आर् के लक्ष्मण्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ರಾಶಿಪುರಂ ಕೃಷ್ಣಸ್ವಾಮಿ ಲಕ್ಷ್ಮಣ್ ಅಯ್ಯರ್
R.K.Laxman
"द कॉमन मैन" सिम्बायोसिस् अन्तराष्ट्रिय-विश्वविद्यालये श्रीलक्ष्मणस्य
एका प्रतिमा अपि विद्यते ।
[१]
जन्म (१९२१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२४)२४ १९२१
मैसूर, कर्णाटकराज्यं, भारतम्
मृत्युः २६ २०१५(२०१५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२६) (आयुः ९३)
पुणे, महाराष्ट्रम्, भारतम्
देशीयता भारतम् Edit this on Wikidata
शिक्षणस्य स्थितिः महाराजा कॉलेज, म्हैसूर, मैसूरुविश्वविद्यालयः Edit this on Wikidata
वृत्तिः व्यङ्ग्यचित्रकारः, विवरणकर्ता
कृते प्रसिद्धः कॉमन् मेन कार्टून्
भार्या(ः) कमला
परिवारः आर् के नारायणन् (भ्राता)
पुरस्काराः पद्मभूषणम्, रोमन मेग्सेसे, पद्मविभूषणम्
हस्ताक्षरम्

राशिपुरम् कृष्णस्वामी लक्ष्मण् अय्यर्[२] ( /ˈrɑːʃɪpʊrəm krʃhnəsvɑːm ləkʃhmən əjjər/) (कन्नड: ರಾಶಿಪುರಂ ಕೃಷ್ಣಸ್ವಾಮಿ ಲಕ್ಷ್ಮಣ್ ಅಯ್ಯರ್, आङ्ग्ल: Rasipuram Krishnaswamy Laxman Iyer (जन्म : २३ अक्तूबर १९२१, मैसूर) महोदयः आर्. के. लक्ष्मण इतिलघुनाम्ना प्रसिद्धः अस्ति । भारतस्य प्रमुखव्यङ्ग्यचित्रकारेषु अन्यतमः सः । अर्धशतकात् जनसामान्यानां पीडाः स्वचित्रैः समाजस्य सम्मुखं सः उपस्थापयति स्म । समाजस्य विकृतीः, राजनैतिकविदूषकाणां विषमविचारान् च स्वस्य व्यङ्ग्यचित्रमाध्येन सकटाक्षम् उपस्थापयितुं सः प्रख्यातः आसीत् । श्रीलक्ष्मणः स्वस्य व्यङ्ग्यचित्रावल्या अपि प्रसिद्धः अभवत् [३] । तस्याः व्यङ्ग्यचित्रावल्याः नाम "द कॉमन मैन" आसीत् [४] । सा व्यङ्ग्यचित्रावली सः द टाईम्स ऑफ इण्डिया वर्तमानपत्रे प्रकाशयति स्म [५]

जन्म, बाल्यञ्च[सम्पादयतु]

१९२१ तमस्य वर्षस्य अक्तूबर-मासस्य चतुर्विंशतितमे (२४/१०/१९२१) दिनाङ्के भारतस्य कर्णाटकराज्यस्य मैसूर-महानगरे श्रीलक्ष्मणस्य जन्म अभवत् [६] । तस्य पिता विद्यालयस्य सञ्चालकः आसीत् । तस्य षड्पुत्राः आसन् । तेषु षड्षु श्रीलक्ष्मणः षष्ठः आसीत् [७] । श्रीलक्ष्मणस्य अग्रजः आर. के. नारायणन् प्रसिद्धः उपन्यासकारः, केरलविश्वविद्यालयस्य उपकुलपतिः च ।

बाल्यकालादेव श्रीलक्ष्मणस्य रुचिः चित्रकलायाम् आसीत् । सः भूमौ, द्वारे, भित्तौ च चित्रं निर्माति स्म । वटवृक्षस्य पत्राणां सुन्दरे चित्रे चित्रिते सति एकदा सः स्वस्य अध्यापकेन पुरस्कृतः । तदारभ्यः सः चित्रकारं भवितुम् इष्टवान् । ब्रिटन-देशस्य प्रख्यातः व्यङ्ग्यचित्रकारः सर डेविड लौ इत्ययं श्रीलक्ष्मणस्य आदर्शः आसीत् । श्रीलक्ष्मणः स्वस्य स्थानीयकन्दुकक्रीडादलस्य "रफ् एण्ड् टफ् एण्ड् जॉली" दलनायकः आसीत् [८] । तस्य क्रियाकलापैः प्रेरितः तस्य अग्रजः 'डोडो द' 'मणि' 'मेकर', 'द रीगल क्रिकेट क्लब' इत्यादिकाः कथाः अलिखत् [९]

