अपधमनिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अपधमनिनः हृदयतः बहिः रुधिरं प्रसारयितुं विद्यमानाः नाडयः। सामान्यतः अपधमनयः आम्लजनकयुक्तरुधिरं प्रसारयन्ति। किन्तु एतस्मै अपवादद्वयम् अस्ति। श्वासकोशस्य अपधमनिः, नाभेः अपधमनिः इति। वास्थविकतया अपधमनेः रुधिरस्य परिमाणम् अपधमनेः व्यवस्थां प्रपूर्यमाणं बाह्यकोशद्रवम्।

अपधमनयः रुधीरप्रसारव्यवस्थायाः कश्चन भागः। रुधिरप्रसारव्यवस्था सर्वेभ्यः जीवकोशेभ्यः अम्लजनकं तथैव पौष्ठिकांशान् वितरणेन सह इङ्गालद डैयाक्सैड तथैव त्याज्यपदर्तानि निष्काशयति, अपेक्षित पि.एच् इत्यस्य रक्षणं करोति। कामरूप(प्रोटिन्) पुनः प्रतिरोधकव्यवस्थायाः जीवकोशानाम् उत्तरदायित्वम् अस्य भवति। क्वचित् महानगरेषु मरणस्य कारणद्वयं भवति यथा ह्रदायाघातः पुनः मस्तिष्काघातः एतौ द्वौ अपि साक्षात् अपधमनिव्यवस्थां बहुभ्यः वर्षेभ्यः निधानगत्या नश्यमाणं भवति पुनः क्रमशः बलहीनः जायमानः भवति इत्यतः एतत् सम्भवति।

मानवशरीरस्य अपधमनिव्यवस्था हृदयतः सम्पूर्णशरीरस्य कृते रुधिरप्रसारस्य एका सुव्यवस्था आस्ति।तथैव हृदयतः श्वासकोशेभ्यः आम्लजनकरहितरुधिरं प्रसार्यमानं श्वासकोशम् अपधमनिः इति विभज्यते। अपधमनेः बाह्य कवचस्य नाम ट्युनिका एक्सटर्ना इति। एतद् संयोजक-अङ्गांशेन रचितम् अस्ति। एतस्य कवचस्य अन्तः त्युनिका मिडिया अस्ति। अपधमनीनां प्रसारव्यवस्था इतरभागेभ्यः अपेक्षया अधिकरुधिरप्रबलता भवति। अपधमनिषु प्रबलता हृदयचक्रावधौ परिवर्तितं भवति। एतत् यदा हृदयः सङ्कुचितः भवति तदा बहु अधिकं भवति पुनः हृदयः विकसितः भवति बहु न्यूनं भवति। प्रबलतायां परिवर्तनं नाडिम् उत्पादयति। एतत् शरीरस्य विभिन्नेषु भगेषु अनुभवितुं शक्नुमः।

"https://sa.wikipedia.org/w/index.php?title=अपधमनिः&oldid=443406" इत्यस्माद् प्रतिप्राप्तम्