रमोन् मैग्सेसे-पुरस्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Ramon Magsaysay Award
विवरणम् Outstanding contributions in Government Service, Public Service, Community Leadership, Journalism, Literature and Creative Communication Arts, Peace and International Understanding and Emergent Leadership
देशः Philippines
पुरस्कर्ता Ramon Magsaysay Award Foundation
पुरस्कारस्य आरम्भः 1958
जालपुटम् http://www.rmaf.org.ph

रमोन् मैग्सेसे-पुरस्कारः (Ramon Magsaysay Award) फिलिपीन्सदेशस्य भूतपूर्वराष्ट्रपतिः-रमोन् मेग्सेसेवर्यस्य स्मरणे दीयमानः प्रमुखः पुरस्कारः । उत्तमशासकः, प्रजानुरागी रमोन्-वर्यः जनसामान्यानाम् आराध्यमूर्तिरित्येव प्रसिद्धः आसीत् । तदर्थं फिलिपीन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तिं ददाति । एषः पुरस्कारः १९५७तमे वर्षे 'रोकेफ़ल्लर् ब्रदर्स्' इति संस्थायाः द्वारा स्थापितम् । सार्वजनिक-सर्वकार-समुदायनायकत्वसेवासु-साहित्य- कला- पत्रिकोद्यमक्षेत्रेषु निरताः अत्युत्तमजनाः एतां मेग्सेसेप्रशस्तिं प्राप्नुवन्ति । मेग्सेसेप्रशस्तिः एशियाखण्डस्य 'नोबेल्' इत्यपि उच्यते ।

रमोन् मैग्सेसे-पुरस्कारः एशियाखण्डस्य षट्सु विभिन्नेषु क्षेत्रेषु कार्यः कुर्वाणेभ्यः उत्तमसाधकेभ्यः दीयते । किन्तु २००९ वर्षादारभ्य पञ्चक्षेत्राणां पुरस्कारः स्थगितः वर्तते ।

  1. सर्वकारीयसेवा (१९५८ - २००८)
  2. सामजिकसेवा (१९५८ - २००८)
  3. समुदायनायकत्वम् (१९५८ - २००८)
  4. पत्रिकोद्यमः,साहित्यम्, कला (१९५८ - २००८)
  5. अन्ताराष्ट्रिय शान्तिपालनम् (१९५८ - २००८)
  6. उदयोन्मुखनायकत्वम्(२००१ )

पुरस्कारभाजाः[सम्पादयतु]

१९५८तमे संवत्सरतः एतावता रमोन् मैग्सेसे-पुरस्कारभाजानां भारतीयानाम् आवलिः अत्र विद्यते ।

  • सर्वकारीयसेवा - GS
  • सामजिकसेवा - PS
  • समुदायनायकत्वम् - CL
  • पत्रिकोद्यमः,साहित्यम्, कला - JLCCA
  • अन्ताराष्ट्रिय शान्तिपालनम् - PIU
  • उदयोन्मुखनायकत्वम् - EL
वर्षम् प्रशस्तिभाक् मूलस्थानम् वर्गः
१९५९ चिन्तामण् द्वारकानाथ देशमुख्  भारतम् GS
१९९४ किरण् बेडि  भारतम् GS
१९९६ टि एन् शेशन्  भारतम् GS
२००३ जेम्स् मैखेल् लिङ्डोह्  भारतम् GS
१९६५ जयप्रकाश् नारायण्  भारतम् PS
१९७४ एम्. एस्. सुब्बुलक्ष्मीः  भारतम् PS
१९८२ मणिभाई देसाई  भारतम् PS
१९८५ बाबा आम्टे  भारतम् PS
१९८९ लक्ष्मिचान्द् जैन्  भारतम् PS
१९९३ बनूजहाङ्गीर् कोया  भारतम् PS
१९९७ महेशचन्द्र मेहता  भारतम् PS
२००५ वि शान्ता  भारतम् PS
१९५८ विनोबा भावे  भारतम् CL
१९६३ वर्गिस् कुरियन्  भारतम् CL
१९६३ दारा खुरोडि  भारतम् CL
१९६३ त्रिभुवनदास् पटेल्  भारतम् CL
१९६६ कमलादेवी चट्टोपाध्याय  भारतम् CL
१९७१ एम् एस् स्वामिनाथन्  भारतम् CL
१९७७ इळा रमेशभट्  भारतम् CL
१९७९ माबिल्ले आरोळ्  भारतम् CL
१९७९ रजनीकान्त् आरोळ्  भारतम् CL
१९८१ प्रमोद् करणसेथि  भारतम् CL
१९८२ चण्डीप्रसाद् भट्  भारतम् CL
१९९६ पाण्डुरङ्गशास्त्रि अथावळे  भारतम् CL
२००० अऱुणा राय्  भारतम् CL
२००१ राजेन्द्र सिङ्ग्  भारतम् CL
२००३ शान्ता सिन्हा  भारतम् CL
२००८ प्रकाश् आम्टे  भारतम् CL
२००८ मन्दाकिनी आम्टे  भारतम् CL
१९६१ अमिताभ् चौदरी  भारतम् JLCCA
१९६७ सत्यजित राय्  भारतम् JLCCA
१९७५ बूब्लि जीयार्ज् वर्गीस्  भारतम् JLCCA
१९७६ शम्भु मित्र  भारतम् JLCCA
१९८१ गौर् किशोर् घोष्  भारतम् JLCCA
१९८२ अरुण् शौरि  भारतम् JLCCA
१९८४ आर् के लक्ष्मण्  भारतम् JLCCA
१९९१ के वि सुब्बण्णा  भारतम् JLCCA
१९९२ रविशङ्कर्  भारतम् JLCCA
१९९७ महाश्वेता देवी  भारतम् JLCCA
२००७ पलगुम्मि साईनाथ्  भारतम् JLCCA
१९६२ मदर् तेरेसा  भारतम् PIU
१९६४ वेल्ति होसिङ्गर् फिशर्  संयुक्तानि राज्यानि in  भारतम् PIU
१९७६ हेन्निङ्ग् होक् लार्सेन्  डेनमार्क in  भारतम् PIU
२००० जाकिन् अर्बुतम्  भारतम् PIU
२००४ लक्ष्मिनारायण् रामदास्  भारतम् PIU
२००२ सन्दीप् पान्डे  भारतम् EL
२००६ अरविन्दकेजरीवालः  भारतम् EL
२०११ नीलिमा मिश्रा  भारतम् EL
२००९ दीप् जोशि  भारतम्
२०११ हरीश् हन्दे  भारतम्
२०१२ कुलन्डै फ़्रान्सिस्  भारतम्

बाह्यानुबन्धाः[सम्पादयतु]