अमरमङ्गमलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अमरमङ्गमलम्  
RajaRaviVarma MaharanaPratap.jpg
'राजा' रविवर्मणा निर्मितं प्रतापचित्रम्
लेखकः पञ्चाननतर्करत्नः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

अमरमङ्गमलम् इति राणाप्रतापस्य जीवनी अस्ति। अस्य नाटकस्य निम्नश्लोकः प्रसिद्धिङ्गतः -

सन्तु स्वधर्मनिरता मनुजा समस्ताः

प्रीतिं सजातिषु भजन्तु विहाय मायाः ।

सम्पूजयन्तु जननीमिव जन्मभूमिं

भूपालभक्तिनिरताश्च चिरं भवन्तु।।

विषयवस्तु[सम्पादयतु]

प्रथमाङ्के राणाप्रतापपुत्रः चितौड-दर्शनार्थं भगवत्याश्च अर्चनार्थमुत्सुकोऽस्ति । यथा -

आजीवनं भवदुपासनमेव धर्मस्त्वद्गौरवाय मरणं च सुखं यदीयम्।

तेषां त्वदभ्युदय-दर्शन-वञ्चितानां मातर्दयस्व तनुजेषु भव प्रसन्ना।।

द्वितीयाङ्कस्य पूर्वं विष्कम्भके मानसिंहेन गुप्तचरद्वय-साहाय्येन अमरसिंहस्य पतनार्थं योजनैका निर्मिता । तस्य समरसिंहनामा गुप्तचरोऽमरसिंहेन सह निवसति स्म | मानसिंहेन स्वयंवरप्रार्थिनी काचित् क्षत्रियकुमारी तन्निकटं प्रेषिता । सोऽमरसिंहस्य विनाशं कामयाञ्चक्रे ।

द्वितीयाङ्के देव्यामरसिंहः प्रार्थितो वीराया पाणिग्रहणाय | अमरेण प्रतिज्ञातमासीद् यत्, चित्तौडविजयमन्तरा नाहं काञ्चित् कामिनीं कामयिष्ये । वीराब्रवीद् यदमरसिंहेन मे विवाहो भवेन्न वा किन्तु स चित्तौडाक्रमणसंशये मा पतेत् । अहं तस्य दर्शनमात्रेण जीविष्यामि । चित्तौडाक्रमणस्य योजनां दृढीकर्तुं विचारविमर्शार्थं सामन्तानां सभा मिलिता । राणाप्रतापः संस्मृतः सर्वैः । तत्र सामन्तानां पारस्परिकविरोधिविचारैर्योजना न सम्यक् परिणता ।

तृतीयाङ्कस्य पूर्वं विष्कम्भकानुसारम् अमरसिंहो नवनिर्मिते प्रासादे निवासं चक्रे । तत्र स विलासपरायणः सञ्जातः । राजगुरुणा राणाप्रताप-मानसिंहयोः प्रकरणविषयकान् अधिक्षेपान् कण्ठाग्रीकारयित्वा शुकावलिरेका मानसिंहस्यावासं प्रति प्रेषिता । अप्रियां शुकवाणीं समाकर्ण्य मानसिंहः क्रोधान्धोऽभवत् । तेनैकः शुकोऽपि क्रोधावेगेन हतः।

एकस्मिन् दिवसे एकतिङ्गनाथस्य पुरोहितस्तत्राजगाम । तेन मानसिंहसमर्पिता पूजा-सामग्री न स्वीकृता । एतद् अपमाननम् असहमानो मानसिंहः प्रतिज्ञातवान् यद् अमरसिंहस्य विनाशं कृत्वैवाहं विश्रामं लप्स्ये।

चतुर्थाङ्कानुसारम् अमरसिंहेन मुगलसेनायाः प्रतिरोधार्थं भिल्लानां महती सेना निर्मिता । शालुम्ब्रापति-भणसिंह-बान्दा-ठक्कुरप्रभृतयः सामन्तास्तस्य विलासनिकेतनमागत्य तं युद्धार्थं प्रेरयामासुः । अमरसिंहेन सकपटं तेषामुपेक्षा कृता । ततोऽनादृतेन शालुम्ब्रापतिन अधिक्षिप्तोऽसौ -