तस्य सुखदं बाल्यं तदा दुःखेन ग्रस्तम् अभवत्, यदा तस्य पिता पक्षाघातस्य रोगी अभवत् । ततः एकवर्षाभ्यान्तरे एव तस्य पितुः मृत्युः अपि अभवत् । तस्मिन् काले लक्ष्मणः विद्यालये पठन् आसीत् । यद्यपि पितुः मृत्युना गृहस्य अनेकानि दायित्वानि तस्य कर्त्तव्यताम् आपतितानि, तथापि सः अभ्यासं नात्यजत् ।

उच्चविद्यालये अभ्यासं समाप्य लक्ष्मणः कला, नृत्यं, चित्रम् इत्यादीनां शिक्षणं प्राप्तुम् इष्टवान् । अतः सः मुम्बई-महानगरस्य 'जेजे'-महाविद्यालये प्रवेशं प्राप्तुम् आवेदनम् अकरोत् । परन्तु महाविद्यालयस्य आचार्यः आवेदनस्य प्रत्युत्तरं यच्छन् अलखत्, "तव चित्रेषु किमपि विशेषाकर्षकं नास्ति । अतः अहं ते प्रवेशं दातुं न शक्नोमि" इति [१०] । ततः सः मैसूरविश्वविद्यालये प्रवेशं प्रापत् । तत्र सः बी ए-पदवीं प्रापत् । तस्मिन् काले एव सः स्वतन्त्रकलात्मकगतिविधीन् आरभत । स्वराज्य-पत्रिकायां तथा च एनिमेटेड-चित्रावल्याम् अपि स्वस्य व्यङ्ग्यचित्रमाध्यमेन योगदानम् अयच्छत् [११]

व्यवसायः[सम्पादयतु]

श्रीलक्ष्मणः आरम्भिके काले स्वराज्य-पत्रिकायै, ब्लिट्ज-पत्रिकायै च कार्यं करोति स्म । यदा सः मैसूर-महानगरस्य महाराजा-महाविद्यालये पठन् आसीत्, तदा सः स्वस्य अग्रजस्य श्रीनारायणस्य कथायाः वर्णनं 'द हिन्दू'-समाचारपत्रे करोति स्म । स्थानीयसमाचारपत्रिकायै "स्वतन्त्रता"यै राजनैतिकव्यङ्गचित्राणि अपि यच्छति स्म सः । श्रीलक्ष्मणः कन्नड-भाषायाः हास्यपत्रिकायै अपि स्वचित्राणि यच्छति स्म । तस्य हास्यपत्रिकायाः नाम 'कोरावञ्जी' इति आसीत् । 'कोरावञ्जी' इत्येतां पत्रिकां डॉ॰ एम्. शिवराम-महोदयः प्रकाशयति स्म । सः १९४२ तमात् वर्षात् कोरावञ्जी-पत्रिकां प्रकाशयति स्म । संयोगवशात् सः स्वयं हास्यं प्रोत्साहयति स्म । अतः सः तां हास्यपत्रिकां हास्याय, व्यङ्ग्यचित्रेभ्यः च समार्पयत् । डॉ॰ शिवराम स्वयं कन्नडभाषायाः प्रख्यातः 'टीटोलीय्' आसीत् । सः श्रीलक्ष्मणं प्रोत्साहयति स्म । ग्रीष्मावकाशेषु श्रीलक्ष्मणः चेन्नै-महानगरस्य 'जेमिनी स्टूडियोज' मध्ये कार्यं करोति स्म । तस्य प्रप्रथमा वृत्तिः राजनैतिक-व्यङ्ग्यचित्रकारस्य आसीत् । 'द फ्री प्रेस जॉर्नल' इतीमा संस्था मुम्बई-महानगरे अपि आसीत् । तत्र श्रीबाला साहेब ठाकरे [१२] तस्य सहयोगी आसीत् । ततः श्रीलक्ष्मणः 'द टाइम्स ऑफ् इण्डिया'-समाचारपत्रेण सह सँल्लग्नः । तत्र सः पञ्चाशाद्वर्षाधिकं कार्यम् अकरोत् ।

१९५४ तमे वर्षे श्रीलक्ष्मणः 'एशियन् पैण्ट्स् ग्रुप्' इत्यस्यै संस्थायै गट्टू-नामकं व्यङ्ग्यचित्रम् अरचयत् [१३] । तत् चित्रम् आविश्वं प्रसिद्धम् अभवत् । सः काँश्चन उपन्यासान् अपि अलिखत् । तस्य व्यङ्ग्यचित्राणि 'मिस्टर एण्ड् मिसेस् ५५'-नामके हिन्दीचलच्चित्रे, 'कामराज'-नामके तमिलचलच्चित्रे प्रख्यातानि अभूवन् । तस्य रचनासु 'मालगुडी डेज'-नामकं रेखाचित्रम् अपि अन्तर्भवति, यत्र श्रीनारायणेन लिखितस्य उपन्यासस्य भागस्वरूपं प्रदर्शितम् आसीत् ।

