सामग्री पर जाएँ

नागौरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नागौरमण्डलम्
मण्डलम्
राजस्थानराज्ये नागौरमण्डलम्
राजस्थानराज्ये नागौरमण्डलम्
देशः भारतम्
States and territories of India राजस्थानराज्यम्
Area
  Total १७,७१८ km
Population
 (२००१)
  Total ३३,४०,२३४
Website http://nagaur.nic.in
कुच्चमन् किला
कुच्चमन् किला

नागौरमण्डलं (हिन्दी: नागौर जिला, आङ्ग्ल: Nagaur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति नागौरनामकं नगरम् ।

भौगोलिकम्

[सम्पादयतु]

नागौरमण्डलस्य विस्तारः १७७१८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे जोधपुरमण्डलम्, उत्तरे बीकानेरमण्डलं, चुरूमण्डलं, सीकरमण्डलं च, दक्षिणे अजमेरमण्डलं, पालीमण्डलं, जोधपुरमण्डलं च अस्ति । अस्मिन् मण्डले ३६.१६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं नागौरमण्डलस्य जनसङ्ख्या ३३४०२३४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.२५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४८ अस्ति । अत्र साक्षरता ६४.०८ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-

  • नागौर
  • खिन्वसार
  • जायल
  • डेगाना
  • मेरता
  • डीडवाना
  • लदनू
  • प्रभातसर
  • मकरना
  • कुचमान

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • नागौर किला
  • लदनू
  • दादीमतिमातामन्दिरम्
  • मीराबाई-मन्दिरम्
  • कुचमान किला
  • खाटू-श्यामजीमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=नागौरमण्डलम्&oldid=483057" इत्यस्माद् प्रतिप्राप्तम्