सामग्री पर जाएँ

अण्वस्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Operation Sandstone
An atomic explosion lights up the night sky over a coral atoll
Sandstone X-Ray
Information
Country United States
Test site Eniwetok
Period April-May 1948
Number of tests 3
Test type Atmospheric tests
Device type Fission
Max. yield 49 kt
Navigation
United States Nuclear weapons tests
Previous test series Operation Crossroads
Next test series Operation Ranger


अण्वस्त्रविन्यासः

प्रपञ्चे सर्वे प्राणिनः सुखमेव इच्छन्ति । तत् प्राप्तुं बहुविधप्रयत्नं कृत्वा अन्ते दुःखसागरे निमज्जिताश्च भवन्ति । अण्वस्त्रस्य विषयेऽपि अन्या स्थितिः इति न । प्रपञ्चरहस्यस्य अन्वेषणस्य सृष्टितः पौराणिकत्वम् अस्ति । अन्विष्य अन्विष्य पदार्थैः एव प्रपञ्चनिर्मितिः इति अवगतम् । अग्रे तन्मात्राभिः इति ततः अणुभिः इति च निर्णीतम् । ततः अपि शास्त्रं बहूदूरं अग्रे गतम् । इदानीं शास्त्रस्य गमनं दृष्ट्वा एतत् अवसानं भारतीयम् आध्यात्मिकशास्त्रम् एव प्रविशति इति चिन्तयामि । अणुरेव प्रपञ्चाधारः इति चिन्तनं विश्वपरिणामि जातम् । यद्यपि भारते बहोः कालात्पूर्वमेव कणादस्य ततः पूर्वं वेदस्य च काले एव अणुविज्ञानम् आसीत् तथापि तस्य संहारात्मकचिन्तनं पाश्चार्यैः कृतम् ।

आधुनिकवैज्ञानिकमण्डले १८०३ तमे वर्षे जोण्-डाल्ट्टन्महाशयस्य सिध्दान्तः बहिरागतः । सः अणुः वैज्ञानिकक्षेत्रे नवजागरणं कारितवान् । नील्स्बोर्महाशयः अणोः चित्रं कथमिति निर्दिष्टवान् यतः बोरमातृका इति प्रसिद्धमस्ति । एकं केन्द्रमस्ति । तत्परितः इलक्ट्रोण् इति अनेककणाः भ्रमन्ति । तत् चित्रम् एवं विधमासीत् । किन्तु पाश्चात्काले गोलीयरीत्या एव ते भ्रमन्ति न तु निश्चितपथे इति निर्णयः च जातः । इत्थम् अनेकमस्तिष्कैः प्रवर्तननिरतैः भूत्वा अणोः विभजनं संयोजनं च साध्यमिति शास्त्रज्ञाः ज्ञातवन्तः । १२४५ जुलै १६ प्रथमः अणुविस्फोटः अमेरिकायां जातः । अस्य परमभीकरमुखम् १९४५ आगस्ट ६ सोमवासरे लोकैः दृष्टम् । तद्दिने आसीत् सार्धद्विलक्षजनानाम् आवासभूम्यां जापानदेशस्य हिरोषिमा नगरे अमेरिकादेशस्य करालहस्तेन अण्वस्त्रं विस्फोटितम् । तेन ७८१५० जनाः मारिताः सहस्त्रशः जनाः मृतप्रायाश्च जाताः । एतावतां रक्तं पीत्वापि अतृप्तः सः राक्षसः दिनत्रयानन्तरम् इत्युक्ते आगस्ट ९ दिनाङ्के नागसाक्किमध्ये द्वितीयम् अण्वस्त्रप्रयोगं कारितवान् येन ८४००० जनाः मृत्युं गताः । तस्य अनेकगुणिताः जनाः नरकयातनामनुभवन्तः अर्धजीवाः अभवन् । ततः आरभ्य अद्यावधि तस्य अणुप्रसारस्य तेजोधूलिनिपातस्य विकरणज्वालापातस्य आघाततः पूर्णतया न मुक्ताः तद्देशीयाः मानवाः । एतावत् अनुभूयापि विकसितराष्ट्राणि इति कथ्यमानानि मात्सर्यबुद्ध्या ब्रह्मास्त्रकल्पस्य अण्वस्त्रस्य निर्माणे विक्रयणे च व्यग्राणि सन्ति । आयुधविपण्या एव जीवनं कार्यमिति ते चिन्तयन्ति इति तु समाधानकाङ् क्षिणां समग्रमानवानां पन्थाह्वानम् ।

एतां विपदं पूर्वमेव अस्मदृषीश्वराः ज्ञातवन्तः स्युः । अत एव ते आत्मानमपि अणुकल्पं प्रकल्पयन् कठोपनिषदि वदति अणोरणीयान् महतो महीयान् इति । तत्तु पारमार्थिकम् । अत्यन्तसूक्ष्मवस्तुतः अतिमहत्तमा शक्तिः जायते निग्रहानुग्रहशक्तिः । उपयोक्तृणां संस्कारस्यानुगुणं तस्य निग्रहानुग्रहस्वभावः । अत्यन्तप्रयोजनम् एतत् अणुविज्ञानं समग्रमानवराशेः पुरोगतये शान्तजीवनाय च उपयोक्तुं शक्यते । सर्वमेखलासु अणुशक्तेः प्रयोजनं कार्यम् । यथा जीवराशेः वैषम्यं न भवेत् । तदर्थम् परिश्रमशीलाः भवेयुः शास्त्रकाराः ।

