षस्य नेतृत्वेन कार्यं कृतम् । तस्मिन् समये तेन सर्वकारनिर्माणस्य प्रस्तावः स्थापितः । अन्ततो गत्वा तेन सांसदानां साहाय्येन सर्वकारः निर्मापितः । नरसिंहा राव कॉङ्ग्रेस्-पक्षस्य संसदीयनेतृत्वेन चितः ।
राजनैतिकजीवने उपलब्धयः
[सम्पादयतु]नरसिंहा राव” इत्याख्येन सम्पूर्णे राजनैतिककाले बह्व्यः उपलब्धयः प्राप्ताः । “नरसिंहा राव” प्रथमः दक्षिणभारतीयः प्रधानमन्त्री आसीत् । तेन स्वस्य प्रधानमन्त्रिपदस्य पञ्चवर्षीयः कार्यकालः पूर्णः कृतः । तस्योपरि बहुवारं भ्रष्टाचारस्य आक्षेपाः स्थापिताः । किन्तु न्यायालये ते आक्षेपाः स्पष्टाः नाभवन् । केवल नेहरू-गान्धी-परिवारस्य जनाः एव स्वस्य पञ्चवर्षीयः कार्यकालं समापयन्ति स्म । किन्तु “नरसिंहा राव” इत्याख्येन अपि पञ्चवर्षाणि समाप्तानि । बाबरी-मस्जिद्-प्रकरणे एतेन मुस्लिम-जनानां सम्बोधने उर्दू-भाषायाः प्रयोगः कृतः । अपि च हिन्दुधर्मावलम्बिनां सम्बोधने संस्कृतनिष्ठश्लोकानां प्रयोगः कृतः आसीत् । “नरसिंहा राव” इत्याख्यस्य राजनैतिकदक्षता दृढा आसीत् । अतः आन्ध्रप्रदेश-राज्ये अपि कॉङ्ग्रेस-पक्षस्य स्थितिः सबला जाता [२]।
प्रधानमन्त्रित्वेन “नरसिंहा राव”
[सम्पादयतु]ई. स. १९९१ तमवर्षस्य जून-मासस्य २० तमदिनाङ्के (२० जून १९९१) राष्ट्रपतिः “रामास्वामी वेङ्कटरमन” इत्याख्यः “पी वी नरसिंहा” इत्याख्येन प्रधानमन्त्रिशपथम् अकारयत् । तस्य सर्वकारे अल्पमतानि आसन् । समयान्तरे सांसदाः सर्वकारे सम्मिलिताः अभवन् । अतः “नरसिंहा राव” इत्याख्यस्य सर्वकारः पञ्चवर्षाणि यावत् आसीत् । “नरसिंहा राव” इत्याख्यस्य शासनकाले तस्योपरि बहवः आक्षेपाः स्थापिताः । किन्तु कॉङ्ग्रेस-पक्षस्य सङ्घटनं दृढम् आसीत् । तेन कारणेन कॉङ्ग्रेस-पक्षस्य समर्थनानि “नरसिंहा राव” इत्याख्येन सह एव् आसीत् । अयोध्या-नगरस्य “बाबरी-मस्जिद्” इत्यनेन सम्बद्धे प्रकरणे अपि “नरसिंहा राव” इत्यस्य आलोचना जाता । तस्मिन् समये भारतदेशे साम्प्रदायिकहिंसा अभवत् । तस्यां हिंसायां बहवः जनाः मृताः । तथापि “नरसिंहा राव” इत्याख्येन “बाबरी-मस्जिद्” इत्यस्य रक्षणार्थंण् किमपि न कृतम् । अतः देशे तस्य बहवः आलोचकाः आलोचनां कुर्वन्तः आसन् । सः जनेषु अप्रियः अभवत् । तथापि तेन भारतस्य आर्थिकस्थितेः विकासाय प्रयासाः कृताः । तस्मिन् समये “मनमोहन सिंह” इत्याख्यः भारतस्य वित्तमन्त्री आसीत् । मनमोहनः प्रसिद्धः अर्थशास्त्रज्ञः अस्ति । अनन्तरं देशस्य विकासः जायमानः आसीत् । किन्तु देशस्य बहुभिः संस्थाभिः तस्य विरोधः कृतः । तथापि “नरसिंहा राव”, “मनमोहनः” च आर्थिकविकासाय कार्यरतः आसीत् । मनमोहनस्य आर्थिकनीतिः अद्भूता आसीत् । अतः “नरसिंहा राव” तस्योपरि विश्वासं करोति स्म । ई. स. १९९६ तमवर्षस्य सामान्यनिर्वाचने कॉङ्ग्रेस-पक्षः पराजितः । तदा “पी. वी. नरसिंहा राव” इत्याख्येन प्रधानमन्त्रिपदं त्यक्तम् । संसदि कॉङ्ग्रेस-पक्षे सर्वकारनिर्माणाय पर्याप्तसमर्थनानि नासन् । निर्वाचने भारतीयजनतापक्षः बृहत्तमः पक्षः आसीत् । तदा “डॉ. शङ्कर दयाल शर्मा” इत्याख्येन भारतीयजनतापक्षस्य सर्वकारनिर्मातुं प्रस्तावः प्रस्थापितः । “अटल बिहारी वाजपेयी” अग्रिमः प्रधानमन्त्री अभवत् । किन्तु त्रयोदशदिनानि यावदेव तस्य सर्वकारः आसीत् । यतः भारतीयजनतापक्षः पतितः जातः । तदनन्तरं “सोनिया गान्धी” इत्याख्या राजनीतिक्षेत्रे सक्रिया अभवत् [३]।
मृत्युः
[सम्पादयतु]“नरसिंहा राव” इत्याख्यः ई. स. २००४ तमे वर्षे ८३ वर्षीयः आसीत् । यद्यपि वयानुसारं तस्य स्वास्थ्यं समीचिनं नासीत् । श्वासोच्छ्वासे अपि सः कष्टम् अनुभवति स्म । अतः ई. स. २००४ तमवर्षस्य दिसम्बर-मासस्य ९ दिनाङ्के (९ दिसम्बर २००४) “नरसिंहा राव” उपचारार्थं देहली-नगरस्य “ऑल् इण्डिया इन्स्टीट्यूट् ऑफ् मेडिकल् सायन्स् (AIIMS)” अस्यां संस्थायाम् आनीतः । त्रयोदशदिनानि यावत् चिकित्सकैः तस्य उपचारः कृतः । तथापि अन्ततो गत्वा ई. स. २००४ तमवर्षस्य दिसम्बर-मासस्य २४ तमे (२४ दिसम्बर २००४) दिनाङ्के मध्याह्ने २ वादनात् परं ४० निमिषे “नरसिंहा राव” इत्याख्यस्य मृत्युः अभवत् [४]।