सामग्री पर जाएँ

अजयमेरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अजमेरमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
अजयमेरुमण्डलम्

अज्मेर्मण्डलम्
मण्डलम्
राजस्थानराज्ये अजमेरमण्डलम्
राजस्थानराज्ये अजमेरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total ८,४८१ km
Population
 (२००१)
  Total २१,८०,५२६
  Density ३०८/km
Website http://ajmer.nic.in/index.html

अजयमेरुमण्डलं (हिन्दी: अजमेर जिला, आङ्ग्ल: Ajmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलमस्ति । अस्य केन्द्रमस्ति अजयमेरुनामकं नगरम् ।

भौगोलिकम्

[सम्पादयतु]

अजमेरमण्डलस्य विस्तारः ८८४१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे टोङ्कमण्डलं, जयपुरमण्डलं च, पश्चिमे पालीमण्डलम्, उत्तरे नागौरमण्डलं, दक्षिणे भीलवाडामण्डलम् अस्ति । अस्मिन् मण्डले ५२.७३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र बानस इत्येषा नदी प्रवहति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणम् अजमेरमण्डलस्य जनसङ्ख्या २५,८४,९१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.४८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१५० अस्ति । अत्र साक्षरता ७०.४६ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

  • अजयमेरुः
  • पीसाङ्गन
  • ब्यावर
  • नसीराबाद
  • मसूदा
  • केकडी
  • भिनाय
  • सरवाड
  • किशनगढ

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • दौलत उद्यानम्
  • तीर्थराज पुष्कर
  • दरगाह शरीफ
  • मकबरा हजरत ख्वाजा हुसैन चिश्ती
  • मकबरा हजरत अलाउद्दीन चिश्ती
  • सोनी जी की नस्सिया
  • नारेली तीर्थम्
  • अढाई दिन महोदयस्य कुटीरः
  • फोयसागर
  • अकबर किला

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अजयमेरुमण्डलम्&oldid=488049" इत्यस्माद् प्रतिप्राप्तम्