वैवाहिकजीवनम्[सम्पादयतु]

श्रीलक्ष्मणस्य प्रथमविवाहः भरतनाट्यम्-नृत्याङ्गिन्या, अभिनेत्र्या कमलया सह अभवत् । विवाहात् पूर्वं कमला 'बेबी कमला', 'कुमारी कमला' इत्यादिभिः नामभिः प्रसिद्धा आसीत् । परन्तु तयोः विवाहे विन्यस्ते सति श्रीलक्ष्मणः द्वितीयविवाहम् अकरोत् । तस्य द्वितीयपत्न्यायाः नाम अपि कमला आसीत् । सा लेखिका आसीत् । फिल्मफेयर् इत्यस्य चलच्चित्र-पत्रिकायां व्यङ्ग्यचित्रावल्यां 'द स्टार ऐ हाव नेवर मेट' इत्यस्मिन् सः कमला लक्ष्मण् इत्यस्याः एकम् व्यङ्ग्यचित्रं प्राकाशयत् । तस्य व्यङ्ग्यचित्रस्य नाम 'द स्टार ओनली ऐ हाव मेट्' आसीत् ।

रोगग्रस्तः श्रीलक्ष्मणः[सम्पादयतु]

२००३ तमस्य वर्षस्य सितम्बर-मासे लक्ष्मणः पक्षाघात(Paralysis)रोगेण ग्रस्तः [१४]पक्षाघातस्य प्रभावेण तस्य शरीरस्य वामभागः प्रभावितः अभवत् । तेन तस्य क्रियाकलापेषु प्रभावः अभवत् [१५] । सः दशवर्षं यावत् तेन आघातेन प्रभावितः सन् जीवनम् अयापयत् । ततः शनैः शनैः तस्य स्वास्थ्ये उचितं परिवर्तनम् अभवत् । २०१२ तमस्य वर्षस्य अक्तूबर-मासे स्वस्य एकनवतितमः (९१) जन्मदिवसः श्रीलक्ष्मणेन उत्साहेन पुणे-महानगरे आचरितः । स्वस्य जन्मदिवसस्य शुभावसरे सः स्वनिवासस्थाने सम्मेलनम् आयोजयत् । सम्मेलने श्रीलक्ष्मणः मधुरपिष्टकं (Cake) भोजयित्वा सम्मेलनस्य आरम्भम् अकरोत् । श्रीलक्ष्मणस्य राजवर्धन पाटिल-नामकः प्रशंसकः अपि तस्मिन् सम्मेलने उपस्थितः आसीत् । सः 'द ब्रेनी क्रो'-नामकं वृत्तचित्रं श्रीलक्ष्मणाय समार्पयत् । तत् वृत्तचित्रं श्रीलक्षणस्य प्रियपक्षिणः जीवनस्य, अस्तित्वस्य कथानकम् आसीत् । श्रीलक्ष्मणस्य जन्मदिवसस्य अवसरे शिवसेना-पक्षस्य प्रमुखः श्रीबाला साहेब ठाकरे अपि (पुरा श्रीलक्ष्मणस्य सहयोगी व्यङ्ग्यचित्रकारः आसीत् ।) जन्मदिवसस्य शुभकामनाः पाठितवान् ।

शेखर गुरेरा-महोदयेन व्यङ्ग्यचित्रमाध्यमेन श्रद्धाञ्जलिः प्रदत्ता

मृत्युः [१६][१७][१८][सम्पादयतु]

२०१५ तमस्य वर्षस्य जनवरी-मासस्य षड्विंशतितमे (२६/०१/२०१५) दिनाङ्के महाराष्ट्रराज्यस्य पुणे-महानगरे श्रीलक्ष्मणस्य निधनम् अभवत् । त्रयोविंशतितमे दिनाङ्के वक्षस्स्थले पीडासमुद्भूता आसीत् । ततः तस्य अनेकानि अङ्गानि निरस्तानि अभूवन् । अतः गहनचिकित्साविभागे (I. C. U.) तस्य चिकित्सा आरब्धा । परन्तु तत्रैव तस्य निधनम् अभवत् । तस्य मृत्युः भारतगणराज्यस्य प्रजासत्ताकदिवसस्य शुभावसरे अभवत् । एकस्य देशभक्तस्य कृते प्राणान् त्यक्तुम् एतस्मात् अधिकं शुभं किं भवेत् ? सामान्यजनानां पीडाः सः समाजस्य सम्मुखं, सर्वकारस्य सम्मुखं च स्वस्य कटाक्षशैल्या उपस्थापयति स्म । जनाः कृतज्ञताभावेन चिरकालं यावत् तस्य स्मरणं करिष्यन्ति ।