क्व ते यातं तेजः क्व पुनर्गमत्ते भुजबलं

क्व वा देशप्रेमा क्व च यवन-विद्वेष-गरिमा।

पितुः कार्ये भक्तिः क्व च तव गता सा नरपते

चितोरोद्धारार्थं ननु यदवलम्बोऽजनिभवान् ॥

युद्धं प्रारब्धम् । यवन-प्रेरितानां भीषणाग्नेयास्त्राणां भयेन क्षत्रियसेना रणपराङ्मुखीव बभूव । उदयपुरं लक्ष्यीकृत्य यावनी सेना प्रतिपदमऽग्रेऽभवत् । पलायमानां सेनां विलोक्य अमरसिंहस्य पत्न्या तारस्वरेण निगदितम् -

शृणुत शृणुत पुत्रा मातरं मामवेक्ष्य

त्यजत समरभीतिं यात वैरिक्षयाय।

सकलविजययात्रा मण्डिताः पुण्यकीर्त्या

वरमुचितमभीष्टं प्राप्स्यथ प्रीतिपूर्णाः॥

एतच्छ्रुत्वा द्विगुणितोत्साहै वीरैः प्रतिज्ञातम् - विजयतां जननि ! एते वयं वैरिक्षयाय प्रस्थिता एव, मेवाडस्य विजयोऽभूत् । महाराज्ञी नगरगमनार्थं समुद्यतासीत् । अमरसिंहेन सो वीराङ्गना प्रशंसिता -

त्वं राजनीतिनिगमे मम शिक्षयित्री

शिष्यासि मे रणकलासु कृतश्रमा त्वम्।

सर्वापदि स्थिरमतिः सचिवोऽसि मे त्वं

त्वं गेहिनी सदृशदुःखसुखा सखी च ।।

षष्ठाङ्कानुसारं वीरा क्वचिदन्यत्र जगाम । तया वृद्धया तापस्याः वेषं परिधाय दुर्गापाठार्थं बहवो ब्राह्मणाः समाहूताः । ते सर्वेऽपि विप्रवेषधारिणो पुस्तक-वेष्टन-निहित-शस्त्रा वीरसैनिका आसन् ।

सप्तमाङ्के चित्तौडस्य विजयार्थं प्रयाणवेलायां सेनापति-पद-प्राप्त्यर्थं भणसिंह-वान्दाठक्कुरयोः वाग्युद्धं विलक्षणमेवास्ति । पुरोहितस्य प्रयासेन तावुभावपि शान्तौ बभूवतुः।

अष्टमाङ्के चित्तौड-विजयो वर्णितः । सागरसिंहस्तत्र देवीपूजार्थमागच्छति, कालभैरव-सन्देश-शङ्कितः सागरसिंहः स्वकीयम् आमात्यमब्रवीत् -

एवं मूढधियो गतो बहुतिथः कालोऽल्पभाग्यस्य मे ।

यस्मिन् नो गणितं कुलं न महिमा धर्मो न शौर्यं न च ।।

सागरो लज्जित आसीत् । तस्य मानसिकग्लानिरित्थं वर्तते -

वर्तन्ते बहवः सुमन्दमतयो ये पापवृत्तिं श्रिताः

सर्वेषामहमेव निन्दिततमो लज्जाघृणावर्जितः।

दास्योर्दास्यमुपागतेन हि मया तस्यैव वृद्ध्यै प्रभो-

रम्बायाः परिधानमम्बरमहो हर्तुं समाकृष्यते।।

सागरेण राज्यममरसिंहाय समर्पितम् । अमरसिंहस्य राज्याभिषेकः संवृत्तः ।

विशेषम्[सम्पादयतु]

नाटकस्य प्रस्तावनानुसारं रामचन्द्रस्य द्वितीयपुत्रो लवो राजस्थानस्य प्राचीनतमो राजा समभूत् । बावरात् संग्रामसिंहः पराजितोऽभूत् । उदयसिंहः संग्रामसिंहस्य पुत्र आसीत् । उदयसिंहस्य पुत्रो राणाप्रतापः प्रसिद्ध एवास्ति । तेन चित्तौडस्योद्धारार्थं व्रतं गृहीतम् । प्रतापस्य पुत्रेणामरसिंहेन पर्णशालायाः स्थाने सौधावलिर्निर्मिता । अकबरस्य मृत्योरनन्तरं जहाँगीरेण मेवाड-विजयार्थं महती सेना प्रेषिता ।।

