अमरचन्द्रसूरिः
त्रयोदश-शताब्दीस्थस्य गुर्जरकवेः अमरचन्द्रसूरेः संस्कृतसाहित्ये योगदानम् ।
- हार्दिक-दिनेशभाई-भट्टः
परिचय:-
संस्कृत-साहित्यपरम्परायाः समृद्धीकरणे महाकवेः अमरचन्द्रसूरेः महत् योगदानम् अस्ति । अन्येषां संस्कृतकविनां इव अमरचन्द्रसूरिः स्वरचनासु स्ववंशजीवनसम्बन्ध-विषये विशेषतया किमपि न लिखितवान् । अद्यापि तस्य परिचयं प्राप्तुं अस्माकं पुरतः द्वौ आधारौ स्तः । प्रथमस्तावत् तस्य युगस्य प्रसिद्धराज्ञाश्रितानां विवरणं यत्र कविविषये अत्यल्पो उल्लेखो उपलभ्यते । अन्यस्तु इतिहासपुस्तकेषु, समालोचनपुस्तकेषु, संस्कृतसाहित्यस्य पुस्तक-पत्रिकासु सम्पादकीय-वक्तव्येषु उपलभ्यते, तस्मिन् प्रामाणिकता महत्त्वं च विचारणीयम् ।
संवत् १४०५ ई. तमे वर्षे राजेश्वरेन लिखितस्य "प्रबन्धक-कोशानुसारं "1 "विवेकविलासस्य" लेखकः जीवदेवसूरेः शिष्यः जिनदत्तसूरिः आसीत्, सः वायडगच्छीयः2 परकायप्रवेश-विद्यानिपुणः आसीत् । जिनदत्तस्य तेजस्वी शिष्यः अमरचन्द्रसूरिः आसीत्, सः श्रमण-आश्रमात् पूर्वं स्वग्रन्थेषु स्वस्य कुलगोत्रवंशस्य उल्लेखं न कृतवान् । सम्भवतः बाल्यकाले एव पितरौ मृतौ आस्ताम् तेन सः अत्यल्पवयसि जैनश्रमणस्य आश्रमम् आगतः आसीत् । संन्यासपरम्परायां पूर्वाश्रमसम्बद्धानां जनानां नामानां उल्लेखः न भवति तत्र गुरुः एव पिता भवति । अस्य धर्मस्य अनुसरणं कृत्वा अमरचन्द्रसूरिः स्वस्य परिचये सर्वत्र स्वस्य तुरियाश्रमस्य गुरोः नामेव उल्लेखितवान् अस्ति तथा च वंशपरम्परायां गुरुपरम्परा एव दत्ता अस्ति। 3
जिनदत्तसूरिः
रासिल्लसूरिः
जीवदेवसूरिः
हनुमान्
भीमः
अमरचन्द्रसूरिः
अस्य वंशपरिचयस्य उल्लेखः कवेः 'बालभारतम्-महाकाव्यस्य प्रशस्त्यामस्ति । किन्तु राजशेखरस्य 'प्रबन्धकोशानुसारं गुरुणां क्रमः एवं दत्तः अस्ति –जीवदेवसूरिः -- जिनदत्तसूरिः -- अमरचन्द्रसूरिः " बालभारतस्य प्रत्यकेस्मिन् सर्गान्ते अमरचन्द्रसूरिं जिनदत्तसुरेः शिष्यः उक्तः
"श्री मज्जिनदत्तसूरिशिष्यश्रीमदमरचन्द्र विरचिते । "
