रमोन् मेग्सेसे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रमोन् मेग्सेसे
सप्तमः राष्ट्रपतिः
कार्यालये
30 डिसेम्बर्, 1953 – 17 मार्च, 1957
उपराष्ट्रपतिः कार्लोस् पि गार्सिया
पूर्वगमः एल्पिडियो क्विरिनो
पादानुध्यातः कार्लोस् पि गार्सिया
राष्ट्रियरक्षणाकार्यदर्शी
कार्यालये
1 जनवरी, 1954 – 14 मे, 1954
राष्ट्रपतिः रमोन् मेग्सेसे
पूर्वगमः आस्कर् केस्टेलो
कार्यालये
1 सेप्टेम्बर्, 1950 – 28 फेब्रवरी , 1953
राष्ट्रपतिः एल्पिडियो क्विरिनो
पूर्वगमः रुपेर्टो काङ्लियान्
पादानुध्यातः आस्कर् केस्टेलो
व्यक्तिगत विचाराः
जननम् रामोन् डेल् फ़्इएरो मेग्सेसे
(१९०७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-३१)३१, १९०७
इबा, जाम्बलीस्राज्यम्, Philippines
मरणम् १७, १९५७(१९५७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-१७) (आयुः ४९)
बलम्बन्, सेबु
समाधिः सन्तक्रूज़्,मनिला, फिलिपीन्सदेशः
राजनैतिकपक्षः नेशियनलिस्टापक्षः (1953–1957)
लिबेरल्पक्षः[१][२] (1946–1953)
पतिः/पत्नी लूज़् मेग्सेसे
अपत्यानि तेरेसिटा
मिलाग्रोस्
ज्यू. रमोन् मेग्सेसे
मुख्यशिक्षणम् जोस् रिज़ाल् विश्वविद्यालयः
वृत्तिः तान्त्रिकपदवी
धर्मः रोमन् केतोलिक्
हस्ताक्षरम्

रमोन् एफ् मेग्सेसे ( Ramón del Fierro Magsaysay)फिलिपीन्सदेशस्य प्रमुखः राजनीतिज्ञः सप्तमः राष्ट्रपतिश्च आसीत् । उत्तमशासकः, प्रजानुरागी रमोन्-वर्यः जनसामान्यानाम् आराध्यमूर्तिरित्येव प्रसिद्धः आसीत् । तदर्थं फिलिपीन्ससर्वकारः प्रतिवर्षं एतस्य नाम्नि विभिन्नक्षेत्राणां साधकानां कृते प्रशस्तिं ददाति । सार्वजनिक-सर्वकार-समुदायनायकत्वसेवासु-साहित्य- कला- पत्रिकोद्यमक्षेत्रेषु निरताः अत्युत्तमजनाः एतां मेग्सेसेप्रशस्तिं प्राप्नुवन्ति । मेग्सेसेप्रशस्तिः एशियाखण्डस्य 'नोबेल्' इत्यपि उच्यते ।

जन्म बाल्यञ्च[सम्पादयतु]

रमोन्-महोदयः १९०७ तमे वर्षे आगष्ट्मासस्य ३१ दिनाङ्के जाम्बलीसराज्यस्य 'इम्बा' इत्यस्मिन् ग्रामे जन्म प्राप्तवान् । अस्य पिता 'एक्सेक्बिल् मेग्सेसे' कश्चन लोहकारः, माता 'पर्फॆक्टा डेल्फियरो' शालायां उपाध्यायिनी । रामोन्वर्यः १९२७तमे वर्षे फिलिपीन्सविश्वविद्यालयतः तान्त्रिकपदवीं (B E)प्राप्तवान् । तदनन्तरम् 'इन्स्टित्यूट् आफ् कामर्स्' इत्यस्मात् संस्थातः वाणिज्यशास्त्रे अपि पदवीं प्राप्तवान् । निर्धनत्वकारणात् अध्ययनावसरे चालकवृत्तेः द्वारा धनार्जनं कृत्वा पठति स्म। पठनानन्तरं कानिचन दिनानि अभियान्त्रिकीकार्यं कृतवान् ।

सेनायां कार्यम्[सम्पादयतु]

द्वितीयमहायुद्धावसरे फिलिपीन्स्देशस्य सेनां प्रविष्टवान् । १९४२तमे संवत्सरे बेटान्-देशस्य पराजयस्य अनन्तरम् एषः ततः बहु कष्टेन पलाय्य 'पाश्चात्त्य लुज़ान् गेरिल्ला'-सेनायाः नायकत्वं स्वीकृतवान् । १९४२ आगष्टमासतः वर्षत्रयं तत्रैव कार्यं कुर्वन् जाम्बलीसराज्यस्य 'स्टान् मार्सॆलीनो'कार्याचरणस्य प्रमुखः अपि आसीत् । जाम्बलीसराज्यस्य सागरतटस्य प्रदेशः जपानदेशीयैः आक्रान्तः आसीत् । १९४५तमे वर्षे तस्य प्रदेशस्य स्वातन्त्रस्य प्राप्तौ रमोन्वर्यस्य बहु मुख्यं योगदानमस्ति ।

राजनीतिक्षेत्रे रामोनवर्यः[सम्पादयतु]

द्वितीयविश्वयुद्धावसरे रमोनवर्यः "गेरिल्लागणस्य"नायकरूपेण अप्रतिमसाहसं प्रदर्शितवान् । तदर्थम् एषः जाम्बलीसाराज्यस्य सेनादलप्रमुखत्वेन नियोजितः । तदनन्तरं जाम्बलीसराज्यस्य "लिबेरल्पक्षे" चक्रद्वये सदस्यत्वं प्राप्य सेवां कृतवान् । राष्ट्रियरक्षणादलस्य कार्यदर्शिपदवीम् अपि एषः अलङ्कृतवानासीत्। १९५३तमे संवत्सरे डिसेम्बर्-मासस्य ३०तमे दिनाङ्के रमोन्वर्यः फिलिपीन्सगणतन्त्रदेशस्य ( Republic Of Philipines) राष्ट्रपतिः अभवत् ।

एलीनोर् रूसेवोल्ट्महोदया रामोन्दम्पत्यौ च

वैयक्तिकजीवनम्[सम्पादयतु]

रमोन्वर्यः 'लूज़् मेग्सेसे' इति नाम्नीं परिणीतवान् । एतयोः त्रयः पुत्राः । १९५७तमे वर्षे रमोन्महोदयस्य राष्ट्रपति-अधिकारावधेः समाप्तिः आसीत्। किन्तु ततः पूर्वमेव मार्चमासस्य १६दिनाङ्के एव विमानदुर्घटनायां रामोन्वर्यः दुर्मरणं प्राप्तवान् ।

मनिलानगरे रमोन्वर्यस्य स्मारकंम्


बाह्यानुबन्धाः[सम्पादयतु]


  1. "Ramon Magsaysay." Microsoft Student 2009 [DVD]. Redmond, WA: Microsoft Corporation, 2008.
  2. Molina, Antonio. The Philippines: Through the centuries. Manila: University of Sto. Tomas Cooperative, 1961. Print.
"https://sa.wikipedia.org/w/index.php?title=रमोन्_मेग्सेसे&oldid=480858" इत्यस्माद् प्रतिप्राप्तम्