मदर् तेरेसा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मदर् तेरेसा

मदर् तेरेसा (Mother Teresa) सुप्रसिद्धा समाजसेविका । रोमन् क्याथोलिक् सम्प्रदायस्य सन्यासिनी आसीत् । अस्याः पूर्वनाम "आञेज़ा गोंजे बोयजिउ" । एषा अल्बेनियादेशीया, किन्तु भारतदेशस्य पौरत्वं प्राप्तवती । १९५० तमे संवत्सरे 'मिषनरीस् आफ् चारिटि' नामकसेवासङ्घं भारतस्य कोलकतानगरे स्थापितवती । अस्याः संस्थायाः केन्द्राणि आभारते स्थापितवती । न केवलं भारते किन्तु विभिन्नराष्ट्रेषु स्थापितवती । एतेषु केन्द्रेषु अनाथेभ्यः, अस्वस्थेभ्यः, दरिद्रेभ्यः च सर्वविधव्यवस्था कल्पिता अस्ति । ४५ वर्षाणाम् अपेक्षया अधिककालम् एषा सेवां कृतवती । दीनेषु एव देवं भावयन्ती सा सेवां कुर्वती च जीवितवती ।

जननं, बाल्यञ्च[सम्पादयतु]

मदर् तेरेसा युगोस्लावियादेशस्य 'स्कूपेज्’ ग्रामे १९१० तमे संवत्सरे अगष्ट्मासस्य २७ तमे दिनाङ्के अजायत । अस्याः पिता निकोलास् बोजाक्सिया, माता ड्रेन् फिल् बेक्निल् । अस्याः सप्तमे वयसि पिता मृतवान् । अनन्तरं माता एव तां पालितवती । एनां रोमन् क्याथोलिक् क्रैस्तदेवालयस्य (चर्च्) अनुयायिनीं कृतवती । क्रैस्तदेवालयस्य सेवावातावरणादिकं दृष्ट्वा एषा प्रभाविता जाता । मम जीवने अपि ईदृशसेवाकार्यं करणीयम् इति सा चिन्तितवती । तेषु दिनेषु मया सन्यासदीक्षा स्वीकर्तव्या इति सा सङ्कल्पं कृतवती । तदर्थम् अष्टादशवयसि एव सा गृहात् निर्गता । मातरम्, सहोदरम्, बान्धवान् च त्यक्त्वा समाजसेवाकार्ये निरता जाता ।

दीक्षा, समाजसेवा च[सम्पादयतु]

निर्मलहृदयः

ऐर्लेण्डदेशस्य लोरेट् क्रैस्तसन्यासिभिः सह कार्यं कर्तुं युगोस्लोवियादेशस्य क्रैस्तदेवालयात् १९२८ तमे संवत्सरे तेरेसा प्रेषिता आसीत् । एकवर्षम् एनां प्रशिक्षणार्थं डार्जिलिङ्गप्रदेशं प्रेषितवन्तः । १९४८ तमे संवत्सरे कोलकतानगरस्य 'सेण्ट् मेरीस् प्रौढशालायां’ भूगोलशास्त्रस्य अध्यापिका आसीत् । मेमासस्य २४ तमे दिनाङ्के १९३१ तमे संवत्सरे सन्यासदीक्षां स्वीकृतवती । १९४८ तमे संवत्सरे शोषितजनानां सेवां कर्तुं कोलकतानगरस्य क्रैस्तमतगुरुः आर्च् बिषप् अङ्गीकृतवान् । १९४६ तमे संवत्सरे डार्जलिङ्ग् नगरे रैल्याने गच्छन्ती आसीत्, अस्मिन् समये "दीनानां सेवार्थं तव जीवनम्" इति देवेन आज्ञापिता इति भावयन्ती आसीत् ।