वंशपरम्परानुसारं अमरचन्द्रसूरेः पितुः नाम हनुमान-इति आसीत् ।4 सः वायडगच्छियः श्वेतम्बरानुयायी चासीत् |5 एतत् वायडस्थानं पूर्वं वारभट् इति नाम्ना प्रसिद्धम् आसीत् । अत्रत्याः ब्राह्मणाः वैश्याश्च वायुदेवं स्वदेवता-इति मन्यन्ते स्म । 'बालभारते कविरपि वायुं स्वस्य पूज्यदेवम् उल्लेखितवान् । सः तस्य पूजनेन प्रजाहितम् अकामयत् । अमरचन्द्रसूरिणा कविराज-अरिसिंहात् सिद्धसारस्वत-मन्त्रं प्राप्तवान् आसीत्, यस्याराधनां सः एकाग्रचित्तरूपेण निद्राजयेन, आसनजयेन, कवायजयात् च कृतवान् आसीत् । कोष्ठावारि-कवेः आग्रहेण विशालभवनस्य कोष्ठके उपविष्टेन अमरचन्द्रेण एतत् सरस्वतीध्यानं समापितम् । २१ दिवसान् निरन्तरध्यानानन्तरं मध्यरात्रौ आकाशस्य चन्द्रबिम्बात् निर्गता सरस्वती स्वस्य कमण्डलतः जलं पायित्वा अमरचन्द्रसूरिं वरं दत्तवती यत् 'सिद्धकवीर्भव' इति । 6
कालनिर्धारणम्
अमरचन्द्रसूरेः कालनिर्धारणे सर्वप्रथमं तस्य समकालीनसामन्तराजा विसलदेवस्य वीरधवलस्य महामात्यवस्तुपालस्य च कालस्य विचारः आवश्यकः यतोऽहि कविः अमरचन्द्रसूरिः राज्ञः विसलदेवस्य सभाकविः आसीत् तथा च विसलदेवस्य समयः १३०० तः १३२० पर्यन्तं निर्धारितः अस्ति । १३ शतके महामात्यवस्तुपालः संस्कृत-साहित्ये अपारं साहित्यम् अरचयत् । सः गुजरातराजस्य विरधवलस्य तस्य पुत्रस्य विसलदेवस्य च महामात्यः आसीत् । समकालीनसाहित्ये तस्य वीरतायाः, उदारतायाः तथा अन्यानां सार्वजनिकोपयोगिनां कार्याणां प्रशंसाः कृताः सन्ति । तेन प्रायः १८ कोटिरूप्यकैः धोलका-खम्भात-पाटण-इत्येषु स्थानेषुच सरस्वती सदनानि स्थापितानि आसन् । वस्तुपालस्य विद्वत्मण्डलम् आसीत् यस्मिन् पुरोहितः सोनेश्वरः, हरिहरः, नानकः, मदनः, सुभटः, मन्त्रियशवीरः, अरिसिंहः च समाविष्टाः आसन् ।7 वस्तुपालस्य समीपवर्तेषु कविषु अमरचन्द्रसूरिः विजयसेनसूरिः, उदयप्रभसुरिः, नयचन्द्रसूरिः, बालचन्द्रसुरिः, जयसिंहसूरिः, मणिचन्द्रसूरिः च प्रमुखाः आसन् । वस्तुपालस्य उपनाम वसन्तपालः अपि आसीत्, एतत् नाम तस्मै हरिहर- सोमेश्वरादीनां द्वारा प्रदत्तमासीत् ।
ख्यातं प्राप वसन्तपालइतियों नामाद्वितीयमुदा ।
विद्वर्भ्दिः परिकल्पितं हरिहरश्रीसोमशर्मादिभिः ।।8
विर्धवलस्य शासनकाले मुगलाः गुजरातराज्ये आक्रमणं कृतवन्तः । चालुक्यानां विघटनानन्तरं १२४५ तः १३०४ पर्यन्तं गुजरातदेशे एतेषां शासनमासीत् ।9 मेरुतुङ्गाचार्येन 'प्रबन्धचिन्तमणि' इत्यत्र अपि एतत् सूचितम् ।10 ११ शताब्द्याः अन्तरम् एतेषां उदारशासकानाम् आश्रये संस्कृतसाहित्यस्य महती वृद्धिः अभवत्, एतासु काश्चन रचनाः यथा ---11,
कविः | काव्यम् | समयः |
वस्तुपालः | नरनारायणानन्दः | 1220 ई० |
