सामग्री पर जाएँ

महाराष्ट्रराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(महाराष्ट्रराज्य इत्यस्मात् पुनर्निर्दिष्टम्)
महाराष्ट्रम्
महाराष्ट्र
—  राज्यम्  —

मुद्रिका
भारतदेशे महाराष्ट्रराज्यम् राज्यस्य स्थानम्
भारतदेशे महाराष्ट्रराज्यम्
महाराष्ट्रस्य मानचित्रम्राज्यस्य स्थानम्
महाराष्ट्रस्य मानचित्रम्
Coordinates (मुम्बई): १८°५८′उत्तरदिक् ७२°४९′पूर्वदिक् / 18.96°उत्तरदिक् 72.82°पूर्वदिक् / १८.९६; ७२.८२निर्देशाङ्कः : १८°५८′उत्तरदिक् ७२°४९′पूर्वदिक् / 18.96°उत्तरदिक् 72.82°पूर्वदिक् / १८.९६; ७२.८२
देशः भारतम्
स्थापनादिनम् १ मे १९६० (महाराष्ट्रदिनम्)
राजधानी मुम्बई
नागपुरम् (शीतकाले)
बृहत् नगरम् मुम्बई
मण्डलानि ३५
सर्वकारः
 • Body महाराष्ट्रसर्वकारः
 • राज्यपालः भगतसिंह कोश्यारी
 • मुख्यमन्त्री एकनाथ शिन्दे
 • उपमुख्यमन्त्री
 • विधिविधातारः द्विसदनपद्धति
  • विधानसभा (२८८ पीठानि)
  • विधानपरिषद् (७८ पीठानि)
 • संसदीयक्षेत्रम् ६७
विस्तीर्णता
 • संहतिः ३,०७,७१३ km
क्षेत्रविस्तारः तृतीयः
जनसङ्ख्या (२०११)
 • संहतिः ११,२३,७२,९७२
 • रैङ्क् द्वितीयः
भा॰मा॰स॰ (UTC+५:३०)
ऐ एस् ओ ३१६६ कोड् IN-MH
HDI increase ०.६९७ (मध्यम)
HDI श्रेणी ७ तमा (२०१९)
साक्षरता ८४.८% (२०१७)
लिङ्गानुपातः ९२९ (२०११)
अधिकृता भाषा मराठी
जालस्थानम् maharashtra.gov.in


महाराष्ट्रराज्यम् (मराठी: महाराष्ट्रराज्य आङ्ग्ल: Maharashtra State) भारतस्य पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति । मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः । भारतस्य विस्तारे ९.८४% विस्तारः महाराष्ट्रराज्यस्य अस्ति । राज्यस्य पश्चिमदिशि अरबसागरः वर्तते । मुम्बई महाराष्ट्रराज्यस्यस्य राजधानी, नागपुरनगरं महाराष्ट्रराज्यस्य उपराजधानी ।

भौगोलिकम्

[सम्पादयतु]

महाराष्ट्र-राज्यं भारतस्य पश्चिमदिशि स्थितम् अस्ति । इदं राज्यं ३,०७,७१३ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । क्षेत्रफल-दृष्ट्या भारतस्य बृहत्तमेषु राज्येषु तृतीयम् अस्ति । जनसङ्ख्यादृष्ट्या च भारतस्य बृहत्तमेषु राज्येषु द्वितीयम् अस्ति । भारतस्य पश्चिमतटे स्थितः अरब-सागरः महाराष्ट्रराज्यस्य आधारभूतः अस्ति । अस्य राज्यस्य तटवर्तिक्षेत्रं ५६० किलोमीटरमितं दीर्घं, ८० किलोमीटरमितं विस्तृतं च अस्ति । तटीयमार्गस्य नाम “कोङ्कण” इति । इदं राज्यम् अरबसागर-सह्याद्रिपर्वतशृङ्खलयोः मध्ये विराजते । अस्मिन् राज्ये स्थिताः शैलप्रस्थाः अस्य राज्यस्य प्राकृतिकवैशिष्ट्यं वर्तते । तेषु शैलप्रस्थेषु बुलढाना-शैलप्रस्थः, अहमदनगर-शैलप्रस्थः, यवतमाल-शैलप्रस्थः च इत्यादयः प्रमुखाः सन्ति । अतः इदं राज्यं शैलप्रस्थानां शैलप्रस्थः” कथ्यते । महाराष्ट्रराज्यस्य उत्तरभागे सतपुडा-पर्वतशृङ्खला अस्ति । महाराष्ट्रराज्यस्य उत्तरदिशि गुजरात-राज्यम्, उत्तर-पूर्वदिशि मध्यप्रदेश-राज्यं, छत्तीसगढ-राज्यं च, दक्षिणदिशि गोवा-राज्यं, कर्णाटक-राज्यम्, आन्ध्रप्रदेश-राज्यं च, पश्चिमदिशि दादरा-नगरहवेली-केन्द्रशासितप्रदेशः, अरबसागरश्च स्थितः अस्ति ।

