सदस्यः:Bharathi.achaar/प्रयोगपृष्ठम्4

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आश्चर्यचूडामणिः
आश्चर्यचूडामणिः

शक्तिभद्रविरचितं नाटकं भवति आश्चर्यचूडामणिः । तत्र सप्त अङ्काः विद्यन्ते । शूर्पणखा।शूर्पण्खायाःगमनात् प्रभृतिरावणवधपर्यन्ताः कथाभागाः अत्र दृश्यन्ते । खरदूषणादीनां वधेन सन्तुष्टाः जनस्थानस्थाः ऋषयः रामाय चूडामणिम् अङ्गुलीयकं रत्नं च ददाति । लक्ष्मणाय च अस्त्रैरभेद्यं कवचम् । चूडामणेः प्राधान्यात् नाटकस्य आश्चर्यचूडामणि इति नाम। तृतीयोङ्कः मायासीताङ्कः इत्युच्यते । तत्र माया सीता, मायया अपरो रामः रावणश्च जायते । लक्ष्मणः यथार्थरामं न जानाति इत्यादिना कथायाः आस्वाद्यत्वं वर्धते । अस्य सव्याख्यानसम्पादनं प्रथमतया कुप्पुस्वाममहोदयेन १९२६ तमे संवत्सरे बालमनोरमा मुद्रणशालातः कृतम् । पुनः अस्य आङ्गलेयविवर्तनं शङ्करशास्त्रिणा बालमनोरमा मुद्रणशालातः एव कृतम् । मलयाले अस्य विवर्तनं कोटुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान् महोदयेन१८९३ तमे संवत्सरे एवं एन्. वि. नम्प्यातिरि महोदयेन १९९८ तमे संवत्सरे च कृतम्। अस्य पारम्पर्यकेरलनाट्यरंगे अवतारणार्थं क्रमदीपिका सहितं के. पि. नारायण पिषारोटि महोदयेन १९६७ तमे संवत्सरे सम्पादनं कृतम् ।

can't use in sandboxसंस्कृतनाटकानि]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]