अरिसिंहः | सुकृत्सङ्कीर्तनम् | 1221 ई० |
अमरचन्द्रः | बालभारतम्, पद्मानन्दः | 1260 ई० |
उदयप्रभसूरिः | धर्माभ्युदयः | 1240 ई0 |
बालचन्द्रसूरिः | वसन्तविलासः | 13 श०उ० |
अतः विरधवल-लवणसिंह-विसलदेव-वस्तुपालेन रचितस्य संस्कृत-साहित्यस्य आधारेण ऐतिहासिकविवरणेन च ज्ञायते यत् अमरचन्द्रसूरेः कालः १२५० ई. तः १३४७ ई. पर्यन्तम् आसीत्, यतोऽहि राज्ञः विसलदेवस्य समयः १२९४ ई. तः आरब्धः भवति । अमरचन्द्रसूरिः विसलदेवस्य सभाकविः आसीत्, 'पद्मानन्द-महाकाव्ये' अमरचन्द्रसूरिः स्वयमेव विसलदेवस्य उल्लेखं कृतवान् अस्ति।12 अस्मिन्काले एव 'बालभारतम्' इत्यस्य रचना अपि जाता स्यात् , एतस्य प्रमाणम् इमाः पङ्कतयः सन्ति ।
'वीसलभूपाल राज्य समयस्तु स्वस्ति श्रीमद्विक्रमकालातीत सहादशाधि कत्रयोदशशतिक संवत्सरे लौकिक ज्येष्ठतासस्य कृष्णपक्षचतुर्थ्या तिथौ गुरावद्यैह श्रीमद्णहिज्लपाटके समस्त राजावलीविराजित परमेश्वर परम / 'भट्टारकउमापतिवरलब्ध- प्रसादप्रौढ़ प्रताप चौलुक्य कुलकमलिनीकलिका विकासमार्तण्ड'- ।13
अमरचन्द्र सूरिः जिनदत्तसुरेः शिष्यः आसीत् । जिनदत्तसुरिः १२७७ तमे वर्षे 'विवेकविलास' इति स्वलिखिते महाकाव्ये अमरचन्द्रसुरेः उल्लेखं कृतवान् ।14 एतेषां प्रमाणानुसारम् अमरचन्द्रसुरिः 'बालभारतम्' १२७७ तः १२९४ ई. यावत् रचितवान् स्यात् तथा च 'पद्मानन्द'महाकाव्यस्य रचना १२९४ तः १२९७ ई. यावत् रचना जाता स्यात् । अतः तस्य कालः १३ शतकं निश्चितं कर्तुं शक्नुमः ।
कृतयः
पण्डित-राजशेखरः 'प्रबन्धकोशे' अमरचन्द्रसूरेः 6 रचनानां उल्लेखं कृतवान् ताः यथा - 1) काव्यकल्पलता 2) छन्दोरत्नावली 3) सूक्तावली 4) काव्यकलापः 5) बालभारतम् 6) पद्मानन्दमहाकाव्यम् । डॉ. गुलाबचन्द्रचौधरी अन्यानां रचनानामपि सङ्केतं कृतवान् ताश्च 1) काव्यकल्पलतावृत्तिः 2) चतुर्विंशतिजिनेन्द्र-सङ्क्षिप्त-चरितानि 3) स्यादीशब्दसमुच्चयः 4) काव्यकल्पलतापरिमलः 5) काव्यकल्पलतामञ्जरी 6) अलङ्कारप्रबोधश्च । एतासां अतिरिक्तं कवेः नाम 'द्रौपदीस्वयंवर' इत्यनेन काव्येन सह अपि सम्बद्धम् अस्ति । एतासु काचन प्रकाशिताः, काचन अप्रकाशिताः, काचन अनुपलब्धाः च सन्ति ।
1. काव्यकल्पलता -
