अमिताभ चौधरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अमिताभ् चौदरी इत्यस्मात् पुनर्निर्दिष्टम्)
अमिताभ् चौधरि

अमिताभ् चौधुरी(Amitabh Chaudhuri) भारतस्य अत्युत्तमेषु विशिष्टेषु च पत्रिकासम्पादकेषु अन्यतमः । १९६१तमे वर्षे तस्य ३४तमे वयसि सः रमोन् मैग्सेसे-पुरस्कारं प्राप्तवान् ।

जननंबाल्यञ्च[सम्पादयतु]

अमिताभः पश्चिमबङ्गराज्यस्य सिसिरचौधुरीवर्यस्य एकमात्रपुत्रः । १९२७तमे वर्षे नवेम्बर् ११दिनाङ्के अमिताभवर्यः अजायत । माता प्रीतिराणी । अमिताभः यदा चतुर्मासीयः असीत् तदा एतस्य पिता दिवंगतः । अनन्तरम् अमिताभस्य पालनं विद्याभ्यासः सर्वमपि मातुः एव दायित्वमभवत् ।प्राथमिकशिक्षणोत्तरं नेत्रोकोणनगरस्य चन्द्रनाथविद्यालये १९४४तमे वर्षे दशमकक्षां समापितवान् । ए एम् विद्यालये सन्तक्सेवियर् महाविद्यालये अशुतोषमहाविद्यालये च अध्ययनानन्तरम् अमिताभवर्यः १९४८तमे संवत्सरे आङ्ग्लभाषायां अर्थशास्त्रे गणितशास्त्रे च स्नातकपदवीं प्राप्तवान् । १९५९तमे वर्षे 'नीपा' नामिकां चित्रकारां परिणीतवान् ।

वृत्तिजीवनम्[सम्पादयतु]

स्नातकाध्ययनानन्तरम् अमिताभवर्यः बाङ्ग्लभाषायाः 'जुगान्तर्' नामके पत्रिकालयेपत्रकर्तरूपेण कार्यमारब्धवान् । तदा 'जुगान्तर' पत्रिकायाः ७२००० वाचकत्वमासीत् । प्रसिद्धायाः 'अमृतबज़ार्' नामिका आङ्ग्लपत्रिकायाः सहोदरपत्रिका असीत् । १९५२ तमे वर्षे कल्कत्ताविश्वविद्यालयतः आधुनिकभारतीयभाषासु स्नतकोत्तऱपदवीं प्राप्तवान् । अखण्डभारतस्य विभजनावसरे वस्तुनिष्ठविषयप्रचारः पत्रिकोद्यमस्य अति मुख्य दायित्वमासीत् । एतदवगम्य अमिताभवर्यः बाङ्ग्लपत्रिकायां विनूतनां शैल्यां चिन्तनप्रचोदनकारी लेखान् रचितवान् ।

"https://sa.wikipedia.org/w/index.php?title=अमिताभ_चौधरी&oldid=429628" इत्यस्माद् प्रतिप्राप्तम्