जपान् देशस्य उपरि अण्वस्त्रप्रयोगः

चिकित्सासम्प्रदाये अणुविज्ञानस्य प्रयोगः बहुप्रयोजनकरः ऎसोट्टोप् नामकं विभिन्नकणं ततः स्फुरन्तः प्रकाशरश्मयः इत्यादीनां साहाय्येन मनुष्याणां सस्यानां वर्धनं रोगः इत्यादि निर्णेतुम् शक्यते । यन्त्रागारस्थयन्त्राणां नियन्त्रणं चालनं च अणुशक्त्या अपि शक्यते । कृषिकार्ये वैद्युतोत्पादने च रेडियो ऎसोट्टोप् इत्यादीनामुपयोगः न लघुतरः । फोसिल् इत्यस्य कालनिर्णयार्थम् इतिहासकाराणामपि अस्य उपयोगः अस्ति । बृहन्नौका, अन्तर्वाहिनी इत्यादीनां चालनेऽपि अणुविज्ञानं प्रयोजनप्रदम् । एतादृशकार्यार्थम् अमेरिकाराष्ट्रस्य प्रोजक्ट्प्लोषर्, पोजकट्कारियर्, इत्यादयः पध्दतयः अन्येषाम् अपि मार्गदर्शिकाः एव । हिरोषिमा नागसाकि सम्भवाः पुनः न भवेयुः । अणुशक्तिः समाधानकार्याय एव भवेत् । तदर्थमेव लोकराष्ट्राणि प्रयत्नं कुर्वन्तु । अत्यल्पवस्तुनि विद्यमाना राक्षसीया शक्तिः मनुष्यैः जागरिता अस्ति । अणुविज्ञानस्य धनात्मकशक्तेः वर्धनं न कृतं चेदपि ऋणात्मकता न किञ्चिदपि पोषणीया । समस्तजीवजालस्य क्षेमैश्वर्याय ज्ञानं प्रवर्तयतु, नो चेत् एतत् जीवस्य कणिकामपि नाशयेत् । तन्निवारणाय सांस्कृतिकराष्ट्रस्य एव लोकनेतृत्वं भवेदिति सुस्पष्टम् ।

एतादृशे पश्चात्तले एव लोकसमाधानाय मार्गदीपं प्रोज्वलत् भारतमपि अणुविस्फोटम् अकरोत् ।अण्वस्त्रस्य निर्माणे भारतेनापि शक्तिः सम्पादिता अस्ति । भारतस्य प्रप्रथमाणुविस्फोटः १९७५ मध्ये कृतः । एषः अणुविस्फोटः लोकस्यैव दृष्टिपरिवर्तनाय कारणीभूतम् अस्ति । बहुधा एतत् प्राधान्यमर्हति लोके अद्वितीयः चारचक्षुः इति मन्यमानेन अमेरिकादेशेनापि एतस्य स्फोटनस्य सज्जीकरणं तावत्पर्यन्तं ज्ञातुं न शक्तं यावत् प्रधानमन्त्रिणा वाजपेयिना दूरदर्शने प्रख्यापनं कृतम् । अनेन भारतस्य रह्स्यसंरक्षणसामर्थ्यं नेतृत्वकौशलं च स्फुटीकृतम् । साम्राज्यत्वशक्तेः प्रतिरोधशक्तिः नास्ति इति चिन्ताऽपि अपगता । शक्तिमन्तः सन्ति लोके धर्मपालनाय इति यदा बोधः भवति तदा दुष्टशक्तयः अधर्मप्रवृत्तौ मान्द्यम् आतन्वन्ति ।

राष्ट्रं परितः कुटिलदुर्भूतानां सञ्चारः अस्ति । यथावसरं ते राष्ट्रस्य बाधां कर्तुम् एकमात्रदृष्टयः च सन्ति । अतः स्वरक्षानिमित्तं मन्त्रसाधनापूतं सुदर्शनकवचं भारतेन धृतम् इत्यत्र अन्येषां विमतस्य अधिकारः नास्ति । यदि विप्रतिपत्तिं प्रकटयति तर्हि अपि तत्तृणमस्माकं धीरदेशाभिमानिनाम् अमृतपुत्राणां मातृसेवातत्पराणाम् । अतः भारतस्य अणुस्फोटः कुटिलशक्तीनां मस्तके स्फोटायितः भवतु । लोकराष्ट्राणां संरक्षकस्थानं जगद्गुरुभारतस्य भवतु । लोकाः समस्ताः सुखिनो भवन्तु इति वेदमन्त्राशयः साक्षादनुभूतः भवतु ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

सामान्यम्

[सम्पादयतु]

ऐतिहासिकः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अण्वस्त्रम्&oldid=479867" इत्यस्माद् प्रतिप्राप्तम्