अरिसिंह-अमरचन्द्रयोः सम्मिलिता रचना काव्यकल्पलताऽस्ति कविशिक्षाविषयकोऽयमपूर्वो ग्रन्थः । काव्यकल्पलतायां चत्वारः प्रतानाः ते च क्रमेण छन्दसिद्धः शब्दसिद्धः श्लेषसिद्धः अर्थसिद्धः इति चत्वारः प्रतानाः सन्ति । प्रथमे छन्दः सिद्धिः द्वितीयेशब्दसिद्धिः तृतीये श्लेषसिद्धिः, यत्र श्लेषस्य प्रपञ्चः, चतुर्थे चार्थसिद्धिः च वर्णिता अस्ति । सम्पूर्णे ग्रन्थे ७९८ सूत्राणि सन्ति । एतत् संस्कृतलक्षणग्रन्थेषु अस्य विषयस्य अद्वितीयः ग्रन्थः अस्ति ।15
2. छन्दोरत्नावली -
अस्मिन् ग्रन्थे कविना छन्दांसि विस्तरेण निरूपिताः । पुस्तकेऽस्मिन् ९ अध्यायाः ७५० श्लोकाः सन्ति ।16 छन्दसां उदाहरणरूपेण संस्कृत-प्राकृतश्लोकाः च उद्धृताः सन्ति । प्रथमद्वितीययोः अध्याययोः भरतस्य जयदेवस्य पिङ्गलस्य स्वयम्भुस्य च नामानि उल्लिखितानि सन्ति । एतत् छन्दज्ञानाय उत्तमम् पुस्तकम् अस्ति । अमरचन्द्रेण एव एतत् स्वस्य काव्यकल्पलतावृद्धिनामके ग्रन्थे सङ्केत कृतः
अन्यत् आर्याछन्दो मत्कृतच्छन्दोरत्नावर्ल्या ज्ञेयमिति।17
3. सूक्तावली -
ग्रन्थोऽयम् अप्राप्यः अस्ति, एतस्य अपरं नाम मुक्तावली अपि अस्ति ।
4. कलाकलाप -
राजशेखरः 'प्रबन्धकोशे एतत् शास्त्रमिति उक्तवान् "कलाकलापारव्यम्' च शास्त्रं निबद्धम् ।18 अयमपि अनुपलब्धः अस्ति ।
5. बालभारतम् -
प्रस्तुतं महाकाव्यं महाकवेः अमरचन्द्रसूरेः उत्कृष्टप्रतिभायाः प्रतिबिम्बम् अस्ति । महाभारत इव अस्य १८ पर्वाणि सन्ति, प्रत्येकं पर्वं एकेन वा अधिकेषु सर्गेषु विभक्तम् अस्ति । सम्पूर्णे महाकाव्ये ४४ सर्गाः सन्ति ।
6. पद्मानन्दमहाकाव्यम् -
एतत् महाकाव्यं आदि-तीर्थङ्करस्य ऋषभदेवस्य चरित्रेण सम्बद्धम् अस्ति । पद्ममन्त्रिप्रार्थनया अस्य रचना अभवत्, अतः अस्य नाम पद्मानन्दमहाकाव्यम् इति । अस्य काव्यस्य अन्यत् नाम जिनेन्द्रचरित्रापि अस्ति । अलङ्कृतशैल्याः एतत् महाकाव्यं उत्कृष्टम् अस्ति । कविः भगवतः ऋषभदेवस्य जीवनवृत्तान्तं १९ सर्गेषु लिखितवान् अस्ति । महाकाव्यस्य श्लोकानां सङ्ख्या ६३८१ अस्ति । 'त्रिषष्टिशलाकापुरुषचरित्रम्' एतस्य आधारग्रन्थः अस्ति ।19
7. चतुर्विंशति-जिनेन्द्र-सङ्क्षिप्तचरितानि -
काव्यस्य नाम्ना एव सूचितं प्रस्तुतरचनायां २४ अध्यायाः १८०२ श्लोकाः च सन्ति । अस्मिन् जैनधर्मस्य २४ तीर्थंकराणां जीवनचरितस्य सङ्क्षेपेण वर्णनं कृतम् अस्ति । अस्मिन् कविकाव्यस्य विशेषदृष्टिः नास्ति ।20
8. स्यादिशब्दसमुच्चय -
