अफ्जल् अल्टानि
अफ्जल् अल्टानि |
---|
सङ्केतः
[सम्पादयतु]अफ्जल् अल्टानि जनकः- महमद् हुसेन् अल्टानि वासः २७/४ हिल् राक् सोसैटि गृहस्तोम. मुम्बयी
परिचयः
[सम्पादयतु]महाराष्ट्रम् अस्माकं देशस्य प्रमुखं राज्यम्। मुम्बयीनगरं महाराष्ट्र्स्य प्रमुखं नगरम् अस्ति । भारते अधिकजनसंख्यायुक्तेषु नगरेषु एतत् द्वितीयं नगरम् अस्ति । अस्य नगरस्य बहिर्भागे हिल् राक् सोसैटि इत्यस्य सप्तविंशतितमस्य भवनस्य चतुर्थे गृहस्तोमे श्री महम्मद् हुसेन् अल्टानि सकुटुम्बं वसति । तस्य पत्नी श्रीमती रजिया अल्टानि । महम्मद् हुसेन् अल्टानि तावत् आटोरिक्षाचालकः। दम्पती द्वितीयकक्ष्यापर्यन्तं पठितवन्तौ । एतयोः प्रियः पुत्रः अफ्जल् अल्टानि । एषः १९७७ तमवर्षस्य फेब्रवरिमासस्य २० दिनाङ्के जन्म लब्धवान् । सः चतुरैः वचनैः च मातापितरौ सन्तोषयति स्म। २-३-१९८७ तमे दिने श्रीमती रजिया अस्वस्था आसीत् । वैद्यस्य निर्देशानुसारं मात्रे औषधम् आनेतुम् अफ्जल् अल्टानि औषधालयं प्रति गच्छन् आसीत् । समयः सायं पादोनसप्तवादनम् ।
साहसप्रदर्शनम्
[सम्पादयतु]मार्गदीपाः तदानीम् एव प्रकाशयितुम् आरब्धाः। मार्गस्य दीपस्य प्रकाशे एकः बालकः एका बलिका च क्रीडतः स्म । क्रीडन्ती बालिका सन्तोषभरेन धावितवती। अनतिदूरे गर्तः शरावेण पिहितः न आसीत्। । सा तत्र पतिता। प्रायः दूषितजलनिर्गमनालः मार्गमध्ये एव भवति । प्रायः अस्य षट्पादपरिमितं गभीरं, पञ्चपादपरिमितं व्यासयुक्तं भवति नालद्वारम् । जनाः वाहनानि च तस्य उपरि गच्छन्ति । यदि शरावेण न पिहितः चेत् जनाः तन्मध्ये पतन्ति । तद्दिने प्रायः कानिचन वस्तूनि नालमार्गम् अवारोधयन् । नगरसभायाः कर्मकराः शरावं तथैव स्थापयित्वा गृहं गतवन्तः । श्वः आगत्य अग्रिमं कार्यं करणीयम् इति विचिन्त्य शरावं तत्रैव स्थापितवन्तः आसन् । तत्र चतुष्पादौनत्यमितं जलमासीत् । तत्र सा बालिका पतितवती। तस्याः नाम रश्मिता । तया सह तस्याः जनकः श्री एस्. देशमुखः निवसति स्म। सा नववर्षीया आसीत् । रश्मिता यदा नालमध्ये पतिता तदा सः बालकः भीतः । सः गृहं प्रति धावितवान् । एतद् दृष्ट्वा अफ्जल् दुःखितः । हा! बालिका नाले पतिता । सहवर्ती बालकः रक्षणम् अकृत्वा धावितवान् । सा मृता भवेत् । अफ्जलः साहाय्यार्थं आक्रोशनं कृतवान्। परन्तु कोऽपि नागतवान् । विलम्बेन रश्मिता मृता भवेत् इति सः चिन्तितवान् । अधोमुखी सन् नालमुखे पश्यति । तत्र दुर्गन्धः एव घ्रातः तेन । सः काञ्चित् यष्टिकां अन्वेष्टुम् इतः ततः पश्यति । परन्तु यष्टिका न दृष्टा । हस्तं प्रसार्य ताम् उन्नेतुम् इष्टवान् । रश्मिता तावत् नववर्षीया । एषः दशवर्षीयः। प्रायः द्वयोः भारः समानः एव। आधारं विना तस्याः उन्नयनं दुष्करम् एव आसीत् । चिन्तयितुमपि समयः नासीत्। रश्मिता दूषितजले निमज्जिता सती कष्टेन श्वसिति स्म । सः स्वजानुद्वयस्य आधारेण स्वस्य सम्पूर्णबलेन ताम् आकृष्य उन्नीय तटम् आनीतवान् तदा जनाः तत्र आगताः। पूर्वं धावितवतः बालकात् विषयं ज्ञात्वा देशमुखदम्पती अपि तत्र आगतवन्तौ । रश्मितायाः स्थितिं विलोक्य दुःखितौ अभवताम्। अनुक्षणं गृहं नीत्वा शरीरं जलेन शुद्धीकृत्य नूतनं वस्त्रं धारयतः।
पुरस्कारः
[सम्पादयतु]अफ्जलस्य साहसं समय- प्रज्ञां च ज्ञात्वा भारतस्य बालकल्याणमण्डली एतं राष्ट्रसाहसप्रशस्त्यर्थम् चितवती। मातापितरौ तेन आनन्दितौ। अफ्जल् २५-१-१९८८ तमे दिने मातापितृभ्यां सह देहलीं गत्वा प्रधानमन्त्रिणः राजीवगान्धिवर्यस्य हस्ततः प्रशस्तिं स्वीकृतवान् । सः इदानीं (१९८८-८९) वीरदेसायिमार्गे वर्तमानायाः स्वामिमुक्तानन्दप्रौढशालायाः षष्ठकक्ष्यायाः छात्रः । सः विमानचालकः भवेत् इति स्वाशां प्रकटयति ।
""