गोदावरी-नदी, भीमा-नदी, तापी-नदी, वैनगङ्गा, पेनगङ्गा, गिरना इत्यादयः महारष्ट्रराज्यस्य प्रमुखाः नद्यः सन्ति । नाशिक-नगरस्य समीपं त्र्यम्बकेश्वर-पर्वतः गोदवरी-नद्याः उद्गमस्थलं वर्तते । गोदावरी-नदी भारतस्य दीर्घतमासु नदीषु द्वितीया अस्ति । एवं च दक्षिणभारतस्य दीर्घतमा नदी अस्ति । भीमा-नदी कृष्णा-नद्याः प्रमुखसहायकनदीत्वेन अस्ति । भीमशङ्कर-स्थलम् भीमा-नद्याः उद्गमस्थलम् अस्ति । कृष्णा-नद्याः उद्गमः महाबलेश्वर-पर्वतस्य उपह्वरात् भवति । पूर्णा-नदी, पञ्चगङ्गा-नदी, दुधाना-नदी च कृष्णा-नद्याः सहायकनद्यः सन्ति ।

अस्मिन् राज्ये सर्वकारेण नदीषु बहव्यः परियोजनाः प्रचालिताः सन्ति । कृष्णा-नद्यां “कृष्णा परियोजना”, पावना-कृष्णा-नद्योः “भीमा परियोजना”, कार्ली-नद्यां “कार्ली सरार परियोजना”, कार्ली-नद्यां “बावन छडी परियोजना”, पूर्णा-नद्यां “पूर्णा परियोजना” च प्रचालिता अस्ति । अस्मिन् राज्ये बहवः तडागाः अपि सन्ति । लोनार, लोनवाली, कोयना, बेल, शिवरता, बलहनान इत्यादयः तडागाः सन्ति । ब्रान्द्रा-मण्डले, चन्द्रपुर-मण्डले च सर्वाधिकाः तडागाः सन्ति । अतः इदं क्षेत्रं “तडागानां देशः” कथ्यते ।

जलवायुः

[सम्पादयतु]

अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मार्च-मासतः जून-मासपर्यन्तं ग्रीष्मकालः भवति । तदनन्तरम् अक्टूबर-मासपर्यन्तं वर्षतुः भवति । वर्षर्तौ प्रदेशस्य तटीयक्षेत्रेषु अधिकमात्रायां वर्षा भवति । ग्रीष्मर्तौ महाराष्ट्रस्य मध्य-पूर्व-क्षेत्राणां तापमानं ४३ डिग्री सेल्सियस् मात्रात्मकं भवति । शीतर्तौ तेषां क्षेत्राणां तापमानं प्रायः २० डिग्री सेल्सियस् मात्रात्मिकं भवति ।

जनसङ्ख्या

[सम्पादयतु]

महाराष्ट्रराज्यस्य जनसङ्ख्या(२०११) ११२,३७४,३३३ कोटी अस्ति । अस्मिन् ५८,२४३,०५६ पुरुषाः, ५४१३१२७७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८२.३४% अस्ति । मण्डलेऽस्मिन् ४२.२२% जनाः नगरेषु निवसन्ति । क्षेत्रफलदृष्टया महाराष्ट्रराज्यं भारते तृतीयं तथा लोकसङ्ख्यादृष्ट्या द्वितीयं राज्यम् अस्ति ।

नाम्नः उद्गमः

[सम्पादयतु]

अशोकस्य काले "राष्ट्रिक" अनन्तरं "महाराष्ट्र" इति नाम्ना प्रसिद्धः अयं परिसरः इति ह्युएन्-त्सांगादि पथिकानां मतम् । राज्यस्य 'महाराष्ट्र' इति नाम प्राकृतभाषायां 'महाराष्ट्री' शब्दात् निर्मितं जातम् इति मन्यते । केषाञ्चित् मते अस्य राज्यस्य नाम "महाकान्तार" (महान् वनम्-दण्डकारण्यम्) इति शब्दस्य अपभ्रंशः वर्तते ।