दुर्बलानाम्, रोगिणाम्, अनाथानाञ्च सेवां कुर्वती जीवनं व्यापितवती । दुर्बलानां सेवायाम् एव देवं पश्येत् इति वदन्ती तथैव आचरन्ति च आसीत् । अनाथादीनां सेवां करणीयम् इति अस्याः सङ्कल्पः आसीत् । 'मिषनरीस् आफ् चारिटीस् संस्था' अनया सङ्कल्पितदिनं सेप्टम्बरमासस्य १० दिनाङ्कं स्फूर्तिदिनम् उत इन्स्पिरेषन् डे इति आचरन्ति । । स्वयंसेवासङ्घान् संस्थाप्य सेवाम् आरब्धवती । एषु सङ्घेषु स्वयंसेवाकाः बहु श्रद्धया सेवां कुर्वन्ति स्म । अनाथेभ्यः आबालवृद्धेभ्यः वासादिव्यवस्था सुकल्पिता आसीत् । सन्तप्तानां सेवार्थं स्वजीवनम् अर्पितवती । रोमदेशस्य क्रैस्तमतस्य धर्मगुरूणाम् अनुमतिं स्वीकृत्य, क्रैस्तदेवालयस्य बहिस्थित्वा कोलकतानगरस्य मलीनप्रदेशस्थानां दुर्बलानां सेवर्थं कटिबद्धा । धर्मगुरूणाम् आज्ञया सन्यासदीक्षावस्त्रं त्यक्त्वा, श्वेतशाटिकां दृतवती । तस्यै पाट्णानगरस्य अमेरिकन् मेडिकल् मिषनरि सिस्टर्स केन्द्रात् प्रशिक्षणं प्राप्तवती । १९५० तमे संवत्सरे स्थापिता संस्था आभारते व्यापृता । १९६२ तमे संवत्सरे भारतदेशस्य पौरत्वं प्राप्तवती । निर्मलशिशुभवनम् शताधिकेभ्यः अनाथबालकेभ्यः आश्रयभवनं जातम् । अस्याः अन्या संस्था निर्मलहृदयः तथा प्रेमदानसंस्था इति । मार्गे पतितरोगेणपीडितेभ्यः, दीनेभ्यः आश्रयः आसीत् एषा संस्था । कुष्ठरोगिणां निमित्तमेव विशिष्ठाः संस्थाः आसन् । तेषु अन्यतमा विशिष्ठा संस्था "प्रेमनिवासः" इति । स्वयं तेरेसा एव औषदादि लेपनेन तेषां सेवां करोति स्म । विश्वे २७ देशेषु ६०० शताधिकाः अस्याः सेवासंस्थाः सेवानिरताः सन्ति । विरक्ताभ्यः महिलाभ्यः मिषनरीस् आफ् चारिटीस् संस्था कल्पिता आसीत् । ४००० सहस्राधिकाः सङ्ख्याकाः सेवाकर्त्र्यः सेवानिरताः सन्ति । न केवलं महिलाणां किन्तु पुरुषाणां कृते अपि १९६३ तमे संवत्सरे 'मिषनरि ब्रदर्स् आफ् चारिटि’ इति संस्थां संस्थापितवती तेरेसा । १९७७ तमे संवत्सरे रोम्देशे ब्रदर्स् आफ् दि वर्ल्ड् नामक संस्थां स्थापितवती । अनाथशिशूनां रक्षणाय "शिशुभवनम्" नामकसंस्थां आरब्धवती ।

पुरस्काराः[सम्पादयतु]

  • १९४९ तमे संवत्सरे नोबेल् शान्तिपुरस्कारं प्राप्तवती ।
  • १९८० तमे संवत्सरे 'भारतरत्न' पुरस्कारं प्राप्तवती ।
  • १९७२ तमे संवत्सरे जवहरलाल् नेहरु पुरस्कारं प्राप्तवती ।
  • १९६२ तमे संवत्सरे म्याग्सेसे पुरस्कारं प्राप्तवती ।
  • १९२२ तमे संवत्सरे टेम्पल्टन् पुरस्कारं प्राप्तवती ।
  • १९७१ तमे संवत्सरे जान् केनेडि इन्टर् न्याषनल् (अन्ताराष्ट्रीय्) पुरस्कारं प्राप्तवती ।
  • पोप् जान् पुरस्कारं प्राप्तवती ।
  • गुड् समारिटन् पुरस्कारं प्राप्तवती ।
  • उथाण्ट् पुरस्कारं प्राप्तवती ।
  • १९९३ तमे संवत्सरे राजीवः गान्धिः सद्धावना पुरस्कारं प्राप्तवती ।
  • लियाटाल् स्टाय् अन्ताराष्ट्रीय पुरस्कारं प्राप्तवती ।
  • ब्रिटीष् आर्डर् आफ् मेरिट् पुरस्कारं प्राप्तवती ।
  • आहार-कृषिसंस्थायाः सेरेन् पदकं प्राप्तवती ।
  • विश्वस्य नैके विश्वविद्यालयाः 'गौरवडाक्टरेट्’ उपाधिना सम्मानिताः ।

मरणम्[सम्पादयतु]

सेप्टम्बरमासस्य ५ मे दिनाङ्के १९९७ तमे संवत्सरे भारतदेशे मरणं प्राप्तवती । अस्मिन् सन्दर्भे भारतस्य विश्वस्य च गण्याः समायाताः । अस्याः (पार्थिवशरीरम्) आर्डर् आफ् मिशनरीस् आफ् चारिटि संस्थायाम् अन्त्यसंस्कारं कृतम् ।

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मदर्_तेरेसा&oldid=484296" इत्यस्माद् प्रतिप्राप्तम्