जहाँगीरेण चित्तौडप्रदेशे सागरस्य स्वयमेवाभिषेको विहितः। चण्डस्य पितुः कयाचिद् राजकन्यया विवाहोऽजनि । सा मुकुलनामधेयं तनयमसूत । स एव राज्यस्य उत्तराधिकारिपदम् अलञ्चकार । प्रतापस्य कनिष्ठभ्राता शक्तसिंह इति श्रूयते । स दिल्लीश्वरस्य शरणमागतवान् । स पुनः प्रतापस्य पराक्रमेण तस्य चरणौ स्पृष्ट्वा क्षमां ययाचे । अस्यैव शक्तसिंहस्य ज्येष्ठपुत्रो भणसिंह आसीत् ।

कापटिकपात्रस्य समरसिंहस्य कार्यं छायातत्त्वानुसारि वर्तते । सोऽमरसिंहस्य विनाशार्थं कूटनीतिं प्रपञ्चयति । कविस्तस्य विषये ब्रवीति -

कपटो हृदये कपटो वचने कपटो नयने कपटो वपुषि।

कपटस्त्वचि चेति समृद्धगुणः परवञ्चनवर्त्मनि दक्षतरः ।।[१]

वेश्यायाः मायारोदनं श्रुत्वा समरसिंहो निगदति -

'अहो निपुणता वाराङ्गनायाः, यया तावद् असम्भिन्नस्वरवर्णवचनया तथा अयमार्तध्वनिरुत्थापितो यथा जानतोऽपि मे सहसाभूतार्थपरिशङ्किनी बुद्धिः समुत्पन्ना ।'

द्वितीयाङ्कस्यारम्भे जरत्याः स्वगतद्वारार्थोपक्षेपणं निर्दिष्टम्

१. सा विषप्रयोगेणोपायान्तरेण वा सस्त्रीकममरसिंहं मारयितुकामा।

२. समग्रं राजकुलं भस्मसात् कर्तुमभिलषति।

चतुर्थाङ्के समरसिंहस्य स्वगते अर्थोपक्षेपणमस्ति यद्, दिल्लीश्वरस्य महती सेना निकटमागता । तदाप्यमरसिंहो निरुद्यमो वर्तते । द्वितीयाङ्कस्य मध्ये वीरा कथयति यदधुना नाहं राजकुमारस्य भक्षिका प्रत्युत रक्षिकास्मि –

'यत् कृतं तत् कृतं पुनरकार्यं न करिष्यामि। कपटेनार्यपुत्रं न पातयिष्यामि ।'

द्वितीयाङ्कस्य रङ्गमञ्चे गीतस्यायोजनं लोकरञ्जकं संविधानमस्ति । सुबला गायति -

देव ! सुधाकर ! किर करं, दिनकर दुर्जयतिमिरहरम्।

तत्र सुखोदयलालसहृदयं सेवतां विमलममृतम्॥

अङ्कभागे नायकेन सर्वत्र भाव्यम् । द्वितीयाङ्कस्य प्रारम्भिकभागे नत्वेवं दृश्यते । सप्तमाङ्केऽपि चैवं विधा स्थितिरेवास्ति । अङ्केषु कार्यहीनः संवादः प्रचुरः । क्वचिदाङ्गिकाभिनयस्य समावेशोऽपि लक्ष्यते । यथा - "इति खड्गमादत्ते ( समरसिंहः )"

यदा सेनापतिः पुरोहितं ग्रहीतुं गच्छन्ति, तदासौ पुरोधा दण्डेन ताडयति । अमरसिंहस्य विलासवेशेऽपि खड्गोधूननं लोकोत्तेजकं संविधानम् ।

पञ्चाननस्य लोकोक्तयो यथास्थानं सन्निवेशिताः सुमण्डिताश्च सन्ति । यथा -

१. को नाम स्वतन्त्रः स्वयमुपनतं पीयूषं नाभिनन्दति।

२. सागरमुत्तीर्य बेलायां मग्नप्रायोऽस्मि।

३. उदरं मे गुडगुडयति।

४. प्रमादे हि प्रभवो रक्षणीया मन्त्रिभिः।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. १. ५६
"https://sa.wikipedia.org/w/index.php?title=अमरमङ्गमलम्&oldid=434701" इत्यस्माद् पुनः प्राप्तिः