इतिहासः

[सम्पादयतु]

भारतीयस्वातंत्र्यसङ्ग्रामे महाराष्ट्रराज्यस्य मुम्बईनगरस्य च योगदानम् अपूर्वमासीत् । काङ्ग्रेस इत्यस्य प्रथमं सम्मेलनं अत्रैव अभवत् । तथा हि महात्मागान्धीमहोदयेन ९ अगस्त १९२४ दिनाङ्के अत्रत्यगोवालियाटैङ्कतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत् । तदा समग्रः देशः रोमाञ्चितः अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रणीः आसीत् । यतः महात्मा फुले, राजर्षिशाहु, डॉ. आम्बेडकरमहोदयसदृशाः अग्रगण्याः समाजोद्धारकाः महाराष्ट्रराज्यमिदम् अलङ्कृतवन्तः । लोकमान्यतिलकसदृशाः अभूतपूर्वाः राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्तः । १ मे १९६० दिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृतिः राज्यमिदं प्रगतिपथे एव अस्ति ।

महाराष्ट्रराज्यस्थापना ऐतिहासिकः महत्वपूर्णविषयः । संयुक्तमहाराष्ट्रान्दोलनं महाराष्ट्रराज्यनिर्माणस्य कारणम् । १९५० तः १९६० पर्यन्तम् आन्दोलनम् अभूत् । १९६० पर्यन्तं पश्चिममहाराष्ट्रविभागः 'मुम्बईराज्ये', मराठवाडाविभागस्य ५ उपमण्डलानि हैदराबाद्संस्थाने, विदर्भविभागस्य ८ मण्डलानि मध्यप्रान्ते (इदानीन्तनमध्यप्रदेशे) समाविष्टानि आसन् । यद्यपि केन्द्रसर्वकारेण 'भाषानुसारेण राज्यरचना भवेत्' इति निर्णयः १९५० तमे वर्षे एव कृतः, तथापि भाषानुसारं विभाजनं न जातमत्र । अतः १० वर्षाणि यावत् आन्दोलनं कृतं, महत्परिश्रमेण, बहूनां जनानां बलिदानेन च १ 'मे' १९६० दिने महाराष्ट्रराज्यस्य स्थापना जाता । अस्मिन् आन्दोलने मध्यमवर्गीयजनाः, कर्मकरजनाः, कृषकाः, विचारवन्तः जनाः भागं गृहीतवन्तः । अतः इदम् आन्दोलनम् अभिव्यापकम् आसीत् ।

सह्याद्री पर्वतश्रेणिः (वा पश्चिमघट्टाः) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेशः वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन शैलप्रस्थः अस्ति । एषः बह्वीनां नदीनां स्रोतः अस्ति । महाराष्ट्रे ३५ मण्डलानि अपि च षड्विभागाः सन्ति । ते -औरङ्गाबाद, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः । विदर्भः (नागपुरम्अमरावती), मराठवाडा (औरङ्गाबाद), खान्देशः उत्तरमहाराष्ट्रं (नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोङ्कणं च ते पञ्चविभागाः ।

विभागाः, मण्डलानि च

[सम्पादयतु]
औरङ्गाग्गाबादविभागः अमरावतीविभागः कोङ्कणविभागः नागपुरविभागः नाशिकविभागः पुणेविभागः
औरङ्गाबादमण्डलम् अमरावतीमण्डलम् ठाणेमण्डलम् नागपुरमण्डलम् नन्दूरबारमण्डलम् पुणेमण्डलम्
जालनामण्डलम् बुलढाणामण्डलम् रत्नागिरिमण्डलम् भण्डारामण्डलम् धुळेमण्डलम् सातारामण्डलम्
बीडमण्डलम् अकोलामण्डलम् रायगढमण्डलम् गोन्दियामण्डलम् जळगावमण्डलम् कोल्हापुरमण्डलम्
लातूरमण्डलम् वाशिममण्डलम् सिन्धुदुर्गमण्डलम् वर्धामण्डलम् नाशिकमण्डलम् साङ्गलीमण्डलम्
उस्मानाबादमण्डलम् यवतमाळमण्डलम् मुम्बयीमण्डलम् चन्द्रपुरमण्डलम् अहमदनगरमण्डलम् सोलापुरमण्डलम्
नान्देडमण्डलम् --- मुम्बयीनगरमण्डलम् गडचिरोलीमण्डलम् --- ---
हिङ्गोलीमण्डलम् --- --- --- --- ---
परभणीमण्डलम् ---- -- --- --- ---
महाराष्ट्रस्य षण्णां विभागानां मानचित्रम्