प्रस्तुतं पुस्तकं प्रौढव्याकरणज्ञानस्य परिचायकः अस्ति, यस्य क्रमशः निम्नलिखित-चत्वारः उल्लासाः सन्ति – स्वरान्तशब्दोल्लासः व्यञ्जनान्तशब्दोल्लासः सर्वनाम मणोल्लासः सङ्ख्याशब्दोल्लासश्च । सम्पूर्णे पुस्तके ५८ कारिकाः सन्ति । पुस्तकस्य आरम्भे कविना लिखितम् अस्ति यत् -
'श्री सारदां हृदि घ्यात्व स्यादिशब्दासमुच्चयम्।'21
अस्मिन् विषये लेखकेन एव वृत्तिः लिखिता अस्ति, वृतेः नाम अवचूर्णी इति आसीत् ।
9. काव्यकल्पलतापरिमल -
'काव्यकल्पलतापरिमल' अमरचन्द्रस्य काव्यशास्त्रीयग्रन्थः अस्ति । यद्यपि अयं छन्दसः ग्रन्थः अद्य अनुपलब्धः अस्ति तथापि कविना स्व-'काव्यकल्पलतावृत्ति-ग्रन्थे यथा एतस्य ग्रन्थस्य उल्लेखः कृत तेन उहां कर्तुं शक्यते यत् एषः ग्रन्थः 'साहित्यदर्पण-काव्यप्रकाश' इत्यादिभिः सदृशं व्याख्यानार्थं उत्तमः काव्यशास्त्रीयः ग्रन्थः आसीदिति ।22
10. काव्यकल्पलतामञ्जरी :-
कविः काव्यतत्त्वानां आधारेण एतत् ग्रन्थं रचितवान् स्यात् । एतस्य उल्लेखः अमरचन्द्रेण 'काव्यलतपरिमल' इत्यस्मिन् ग्रन्थे कृतः अस्ति । एतत् पुस्तकमपि अनुपलब्धमस्ति ।23
11. अलङ्कार - प्रबोध :-
"अलङ्कार प्रबोध" अलङ्कारस्य एव पुस्तकं स्यात् । कविना काव्यकल्पतावृत्त्याम् एतत् सङ्केतिकं यत् -'शेषानलंकारान् मत्कृतात् अलङ्कार प्रबोधादवचुध्याऽभ्यसेत24 अयं ग्रन्थः अद्य न लभ्यते।
12. द्रौपदीस्वयंवर :-
‘द्रौपदी स्वयंवर’ इत्यस्य ग्रन्थस्य विषये कविः साहित्यशास्त्रस्य कस्मिन् विभागे अर्थात् महाकाव्ये गद्ये वा रचितवान् इति वक्तुं न शक्यते । अस्य वर्णनं महाभारतात् एव गृहीतं भवितुमर्हतीति पुस्तकस्य नाम्ना स्पष्टतया ज्ञायते । अस्य ग्रन्थस्य उल्लेखः पण्डित- वामनशास्त्रिणा महाराष्ट्रभाषायां 'काव्यकल्पलता' इति ग्रन्थे टीकालेखने स्वभूमिकायां कृतम् अस्ति ।25
अमरचन्द्रसूरस्य उपर्युक्तग्रन्थानां विमर्शात् स्पष्टतया ज्ञायते यत् अमरचन्द्रः न केवलं प्रतिभाशाली कविः अपितु प्रबुद्धः कविः, पद्यकारः च आसीत् । यदि तेन रचिताः सर्वाः काव्यग्रन्थाः अद्यत्वे उपलभ्यन्ते स्म तर्हि अवश्यमेव संस्कृत-साहित्यस्य जगतः विकासे अपारं योगदानम् अभविष्यत् ।
।। इति शम् ।।
सन्दर्भसूची
1. प्रबन्धकोश- अमरचन्द्रकवि-प्रबन्धः
2. जैनसंस्कृत का बृहद् इतिहास भाग-6 (डॉ. गुलाबचन्द्र चौधरी)
3. बालभारतम्, कवि प्रशस्ति, 1 / 5-7
4. बालभारतम्, कविप्रशस्ति 1/2
5. बालभारतम् -1/3,5
6. प्रबन्धकोश-वस्तुपाल-प्रबन्धः
