सामग्री पर जाएँ

रमोन् मेग्सेसे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रमोन् मेग्सेसे
सप्तमः राष्ट्रपतिः
कार्यालये
30 डिसेम्बर्, 1953  17 मार्च, 1957
उपराष्ट्रपतिः कार्लोस् पि गार्सिया
पूर्वगमः एल्पिडियो क्विरिनो
पादानुध्यातः कार्लोस् पि गार्सिया
राष्ट्रियरक्षणाकार्यदर्शी
कार्यालये
1 जनवरी, 1954  14 मे, 1954
राष्ट्रपतिः रमोन् मेग्सेसे
पूर्वगमः आस्कर् केस्टेलो
कार्यालये
1 सेप्टेम्बर्, 1950  28 फेब्रवरी , 1953
राष्ट्रपतिः एल्पिडियो क्विरिनो
पूर्वगमः रुपेर्टो काङ्लियान्
पादानुध्यातः आस्कर् केस्टेलो
व्यक्तिगत विचाराः
जननम् रामोन् डेल् फ़्इएरो मेग्सेसे
(१९०७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-३१)३१, १९०७
इबा, जाम्बलीस्राज्यम्, Philippines
मरणम् स्क्रिप्ट त्रुटि: फंक्शन "death_date_and_age" मौजूद नहीं है।
बलम्बन्, सेबु
समाधिः सन्तक्रूज़्,मनिला, फिलिपीन्सदेशः
राजनैतिकपक्षः नेशियनलिस्टापक्षः (1953–1957)
लिबेरल्पक्षः[][] (1946–1953)
पतिः/पत्नी लूज़् मेग्सेसे
अपत्यानि तेरेसिटा
मिलाग्रोस्
ज्यू. रमोन् मेग्सेसे
मुख्यशिक्षणम् जोस् रिज़ाल् विश्वविद्यालयः
वृत्तिः तान्त्रिकपदवी
धर्मः रोमन् केतोलिक्
हस्ताक्षरम्

रमोन् एफ् मेग्सेसे ( Ramón del Fierro Magsaysay)फिलिपीन्सदेशस्य प्रमुखः राजनीतिज्ञः सप्तमः राष्ट्रपतिश्च आसीत् । उत्तमशासकः, प्रजानुरागी रमोन्-वर्यः जनसामान्यानाम् आराध्यमूर्तिरित्येव प्रसिद्धः आसीत् । तदर्थं फिलिपीन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तिं ददाति । सार्वजनिक-सर्वकार-समुदायनायकत्वसेवासु-साहित्य- कला- पत्रिकोद्यमक्षेत्रेषु निरताः अत्युत्तमजनाः एतां मेग्सेसेप्रशस्तिं प्राप्नुवन्ति । मेग्सेसेप्रशस्तिः एशियाखण्डस्य 'नोबेल्' इत्यपि उच्यते ।

जन्म बाल्यञ्च

[सम्पादयतु]

रमोन्-महोदयः १९०७ तमे वर्षे आगष्ट्मासस्य ३१ दिनाङ्के जाम्बलीसराज्यस्य 'इम्बा' इत्यस्मिन् ग्रामे जन्म प्राप्तवान् । अस्य पिता 'एक्सेक्बिल् मेग्सेसे' कश्चन लोहकारः, माता 'पर्फॆक्टा डेल्फियरो' शालायां उपाध्यायिनी । रामोन्वर्यः १९२७तमे वर्षे फिलिपीन्सविश्वविद्यालयतः तान्त्रिकपदवीं (B E)प्राप्तवान् । तदनन्तरम् 'इन्स्टित्यूट् आफ् कामर्स्' इत्यस्मात् संस्थातः वाणिज्यशास्त्रे अपि पदवीं प्राप्तवान् । निर्धनत्वकारणात् अध्ययनावसरे चालकवृत्तेः द्वारा धनार्जनं कृत्वा पठति स्म। पठनानन्तरं कानिचन दिनानि अभियान्त्रिकीकार्यं कृतवान् ।

सेनायां कार्यम्

[सम्पादयतु]

द्वितीयमहायुद्धावसरे फिलिपीन्स्देशस्य सेनां प्रविष्टवान् । १९४२तमे संवत्सरे बेटान्-देशस्य पराजयस्य अनन्तरम् एषः ततः बहु कष्टेन पलाय्य 'पाश्चात्त्य लुज़ान् गेरिल्ला'-सेनायाः नायकत्वं स्वीकृतवान् । १९४२ आगष्टमासतः वर्षत्रयं तत्रैव कार्यं कुर्वन् जाम्बलीसराज्यस्य 'स्टान् मार्सॆलीनो'कार्याचरणस्य प्रमुखः अपि आसीत् । जाम्बलीसराज्यस्य सागरतटस्य प्रदेशः जपानदेशीयैः आक्रान्तः आसीत् । १९४५तमे वर्षे तस्य प्रदेशस्य स्वातन्त्रस्य प्राप्तौ रमोन्वर्यस्य बहु मुख्यं योगदानमस्ति ।

राजनीतिक्षेत्रे रामोनवर्यः

[सम्पादयतु]

द्वितीयविश्वयुद्धावसरे रमोनवर्यः "गेरिल्लागणस्य"नायकरूपेण अप्रतिमसाहसं प्रदर्शितवान् । तदर्थम् एषः जाम्बलीसाराज्यस्य सेनादलप्रमुखत्वेन नियोजितः । तदनन्तरं जाम्बलीसराज्यस्य "लिबेरल्पक्षे" चक्रद्वये सदस्यत्वं प्राप्य सेवां कृतवान् । राष्ट्रियरक्षणादलस्य कार्यदर्शिपदवीम् अपि एषः अलङ्कृतवानासीत्। १९५३तमे संवत्सरे डिसेम्बर्-मासस्य ३०तमे दिनाङ्के रमोन्वर्यः फिलिपीन्सगणतन्त्रदेशस्य ( Republic Of Philipines) राष्ट्रपतिः अभवत् ।

एलीनोर् रूसेवोल्ट्महोदया रामोन्दम्पत्यौ च

वैयक्तिकजीवनम्

[सम्पादयतु]

रमोन्वर्यः 'लूज़् मेग्सेसे' इति नाम्नीं परिणीतवान् । एतयोः त्रयः पुत्राः । १९५७तमे वर्षे रमोन्महोदयस्य राष्ट्रपति-अधिकारावधेः समाप्तिः आसीत्। किन्तु ततः पूर्वमेव मार्चमासस्य १६दिनाङ्के एव विमानदुर्घटनायां रामोन्वर्यः दुर्मरणं प्राप्तवान् ।

मनिलानगरे रमोन्वर्यस्य स्मारकंम्


बाह्यानुबन्धाः

[सम्पादयतु]


  1. "Ramon Magsaysay." Microsoft Student 2009 [DVD]. Redmond, WA: Microsoft Corporation, 2008.
  2. Molina, Antonio. The Philippines: Through the centuries. Manila: University of Sto. Tomas Cooperative, 1961. Print.
"https://sa.wikipedia.org/w/index.php?title=रमोन्_मेग्सेसे&oldid=480858" इत्यस्माद् प्रतिप्राप्तम्