महानगराणि

[सम्पादयतु]

महाराष्ट्रराज्ये सप्त बृहत्तमनगराणि सन्ति । मुम्बई, नागपुरं, नासिक, वर्धा, औरङ्गाबाद, अहमदनगरं, कोल्हापुरं च ।

मुम्बई

[सम्पादयतु]

मुम्बई-महानगरं भारतस्य बृहत्तमं नगरं विद्यते । इदं महानगरं महाराष्ट्रराज्ये स्थितम् अस्ति । मुम्बई-महानगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः तत्र बहूनि समुद्रतटानि सन्ति । महानगरेऽस्मिन् बहूनि वीक्षणीयस्थलानि अपि सन्ति । अस्मिन् महानगरे त्रीणी समुद्रतटानि प्रसिद्धानि सन्ति । जुहू-समुद्रतटं, चौपाटी-समुद्रतटं, गोराई-समुद्रतटं च । तत्र “मरीन ड्राईव” इत्येतत् स्थलं वर्तते । एतत्स्थलं “क्वीन्स् नेकलेस्” इति नाम्ना अपि ज्ञायते । मुम्बई-महानगरे धार्मिकस्थलानि अपि सन्ति । सिद्धिविनायक-मन्दिरं, “हाजी अली मस्जिद्” च अस्य नगरस्य प्रसिद्धे धार्मिकस्थले स्तः । अनयोः मन्दियोः वास्तुकला प्रायः समाना एव अस्ति । अनयोः स्थलयोः जनसम्मर्दः अपि सर्वाधिकः भवति । मुम्बई-नगरस्य रात्रिजीवनं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । यतः जनाः दिवाकाले व्यवसायं कुर्वन्ति । किन्तु रात्रिकाले भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे द्युतक्रीडायाः स्थानानि अपि सन्ति । जनः द्युतक्रीडां कर्तुं तत्र गच्छन्ति । महाराष्ट्र-राज्यस्य सर्वकारेण मुम्बई-महनगरस्य दर्शनाय बसयानानि प्रचालितानि सन्ति । अतः ये जनाः कारयानैः मुम्बई-नगरस्य भ्रमणं कर्तुं नेच्छन्ति, तैः बसयानद्वारा भ्रमणं कर्त्तव्यम् । तानि बसयानानि “गेटवे ऑफ् इण्डिया” इत्यस्मात् स्थलात् मुम्बई-दर्शनं कारयन्ति । सायंकाले मुम्बई-नगरस्य भ्रमणं कृत्वा पुनः “गेटवे ऑफ् इण्डिया” इतीदं स्थलं प्राप्नुवन्ति । अनेन प्रकारेण यात्रिकाः मुम्बई-महानगरस्य प्रमुखाणि स्थलानि दृष्टुं शक्नुवन्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ, वर्षर्तौ वा अस्य नगरस्य भ्रमणं कर्त्तव्यम् ।

मुम्बई-महानगरं भूमार्गेण सम्पूर्ण-भारतस्य प्रसिद्धनगरैः सह सम्बद्धम् अस्ति । महानगरमिदम् उत्तरदिशि आगरा-मार्गेण, पूर्वदिशि इन्दौर-मार्गेण, उत्तरदिशि अहमदाबाद-मार्गेण च सह सम्बद्धम् अस्ति । मुम्बई-महानगरे महाराष्ट्र-राज्यस्य सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । तैः बसयानैः गमने सौकर्यं भवति । मुम्बई-महानगरं रेलमार्गाय प्रसिद्धम् अस्ति । अस्य नगरस्य निवासिनः गमनाय रेलयानानां सर्वाधिकम् उपयोगं कुर्वन्ति । रेलयानम् अस्य नगरस्य तीव्रतमं साधनं वर्तते । मुम्बई-रेलस्थानकम् इन्दौर-नगरेण, बेङ्गळूरु-नगरेण, देहली-नगरेण, कोलकाता-नगरेण, पुणे-नगरेण, भोपाल-नगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । एतैः नगरैः मुम्बई-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । मुम्बई-महानगरे “छत्रपति शिवाजी” नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः विमानानि प्राप्यन्ते । इदं विमानस्थानकं भारतस्य, विदेशस्य च विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः सरलतया मुम्बई-महानगरं गन्तुं शक्नुवन्ति ।