7. महामात्य वस्तुपाल का साहित्य मण्डल
8. नरनारायणानन्द-महाकाव्यम् - 16/38
9. चालुक्याज ऑफ गुजरात, अध्याय-10
10. प्रबन्धचिन्तामणि- कुमारपालप्रबन्ध
11. संस्कृत साहित्य का समीक्षात्मक इतिहास,
12. पद्मानन्द महाकाव्य 19/45-50
13. बालभारतम्, भूमिका
14. जैन साहित्य का संक्षिप्त इतिहास (मोहन लाल दुलीचन्द्र देसाई)
15. काव्यकल्पलतावृत्तिः, प्रारम्भिक-वृत्यात्मक-श्लोक
16. संस्कृत साहित्य के विकास में जैन कवियों का योगदान (डॉ. नेमिचन्द्रजैन)
17. काव्यकल्पलतावृत्ति 1/2
18. प्रबन्धकोश, अमरचन्द्रकवि-प्रबन्धः
19. जैनसाहित्य का बृहइतिहास भाग -6 (डॉ. गुलाबचन्द्र चौधरी)
20. जैन साहित्य का बृहद् इतिहास, भाग 6
21. स्यादिशब्दसमुच्चयः 1/1
22. काव्यकल्पलतावृत्तिः 1/5
23. संस्कृत काव्यशास्त्र का इतिहास (पी०वी० काणे)
24. काव्यकल्पलतावृत्ति-4
25. काव्यकल्पलतावृत्ति, भूमिका (जगन्नाथ शास्त्री)
सहायकग्रन्थाः
क्रमः | ग्रन्थस्य नाम | ग्रन्थकारः | प्रकाशनम् | वर्षम् |
01 | प्रबन्धकोशः | श्रीराजशेखरसूरिः | सिंधी जैन ज्ञानपीठ, शान्तिनिकेतन | ई.1935 |
02 | जैनसंस्कृत का बृहद् इतिहास | डॉ. गुलाबचन्द्र-चौधरी | वाराणसी | ई.1973 |
03 | बालभारत-महाकाव्यम् | श्रीअमरचन्द्रसूरिः
अनु. पुष्पासिंह |
कला प्रकाशन | ई. 2006 |
04 | महामात्य वस्तुपाल का साहित्य मण्डल | डॉ. भोगीलाल साडेसरा | श्रीशंकर मुद्रणालय | ई.1959 |
05 | नरनारायणानन्द-महाकाव्यम् | वस्तुपाल | गायकवाड ओरीयन्टल सीरीज, बरोडा | ई.1916 |
06 | चालुक्याज ऑफ गुजरात | ए०के० मजूमदार | बम्बई प्रिन्टर्स | ई.1956 |
07 | संस्कृत साहित्य का समीक्षात्मक इतिहास | डॉ. कपिलदेव द्विवेदी | अनिल प्रिन्टर्स | ई.1999 |
08 | श्रीपद्मानन्दमहाकाव्यम् | श्रीअमरचन्द्रसूरिः | वीरशासनम्, सुरत | ई.2016 |
09 | जैन साहित्य का संक्षिप्त इतिहास- | मोहन लाल देसाई | बम्बई प्रिन्टर्स | ई.1933 |
10 | काव्यकल्पलतावृत्ति | जगन्नाथ शास्त्री | वाराणसी | ई.1931 |
11 | संस्कृत साहित्य के विकास में जैन कवियों का योगदान | डॉ. नेमिचन्द्रजैन | भारतीय ज्ञानपीठ | ई.1971 |
12 | स्यादिशब्दसमुच्चयः | श्रीअमरचन्द्रसूरिः | वीर सेवा मन्दिर,दिल्ली | ई.1932 |
13 | संस्कृत काव्यशास्त्र का इतिहास | पी.बी. काणे | वीर सेवा मन्दिर,दिल्ली | ई.1966 |