सामग्री पर जाएँ

झुञ्झुनुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
झुञ्झुनुमण्डलम्
मण्डलम्
राजस्थानराज्ये झुञ्झुनुमण्डलम्
राजस्थानराज्ये झुञ्झुनुमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
  Total ५,९२६ km
Population
 (२००१)
  Total २१,३९,६५८
Website http://jhunjhunu.nic.in

झुञ्झुनुमण्डलं (हिन्दी: झुंझुनू जिला, आङ्ग्ल: Jhunjhunu district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति झुञ्झुनुनामकं नगरम् ।

भौगोलिकम्

[सम्पादयतु]

झुञ्झुनुमण्डलस्य विस्तारः ५९२६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे, उत्तरे च चुरूमण्डलं, दक्षिणे सीकरमण्डलम् अस्ति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं झुञ्झुनुमण्डलस्य जनसङ्ख्या २१३९६५८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ७४.७२ % अस्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • राणी सती मन्दिरम्
  • बादलगढ किला
  • जोरावरगढ किला
  • खेत्री महल्
  • धोसी पर्वतः
  • खेतन हवेली

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=झुञ्झुनुमण्डलम्&oldid=487309" इत्यस्माद् प्रतिप्राप्तम्