सामग्री पर जाएँ

अन्ताराष्ट्रीयसाक्षरतादिनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अन्ताराष्ट्रिय-साक्षरतादिनम्
अन्ताराष्ट्रिय-साक्षरतादिनम्
अन्ताराष्ट्रिय-साक्षरतादिनम्


अन्ताराष्ट्रिय-साक्षरतादिनम्
दिनाङ्कः ८ सेप्टेम्बर्

प्रतिवर्षं सप्टेम्बरमासस्य अष्टमे दिनाङ्के अन्ताराष्ट्रियसाक्षरतादिनम्'स्थूलाक्षरैः युक्तः भागः' आचरन्ति । १९८८ तमे वर्षे साक्षरतादिनस्य आचरणविषये भारत सर्वकारेण निर्धारः कृतः अस्ति । अक्षरज्ञानेन विना प्रत्येकजनस्य अथवा देशस्य उन्नतिः असाध्या इति आलोच्य साक्षरान्दोलनं, प्रवर्तितमस्ति । भारतदेशस्य जनसङ्ख्या १९९१ तमे वर्षे कृतजनगणनाधारेण ८४ कोटिपरिमिता आसीत् । २०१३ तमे वर्षे १२० कोटिपरिमिता अस्ति । भारते प्रतिशतं सप्ततिजनाः साक्षराः सन्ति । पुरुषाः अधिकप्रमाणेन साक्षराः सन्ति । किन्तु स्त्रियः ४० प्रतिशतं मिताः साक्षराः इति तु दुःखदायकः विषयः अस्ति । आहत्य इदानीं प्रतिशतं सप्तति जनाः साक्षराः सन्ति । केरलराज्ये सर्वे जनाः साक्षराः इति तु अतीव महत्वपूर्णः विषयः अस्ति । जनाः विविधक्षेत्रेषु कार्यं कुर्वन्ति । सर्वकारीयसेवायां तथा स्वायत्तसेवायां साक्षराः कार्यं कुर्वन्ति । कृषि क्षेत्रे तथा दैनन्दिनश्रमक्षेत्रे वर्तमानाः जनाः विशेषतः निरक्षराः सन्ति ।

देशस्य अभिवृध्दिविषये चर्चाप्रसङ्गे साक्षरता महत्वपूर्णा भवति । साक्षराः जनाः एव स्वकीयंजीवनम् उत्तमरीत्या कल्पयन्ति इति तु सदा सत्यम् अस्ति । साक्षरता सर्वेषां जनानां वरः एव । स्वेष्टकार्यकरणे विद्या, बुद्धिः देहबलम् आरोग्यं च कारणानि भवन्ति । स्वीयबुध्दिद्वारा कार्यप्रवर्तनार्थम् अक्षरज्ञानम् अनिवार्यम् अस्ति । भारतीयसम्विधाने सर्वेषां जनानां प्राथमिकं शिक्षणम् अनिवार्यं कृतमस्ति । अथापि दरिद्र्ताकारणात् जनाः स्वसन्तानं विद्यालयं न प्रेषयन्ति । यत्र कुत्रापि कार्ये नियोजयन्ति । तेन च जीवननिर्वहणं साधयन्ति । भारते सर्वजनानाम् अक्षरज्ञानप्राप्तये सर्वकारेणापि अनेके कार्यक्रमाः योजनाः उपायाः कृताः सन्ति । मानवस्य जीवने तत्कालिकविषयज्ञानार्थं देशस्य विषये चिन्तनार्थं धन सम्पादनार्थं तथा उद्योगस्य कृते च अक्षरज्ञानं अथवा कनिष्ठार्हता आवश्यिकी अस्ति । राजकीयक्षेत्रे अर्हताविषयः नास्ति । तत्र वयः अर्हताविषयः इति तु खेदकारकः विषयः अस्ति । अस्माकं प्रशासने स्थितानामपि विद्यार्हतायाः निर्धारः आवश्यकः अस्ति ।

