रेणु :

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अणुः इत्यस्मात् पुनर्निर्दिष्टम्)
अणौ परस्परसंयुक्तानां परमाणूनां चित्रम्

द्रव्याणाम् अत्यन्तं सूक्ष्मतमः घटकः अणुः इति निर्दिश्यते । प्रत्येकस्य वस्तुनः रासायनिकान् भौतिकान् च गुणान् अनाशयन्तः यं लघुतमं भागं प्राप्तुं शक्नुयाम सः एव अणुः । इतोऽप्यधिकं विभज्यते चेत् वस्तु विनश्यते । वस्तु यैः मूलधातुभिः निर्मितमस्ति तेषां परमाणवः मात्रम् अवशिष्यन्ते । उदाहरणाय जलबिन्दोः विभाजनेन अन्ते तदीयगुणलक्षणयुक्तं जलस्य अणुः प्राप्त्यते । तस्य विभाजनेन आम्लजनक-जलजनकयोः परमाणवः मात्रम् अवशिष्यन्ते ।

अणुविज्ञानम्[सम्पादयतु]

अणूविज्ञानं द्विधा - अणुभौतविज्ञानम् अथवा अणुरासायनविज्ञानम् इति विषयस्य प्राधान्यं भौतविज्ञाने वा रासायनिके वा इत्यनुसृत्य । रासायनिकबन्धानां संयोगः वियोगः च अणूनां परस्परप्रतिक्रियाम् अनुसृत्य भवति । एताः प्रतिक्रियाः कान् नियमान् अनुसरन्ति इत्येतं विषयं बोधयति अणुरासायनविज्ञानम् ।

बाह्यसम्पर्कः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रेणु_:&oldid=484844" इत्यस्माद् प्रतिप्राप्तम्