अधिगमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

अधिगमः व्यापकं जीवनपर्यन्तं सततप्रचाल्यमाना काचित् गतिशीला प्रक्रिया वर्तते । अधिगमं जर्मनभाषायां Lernen इति कथ्यते तथा आङ्ग्लभाषायां Learning इति कथ्यते । मनुष्यः जन्मतः मृत्युं यावत् यत्किमपि शिक्षत्येव । मनुष्यः स्वीयजीवने तत्कालीनवातावरणेन सह शनैः-शनैः समायोजनाय प्रयतते । समायोजनद्वारा प्राप्तानुभवमाध्यमेन सः अधिकाधिकं लाभान्वितं भवति । इमां प्रक्रियां मनोविज्ञाने अधिगमः इति कथ्यते । मनुष्यः यावत् शिक्षति तावत् तस्य जीवनस्य विकासः भवति । शिक्षणप्रक्रियायां मनुष्यः अनेकाः क्रियाः उपक्रियाः करोति ।उदाहरणार्थ - शिशुं सम्मुखे यदा ज्वलन्तं दीपकं नीयते तदा सः तस्य ज्वालां प्राप्तुं प्रयासं करोति । अस्मिन् प्रयासे तस्य हस्तः ज्वलति तथा सः स्वहस्तं बहिरानयति । पुनः यदा तस्य सम्मुखे प्रज्वलितं दीपं नीयते तदा सः स्वीयानुभवानुसारेण दीपकं न स्पृशति अपितु तस्मात् दूरं गच्छति । इमं विचारमेव स्थितिं प्रति प्रतिक्रियाकरणम् इत्युच्यते । अन्यशब्देषु कथितुं शक्यते यत् अनुभवाधारेण बालकस्य स्वाभाविकव्यवहारे परिवर्तनमायाति ।

अधिगमस्य परिभाषाः[सम्पादयतु]

अनेके विद्वांसः पृथक्-पृथक् रूपेण अधिगमस्य परिभाषाः दत्तवन्तः ते परिभाषाः अधोलिखिताः वर्तन्ते -

१) वुडवर्थमहोदयानुसारं -– “अधिगमः विकासस्य प्रक्रिया वर्तते ।”

२) स्किनरमहोदयानुसारं -– “अधिगमः व्यवहारे उत्तरोत्तरसामञ्जस्यस्य प्रक्रिया वर्तते ।”

३) जे। पी। गिलफ़र्डमहोदयानुसारं -– “व्यवहारकारणेन व्यवहारे जायमानं परिवर्तनं भवति अधिगमः ।”

४) कालविनमहोदयानुसारं -– “पूर्वनिर्मितव्यवहारे अनुभवमाध्यमेन भवितं परिवर्तनम् अधिगमः इत्युच्यते ।”

५) गेट्समहोदयानुसारं -– “अनुभवेन व्यवहारे जायमानं परिवर्तनम् अधिगमः कथ्यते ।”

६) आर्मरोडमहोदयानुसारेण -– “अधिगमेन तात्पर्यमपेक्षितरूपेण स्थायिपरिवर्तनेन वर्तते, यत्तु अनुभवकारणात् व्यवहारे साहचर्ये वा भवति ।”

७) गार्डनरमरफ़ीमहोदयानुसारेण - “अधिगमपदे वातावरणसंबन्धिन्या आवश्यकतायाः पूर्तये व्यवहारे जायमानानि सर्वाणि परिवर्तनानि समाविशन्ति ।”

८) क्रोयुगलमहोदयानुसारेण -– “अधिगमः स्वभावस्य, ज्ञानस्याभिवृत्तेश्चार्जनं नाम ।”

९) गेनेमहोदयानुसारेण -– “मानवप्रवृत्तौ क्षमतायां वा तत्परिवर्तनमधिगमः इति कथ्यते यत् स्थैर्यं भवति तथा च वृद्धिप्रक्रियायाः कारणात् नैव जायते ।”

१०) किङ्ग्स्लेगेरीमहोदययोरनुसारेण -– “अभ्यासस्य प्रशिक्षणस्य वा परिणामतः नूतनप्रकारेण व्यवहारप्रदर्शनस्य व्यवहारपरिवर्तनस्य वा प्रक्रियैवाधिगमः कथ्यते ।”

अधिगमस्य नियमाः[सम्पादयतु]

ई.एल.थार्नडाइकमहोदयेन केचन नियमाः अन्वेषितं ते अधोलिखितभागद्वये विभाजितो वर्तते - –