प्राथमिकशिक्षा अनिवार्या कृता अस्ति । तत्र चतुर्दशवर्षपर्यन्तं बालाः शिक्षाप्राप्तये अर्हाः भवन्ति । सर्वे बालाः शिक्षां प्राप्नुयुः इति सर्वकाराः अनेक प्रोत्साहककार्याणि कुर्वन्तः सन्ति । तदर्थं मध्याह्नभोजनव्यवस्था सर्वकारैः कृता अस्ति । दूरतः आगन्तुं द्विचक्रिकाः दत्ताः सन्ति । बालानां गणनां तदा तदा कुर्वन्ति । एतेन बाल्ये एकोऽपि बालः, एकाऽपि बाला च निरक्षरः न भवतु इति उद्देशः अस्ति । जनसङ्ख्यायाः सप्ततिप्रतिशतं जनाः मध्यवयस्काः अथववृध्दाः सन्ति । एतेषु बहवः अशिक्षिताः । एतेषां शिक्षणार्थं वयस्कशिक्षणम् इति योजना आरब्धा अस्ति । ‘रात्रिशाला’ इति कार्यक्रमे निरक्षराणां अक्षरज्ञनार्थं तत्र तत्र साक्षरताप्रचारं प्रशिक्षणं च कुर्वन्ति । यथा यथा जनसङ्ख्या अधिकाऽभवत् तथा साक्षरता अपि वर्धिता चेत् उत्तमं भवति स्म । किन्तु अधुनातनकालेऽपि अनेके जनाः अशिक्षिताः इति तु भारतस्य अभिवृद्धये हानिकारकः विषयः अस्ति ।

साक्षराणां स्वमत्यनुसारं कार्यं कर्तुम् अवकाशः भवति । निरक्षराः स्वसामर्थ्यमपि न जानन्ति । तेषु या शक्तिः अस्ति कला सङ्गीत कुशलशिल्प परिणतिः अस्ति तस्य सदुपयोगं कर्तुं ते समर्थाः न भवन्ति । अन्धविश्वासः, व्यवहारज्ञानाभावः , देशविदेशस्थितिगतिविषये अज्ञानं सर्वत्र बाधां जनयन्ति । सर्वकारस्य योजनायाः लाभं स्वीकर्तुमपि निरक्षराः असमर्थाः भवन्ति । यद्यपि आङ्ग्लानां प्रशासनकाले एव भारते शिक्षणव्यवस्था कल्पिता आसीत् । स्वातन्त्र्मानन्तरम् अनेकाः योजनाः कृताः सन्ति । अथापि जनाः निरक्षराः इति तु खेदकरः विषयः ।

साक्षरतायां व्यक्तिः स्वनाम स्वराज्य स्वग्राम् स्वदेश स्वानुभवप्रकटनं हस्ताक्षरलेखनम् इत्यादि विषयेषु ज्ञानप्रात्पिः भवति । देशे सर्वत्र अक्षरज्ञानस्य महत्त्वं धोषणाभिः, पत्रिकाभिः दूरदर्शने, मार्गदर्शनैः च प्रचारितम् अस्ति । अनक्षराः यत् कष्टम् अनुभवन्ति ते साक्षराः भवन्ति चेत् कष्टं निवारितं भवति । विशेषतः महिलानाम् आर्थिकज्ञानं, व्यवहारज्ञानं, कुटुम्बपरिपालनयोग्यता कलादिषु आसक्तिः अक्षर ज्ञानेनैव भवति । देशे साक्षरतान्दोलनं सततं प्रवृत्तम् अस्ति । तत्र सर्वे अक्षरताः सक्रियं पात्रं निर्वहन्ति चेत् अन्येषाम् अपि सफलता सिध्यति । सर्वे साक्षराः भवन्तु तथा साक्षराः अपि कार्यं कुर्वन्तु इति आशयः सर्वकारस्य अस्ति । साक्षरतादिनाचरणॆ अक्षरविद्या एव चर्चाविषयः अस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]