सामग्री पर जाएँ

सीकरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सीकरमण्डलम्
मण्डलम्
राजस्थानराज्ये सीकरमण्डलम्
राजस्थानराज्ये सीकरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total ७,७४२ km
Population
 (२०११)
  Total २६,७७,७३७
Website http://sikar.nic.in

सीकरमण्डलं (हिन्दी: सीकर जिला, आङ्ग्ल: Sikar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सीकरनामकं नगरम् ।

भौगोलिकम्

[सम्पादयतु]

सीकरमण्डलस्य विस्तारः ७७४२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे चुरूमण्डलं, नागौरमण्डलं च, उत्तरे झुञ्झुनुमण्डलं, दक्षिणे जयपुरमण्डलम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं सीकरमण्डलस्य जनसङ्ख्या २,६७७,७३७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.०४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४४ अस्ति । अत्र साक्षरता ७२.९८ % अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि -

  • सीकर
  • फतेपुर
  • लक्ष्मणगढ
  • दान्तारामगढ
  • नीम का थाना
  • श्रीमाधोपुर

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • खाटूश्यामजी
  • गणेश्वर
  • जीणमातामन्दिरम्
  • रघुनाथमन्दिरम्
  • हर्षनाथमन्दिरम्
  • श्रीमानसीदेवीमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सीकरमण्डलम्&oldid=484305" इत्यस्माद् प्रतिप्राप्तम्