१) मुख्यनियमाः -–
  • तत्परतायाः नियमः ।
  • अभ्यासस्य नियमः ।
  • प्रभावस्य नियमः ।
२) गौडनियमाः -–
  • बहुअनुक्रिया सिद्धान्तः ।
  • मानसिकस्थितेः नियमः ।
  • आंशिकक्रियायाः नियमः ।
  • समानतायाः नियमः ।
  • साहचर्यपरिवर्तनस्य नियमः ।

मुख्यनियमाः[सम्पादयतु]

तत्परतायाः नियमः -–

अस्य नियमस्यानुसारं यदा कोऽपि व्यक्तिः किमपि कार्यं कर्तुं प्रथमतः सज्जः भवति तदा तत् कार्यं तमानन्दति एवञ्च शीघ्रमेव अधिगच्छति । अस्य विपरीतं यदा व्यक्तिः कार्यकरणार्थं सुसज्जितः न भवति अथवा शिक्षणे इच्छा न भवति तर्हि सः खिन्नः भवति अथवा क्रुद्धः भवति एवञ्च तस्य अधिगमगतिः अपि मन्दः भवति ।

अभ्यासस्य नियमः -–

अभ्यासस्य नियमानुसारं मनुष्यः यां क्रियां बारम्बारं करोति तां क्रियां शीघ्रमेव अधिगच्छति । एवञ्च सः यां क्रियां त्यजति अथवा बहुकालपर्यन्तं न करोति तर्हि सः तां क्रियां विस्मरति । यथा – गणितस्य प्रश्नानामभ्यासकरणम्, टङ्कणकरणम्, द्विचक्रिकाचालनम्, इत्यादिः ।

प्रभावस्य नियमः -–

अस्य नियमानुसारं यया क्रियया मनुष्यस्य जीवने सुष्ठुप्रभावः भवति अथवा सुखशान्तिं प्राप्नोति, तां क्रियामधिगन्तुं सः प्रयतते । एवञ्च यया क्रियया तस्योपरि कुप्रभावः भवति तर्हि सः तां त्यजति ।

गौणनियमाः[सम्पादयतु]

बहुअनुक्रियासिद्धान्तः -–

अस्य नियमानुसारं व्यक्तिसम्मुखे यदा कापि नूतना समस्या आगच्छति तर्हि सः तां निवारणाय विभिन्नप्रतिक्रियामाध्यमैः समाधानम् अन्वेषति । सः प्रतिक्रियां तावत् पर्यन्तं करोति यावत् पर्यन्तं समस्यायाः सुसमाधानं न प्राप्नोति। अनेन सः संतोषं भजते । थार्नडाइकमहोदयस्य प्रयत्नविस्मृति सिद्धान्तः अनेनैवाधारितः अस्ति ।

मानसिकस्थितेः मनोवृत्तेः वा नियमः -–

अस्य नियमस्यानुसारं यदा कोऽपि व्यक्तिः अधिगन्तुं मानसिकरूपेण सुसज्जितः भवति तदा सः शीघ्रमेव अधिगच्छति । अस्य विपरीतं यदि व्यक्तिः मानसिकरूपेण कार्यं कर्तुं सन्नद्धः न भवति तर्हि सः कार्यं नैव अधिगन्तुं शक्नोति ।

आंशिकक्रियायाः नियमः -–

अस्य नियमानुसारं व्यक्तिः कामपि समस्यां साधयितुम् अनेकाः क्रियाः प्रयत्नविस्मृतिश्च इत्याधारेण करोति । सः स्वीयन्तर्दृष्टेः उपयोगं कृत्वा आंशिकक्रियाणां सहायतामाध्यमेन समस्यायाः समाधानं अन्वेषति ।

समानतायाः नियमः -–

समानतायाः नियमानुसारं यदि आगतसमस्या अथ च मनुष्यस्य पूर्वानुभवमध्ये परिस्थितिर्मध्ये वा साम्यता दृश्यते चेत् समस्यायाः आगमने मनुष्यस्य अनुभवः स्वतः एव स्थान्तरितं भूत्वा अधिगमे साहाय्यं करोति ।

साहचर्यपरिवर्तनस्य नियमः -–

अस्य नियमस्यानुसारं व्यक्तिः प्राप्तज्ञानस्य उपयोगः अन्येषु परिस्थितिषु अथवा सहचारी उद्दीपकं प्रत्यपि करोति। यथा – भोजनं दृष्ट्वा कुक्कुरस्य मुखात् स्वतः एव लारस्रावः निपतति। परन्तु कालानन्तरं भोजनद्रोणीं दृष्ट्वा एव लारस्रावः तस्य मुखात् निर्गच्छति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अधिगमः&oldid=422555" इत्यस्माद् पुनः प्राप्तिः