अभिराज राजेन्द्र मिश्र:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अभिराज राजेन्द्र मिश्र: १९४३ वर्षे जन्म प्राप्तवान् | एष: संस्कृतलेखक: , कवि:, नाटकरचयिता एवं वाराणसिस्थसंपूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतिचर: वर्तते |हिमाचलप्रदेशस्थ: शिमला विश्वविद्यालये संस्कृतविभागे विभागाध्यक्षरूपेण कार्यमकरोत्। इन्डोनेषिया विश्वविद्यालयस्य अतिथि-प्राचार्यरूपेण कार्यमकरोत् यश्च विश्वविद्यालय: इन्डोनेषियादेशे अति पुरातन: वर्तते |

 अभिराज राजेन्द्र मिश्र: १९८८ वर्षे संस्कृतक्षेत्रे साहित्य अकाडमी पुरस्कारविजेता वर्तते | त्रिवेणी कवि:  इति नाम्ना एष: प्रसिध्द: | संस्कृते , हिन्द्याम्, आङ्ले, भोजपुर्याञ्च एतेन बहु पुस्तकानि लिखितानि |

“वैयक्तिकजीवनम्”[सम्पादयतु]

 अभिराज राजेन्द्र मिश्र: उत्तरप्रदेशराज्यस्थ: जौन्पुर मण्डले विद्यमाने  द्रोणिपुरग्रामे  जनिं लेभे।एतस्य पिता पण्डित दुर्गप्रसादमिश्र:, माता च अभिराजि देवी ।एतस्य दीक्षागुरु: रामभद्राचार्य:,येन  रचितं  "गीतरामायणम्" पौराणिकं गीतं अभिराज राजेन्द्र मिश्रेण २०११ वर्षे जनवरिमासस्य १४ दिनाङ्के प्रकाशितम्।अभिराज राजेन्द्र मिश्र: सेवानिवृत्ते: परं हिमाचलप्रदेशराज्ये शिमलानगरे वसति।

प्रधानकार्याणि[सम्पादयतु]

अभिराज राजेन्द्र मिश्रस्य प्रधानकार्याणि, तानि - 

इक्षुगन्ध: अरण्यानि अभिराज- यशोभूषणम् धर-माण्डवीयम् जानकिजीवनम् मधुपर्णि संस्कृत साहित्य मे अन्योक्ति सप्तधारा अभिराज सहस्रकम् नाट्यपञ्चगव्यम् नाट्यपञ्चामृतम् वाग्-वधूटि मृद्विका श्रुतिम्भरा बलिद्वीपे भारतीयसंस्कृति: विंशशताब्दि संस्कृतकाव्यामृतम् (सं) सुवर्णद्वीपीय रामकथा संस्कृत शतकम् Poetry and Poeties

प्रशस्तय: एवं संस्तुतय:[सम्पादयतु]

साहित्य अकाडमी पुरस्कार: (१९८८ वर्षे संस्कृते लघुकथानां सङ्कलनाय " इक्षुगन्ध:" ) २००२ वर्षे राष्ट्रपतिपुरस्कार: | वाल्मीकि - सम्माननम् वाचस्पति - सम्माननम् उत्तरप्रदेश संस्कृतसंस्थानत: विश्वभारती सम्माननम्