सामग्री पर जाएँ

अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रपञ्चस्य सम्पद्भरितदेवस्थानेषु अन्यतमम् तथा सम्पदा प्रसिध्दं देवस्थानं केरलस्य राजधान्यां तिरुवनन्तपुरे अस्ति। तदेव अनन्तपद्मनाभस्वामिनः देवस्थानम्। एषः प्राचीनः देवालयः तिरुवाङ्कूरुराजवंशस्य नियन्त्रणे अस्ति। राजवंशस्थाः एव विश्वस्थाः सन्तः देवस्थानस्य निर्वहणं कुर्वन्ति।

अनन्तपद्मनाभदेवालयः(तिरुवनन्तपुरम्)

८०वर्षेभ्यः पूर्वं तन्नाम १९३१तमवर्षस्य डिसेम्बरमासस्य ६तमे दिनाङ्के देवस्थानस्य स्वर्णाभरणस्थापनस्य भूतलप्रकोष्ठं तिरुवाङ्कूरुमहाराज्ञः चित्तिरतिरुनलबलरामवर्मणः सम्मुखे यदा उद्घाटितं तदा तत्र भूतलकुसूलः आसीत्। तस्मिन् ३०० स्वर्णकलशाः, स्वर्णस्य तथा रजतस्य नाणकानि, आभरणानि, वज्राभरणानि, अमूल्यानि रत्नानि च आसन्। अग्निशामकाधिकारिणां साहाय्येन देवस्थानस्य भूम्यन्तरगुहाप्रकोष्ठम् उद्घाट्य तत्र विद्यमानानि अमूल्यवस्तूनि शोधयित्वा पट्टिकामेका सज्जीकर्तुं २०११तमवर्षस्य जनवरीमासे परमोच्चन्यायालयेन पुरातत्त्वशाखां प्रति आदेशः कृतः अस्ति। आदेशानुसारं देवस्थानस्य सर्वाभरणानां, सर्वसंपत्तेः च परिशीलनं कृतम्। स्वर्णाभरणेषु १८ तमशतकस्य नेपोलियन् युगस्य नाणकानि सार्धत्रिपादपरिमिता महाविष्णोः ३० के. जि.भारयुक्ता मूर्तिरेका लब्धा। देवस्थानं तथा तस्य सम्पत्तिं राज्यसर्वकारः निर्वहतु इति केरलस्य उच्चन्यायालयेन २०११तमे वर्षे जनवरीमासस्य ३१ तमे दिने आदेशः प्रकटितः। देवस्थानस्य विश्वस्थमण्डल्याः अध्यक्षस्थाने स्थिताः राजवंशजाः निर्णयस्यास्य औचित्यं पृष्टवन्तः। राज्यन्यायालयस्य निर्णयं तिरस्कुर्वन् सर्वोच्चन्यायालयः देवस्थानस्य अन्तः बहिः च अतिसुरक्षायाः व्यवस्थां कर्तुं तथा देवस्थानस्य अमूल्यवस्तूनां मौल्यनिर्देशं कर्तुम् आदेशम् अकरोत्। देवस्थानस्य अन्तः तथा बहिः सुरक्षितव्यवस्थाकरणेन स्वर्णाभरणस्य तथा सर्वसंपत्तेः मौल्यमापनेन ज्ञातम् यत् पद्मनाभस्वामिदेवालयः भारते अत्यन्तसम्पद्भरितदेवस्थानमिति। सम्पद्दृष्ट्या तिरुमलतिरुपतिवेङ्कटेश्वरदेवस्थानादपि सम्पद्भरितम् इति अवगतम्। स्वर्णाभरणस्य, इतरसम्पत्तेः मौल्यं तावत् ३२०दशलक्ष (अमेरिकन् डॉलर् ७.१४ मि.अमेरिकयाः डॉलर्) रुप्यकाणि। स्वर्णाभरणस्य मौल्यं १.२ ट्रिलियन् रुप्यकाणि (६.७६बि. डॉलर्) (१,२०,००,००,००० रुप्यकाणि) एतादृशसम्पत्तिः जगति यस्मिन् कस्मिन् देवालये अपि न दृश्यते । अतः एतत् देवस्थानं भूमण्डले अत्यन्तं सम्पद्भरितं देवस्थानम्। देवस्थानस्य सर्वाभरणानि प्राचीनानि अतः अद्यत्वे तस्य मूल्यं दशगुणितं अधिकं भवति। देवस्थानस्य सर्वाणि आभरणानि पुरा वणिग्भिः, यात्रिभिः राजवंशस्थैः भक्तजनैः समर्पितानि सन्ति। इतिहासज्ञैः उच्यते यत् एतत् कररुपेण वा परितोषिकरूपेण राज्ञे समर्पितं स्यात्। अथवा युध्दे विजयम् अवाप्य अधीनराज्यस्य आभरणानि सुरक्षा दृष्ट्या अत्र निक्षिप्तानि स्युः। मध्ययुगे मन्नार प्रदेशात् वा जाफ़्नाप्रदेशात् ये वणिजः आगच्छन्ति स्म ते तथा अन्ये यात्रिकाः देवस्थानस्य अस्य भक्ताः आसन्। १५८७ तमे वर्षे तिरुवनन्तपुरस्य देवस्थानस्य नाशः अभवत्। केभ्यश्चित् वर्षेभ्यः अनन्तरं गोपुरं निर्मितम्। देवस्थाने आहत्य ६ भूम्यन्तरगुहाः सन्ति। ताः क्रमात् ‘ए’ ‘बि’ इति नामाङ्कितानि सन्ति। ‘ए’ ‘बि’ भुम्यन्तरगृहाः १३० वर्षेभ्यः नोद्घाटिताः। ‘सि’ तः 'एफ़्'पर्यन्तं विद्यमानाः गुहाः तदा तदा पूजार्थं, धार्मिकक्रियार्थम् आभरणानि उपयोक्तुं च उद्घाट्येते।, एतदर्थं उच्चन्यायालयेन आदेशः प्रदत्तः अस्ति। ‘ए’ तथा ‘बि’ भूम्यन्तरगृहं स्वर्णाभरणशोधनार्थं उद्घाट्य अनन्तरं द्वारं पिहितं स्यात्। ‘बि’ भूम्यन्तर्गृहस्य अन्तः किमस्ति इति तज्ञाः अपि कुतूहलिनः सन्ति। तस्य उद्घाटनविषये निर्धारयितुम्, उच्च न्यायालयेन समितिः उपस्थापिता अस्ति । समितौ अष्टसदस्याः सन्ति। आभरणानां मौल्यमापनं, ‘बि’ भुम्यन्तर्गृहस्य विषयोऽपि ते परिशीलनं कुर्वन्ति।

