सीकरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सीकरमण्डलम्
मण्डलम्
राजस्थानराज्ये सीकरमण्डलम्
राजस्थानराज्ये सीकरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ७,७४२ km
Population
 (२०११)
 • Total २६,७७,७३७
Website http://sikar.nic.in

सीकरमण्डलं (हिन्दी: सीकर जिला, आङ्ग्ल: Sikar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सीकरनामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

सीकरमण्डलस्य विस्तारः ७७४२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जयपुरमण्डलं, पश्चिमे चुरूमण्डलं, नागौरमण्डलं च, उत्तरे झुञ्झुनुमण्डलं, दक्षिणे जयपुरमण्डलम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं सीकरमण्डलस्य जनसङ्ख्या २,६७७,७३७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.०४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४४ अस्ति । अत्र साक्षरता ७२.९८ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि -

  • सीकर
  • फतेपुर
  • लक्ष्मणगढ
  • दान्तारामगढ
  • नीम का थाना
  • श्रीमाधोपुर

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • खाटूश्यामजी
  • गणेश्वर
  • जीणमातामन्दिरम्
  • रघुनाथमन्दिरम्
  • हर्षनाथमन्दिरम्
  • श्रीमानसीदेवीमन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सीकरमण्डलम्&oldid=484305" इत्यस्माद् प्रतिप्राप्तम्