श्रीलक्ष्मणस्य कृते श्रीनरेन्द्रस्य श्रद्धाञ्जलिः -

My condolences to the family & countless well-wishers of a legend whose demise leaves a major void in our lives. RIP RK Laxman. India will miss you RK Laxman. We are grateful to you for adding the much needed humour in our lives & always bringing smiles on our faces.[१९][२०]

सम्मानः, पुरस्कारश्च[सम्पादयतु]

पुस्तकानि[सम्पादयतु]

  • दि एलोक्वोयेन्ट ब्रश
  • द बेस्ट आफ लक्षमण सीरीज
  • होटल रिवीयेरा
  • द मेसेंजर
  • सर्वेन्ट्स आफ इंडिया
  • द टनल आफ टाईम (आत्मकथा)

मल्टी-मीडिया-क्षेत्रे योगदानम्[सम्पादयतु]

  • इण्डिया थ्रू थे आईज ऑफ आर. के. लक्ष्मण-देन टू नाउ (सीडी रोम)
  • लक्ष्मण रेखास-टाइम्स ऑफ इण्डिया-द्वारा प्रकाशितम्
  • आर. के. लक्ष्मण की दुनिया- नामकं धारावाहिकम् (सब टीवी)

सम्बद्धाः लेखाः[सम्पादयतु]

व्यङ्ग्यचित्रकारः

द टाईम्स ऑफ इण्डिया

बााला साहेब ठाकरे

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भ:[सम्पादयतु]

  1. RK Laxman Chair started at Symbiosis University Archived २०१२-११-०५ at the Wayback Machine, TNN 19 June 2011, 01.41am IST
  2. रङ्गाराव् (१ जनवरी २००६ January 2006). आर् के लक्ष्मण्. साहित्य अकादेमी. pp. ११. ISBN 978-81-260-1971-7. आह्रियत ११मार्चच्२०१२11 March 2012. 
  3. Ritu Gairola Khanduri. 2012. "Picturing India: Nation, Development and the Common Man." Visual Anthropology 25(4): 303-323.
  4. Ritu Gairola Khanduri. 2014. Caricaturing Culture in India: Cartoons and History of the Modern World. Cambridge: Cambridge University Press.
  5. "Times of India cartoonist RK Laxman dies after illness". BBC. २६ जनवरी. आह्रियत 27 January 2015. 
  6. "The Common Man is still at work". The Hindu. 
  7. Laxman 1998, पृष्ठम् 4
  8. Laxman 1998, पृष्ठम् 24
  9. Laxman 1998, पृष्ठम् 23–24
  10. Laxman 1998, पृष्ठम् 57–60
  11. Laxman 1998, पृष्ठम् 66–72
  12. https://en.wikipedia.org/wiki/Bal_Thackeray
  13. "Who is the creator of 'Gattu'?". Rediff.com. 11 July 2008. 
  14. "R K Laxman hospitalized after 3 strokes, stable". Times of India. 21 June 2010. Archived from the original on 11 August 2011. आह्रियत 21 June 2010. 
  15. "Cartoonist R K Laxman passes away, stable". India Today. 26 January 2015. आह्रियत 26 January 2015. 
  16. "Eminent cartoonist RK Laxman dies at 94". The Times of India. आह्रियत 26 January 2015. 
  17. "Renowned cartoonist R K Laxman passes away at 94 in Pune". NetIndian. NetIndian. Archived from the original on 9 May 2015. आह्रियत 26 January 2015. 
  18. "R K Laxman regains partial consciousness". The Times of India. 23 January 2015. आह्रियत 27 January 2015. 
  19. "श्रीलक्ष्मणस्य कृते श्रीनरेन्द्रस्य श्रद्धाञ्जलिः". नरेन्द्र मोदी. २६ जनवरी २०१५. आह्रियत 27 January 2015. 
  20. "श्रीलक्ष्मणस्य कृते श्रीनरेन्द्रस्य श्रद्धाञ्जलिः". नरेन्द्र मोदी. २६ जनवरी २०१५. आह्रियत 27 January 2015. 
"https://sa.wikipedia.org/w/index.php?title=आर्_के_लक्ष्मण्&oldid=485271" इत्यस्माद् प्रतिप्राप्तम्