देवस्थानस्य इतिहासः

[सम्पादयतु]

देवस्थानमेतत् अष्टमे शतके निर्मितम्। तदा तिरुवनन्तपुरं चेरिसाम्राज्यस्य राजानः परिपालयन्ति स्म। केरलप्रदेशे विद्यमानेषु एकादशदिव्यदेवस्थानेषु एतत् अन्यतमम् इति आळ्वास नामकः कविः स्वस्य ‘दित्यप्रबन्धे’ वर्णितवान् अस्ति। ब्रह्म-वायु-वराह-पद्म-पुराणेषु देवस्थानस्य उल्लेखः अस्ति। देवस्थानमेतत् सप्तसु परशुरामक्षेत्रेषु अन्यतमम् इति अपि एतेषु पुराणेषु प्रतिपादितम् अस्ति। देवस्थानस्य शिखरं पाण्डयशैलीम् अनुसृत्य निर्मितम् अस्ति। तस्य औनत्यम् १००पादपरिमितम् अस्ति। शिखरस्य मूलशिलास्थापनं १५६६ तमे वर्षे अभवत्। देवस्थानम् पद्मतीर्थनामकस्य सरोवरस्य तीरे अस्ति। देवस्थाने ३६५ शिलाशासनानि उपस्थापितानि सन्ति। तस्य पुरतः ८०पादपरिमितः ध्वजस्तम्भः अस्ति। शिखरस्य अधः नाट्यशाला निर्मिता तत्र वर्षे द्विवारं कथक्कली नृत्योत्सवः दशदिनपर्यन्तं प्रचलति। १८ शतके पद्मनाभदेवस्थानस्य समस्तसम्पत् अष्ट-आळ्वाराणां नियन्त्रणे आसीत्। १७५०तमवर्षस्य जनवरीमासस्य तृतीयदिनाङ्के राजा मार्ताण्डवर्मा तिरुवाङ्कूरसाम्राज्यं पद्मनाभस्वामिपदतले समर्प्य “अहं तथा मदीया सन्ततिः पद्मनाभस्य दासाः भूत्वा जीवनं यापयामः” इति प्रतिज्ञां कृतवान्। सः आत्मानम् ‘पद्मनाभदासः’ इति वदति स्म। ततः प्रभृतिः तिरुवाङ्कूरुसाम्राज्यस्य प्रतिराजस्य नाम पद्मनाभदास इति प्रसिध्दम्। राजवंशस्य स्त्रियः पद्मनाभसेविकाः इति नाम्ना प्रसिध्दाः सन्ति।

तिरुवाङ्कूरुसाम्राज्यस्य राजानः

[सम्पादयतु]
  • मार्ताण्डवर्मा – १७२९-१७५८
  • धर्मराजः – १७५८- १७९८
  • बलरामवर्मा – १७९८-१८१०
  • गौरी लक्ष्मीबायी – १८१०- १८१५
  • स्वाती तिरुनल् – १८२९- १८४६
  • उत्ताम तिरुनल् – १८४६- १८६०
  • अय्यिल्यां तिरुनल् – १८६०- १८८०
  • विशाखं तिरुनल् – १८८०- १८८५
  • मूलं तिरुनल्- १८८५-१९२४
  • सेतु लक्ष्मीबायी – १९२४- १९३२
  • चित्तिरा तिरुनल् – १९३१- १९४९