पुणे-नगरं महाराष्ट्रराज्यस्य पुणे-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् “सदाचारस्य नगरम्” अपि कथ्यते । पुरा इदं “पुणेवाडी” इति नाम्ना ज्ञायते स्म । “छत्रपति शिवाजी” इत्याख्येन मराठा-शासकेन कथ्यते स्म । पुणे-नगरे ऐतिहासिकानि, धार्मिकानि च स्थलानि सन्ति । आगा खान पैलेस्, शिन्दे छतरी, सिंहगढ-दुर्गः च अस्य नगरस्य प्रमुखाणि पर्यटनस्थलानि सन्ति । “ओशो रजनीश” इत्याख्येन पुणे-नगरे “ओशो कम्यून् इण्टरनेशनल् सेण्टर्” इत्याख्या संस्था स्थापिता । अस्मिन् नगरे कार्ला-भाजा इत्यनयोः बौद्धगुहाः अपि प्रसिद्धाः सन्ति । पटलेश्वर-मन्दिरं पुणे-नगरस्य प्राचीनं मन्दिरं विद्यते । इदं मन्दिरं १४०० वर्षेभ्यः पुरातनम् अस्ति । अस्त नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अतः शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं सुखदं भवति । पुणे-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नागपुर-नगरस्य भ्रमणे सारल्यं भवति । मुम्बई-महानगराय, नागपुर-महानगराय च पुणे-नगरात् बसयानानि प्राप्यन्ते । पुणे-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । पुणे-नगरात् १२ किलोमीटर्मिते दूरे लोहेगांव-विमानस्थानकम् अस्ति । लोहेगांव-विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुणे-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया पुणे-नगरं गन्तु शक्नुवन्ति ।

नागपुरम्

[सम्पादयतु]

नागपुर-नगरं महाराष्ट्र-राज्यस्य नागपुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्र-राज्यस्य बृहत्तमेषु नगरेषु तृतीयम् अस्ति । इदं भारतस्य “टाईगर राजधानी” इति नाम्ना ज्ञायते । गोड-राजवंशजैः नागपुर-नगरम् अन्विष्टम् । समयान्तरे बहुभिः राजवंशैः नागपुर-नगरे शासनं कृतम् आसीत् । अन्ते आङ्ग्लैः नागपुर-नगरं प्रान्तस्य केन्द्रियराजधानीत्वेन स्थापितम् । नाग-नद्याः नाम्ना अस्य नगरस्य नाम नागपुरम् इत्यभवत् । समुद्रतलात् इदं नगरं ३१० मीटर्मितम् उन्नतं वर्तते । इदं नगरं १०,००० किलोमीटर्मितं विस्तृतम् अस्ति । नवेगांव-जलबन्धः, सीताबुल्दी-दुर्गः, पेंच-राष्ट्रियोद्यानं च अस्य नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । नागपुर-नगरे “दीक्षाभूमिः” इत्येतत् स्थलं प्रसिद्धम् अस्ति । तस्मिन् स्थाने सहस्राधिकजनैः “डॉ. बी. आर्. अम्बेडकर” इत्याख्यम् अनुसृत्य बौद्धधर्मः आचरितः । नागपुर-नगरस्य मध्ये एकः पाषाणस्तम्भः स्थितः अस्ति । तस्मिन् स्तम्भे नागपुर-नगरात् भारतस्य प्रमुखनगराणाम् अन्तरम् उल्लिखितम् अस्ति । अस्य निर्माणं ब्रिटिश्-शासनकाले अभवत् । नगरेऽस्मिन् मानवनिर्मितः, प्राकृतिकः च तडागः अपि वर्तते । “सेमिनरी हिल्स्” इत्यत्र बालाजी-मन्दिरं स्थितम् अस्ति । ततः नागपुर-नगरस्य सम्पूर्णं दृश्यं दृश्यते । इदं पर्वतीयक्षेत्रं पर्वतारोहिणां मनोहरं स्थलम् अस्ति । अस्मिन् नगरे पोदेश्वर-मन्दिरं, वेङ्कटेश-मन्दिरं च स्थितम् अस्ति । तत्र भगवतः बुद्धस्य मन्दिरम् अपि विद्यते । तस्य नाम ड्रैगन्-मन्दिरम् अस्ति । नामानुसारम् अस्य मन्दिरस्य परिचयं ज्ञातुं न शक्यते । तत्र गुबलीगढ-दुर्गः स्थितः अस्ति । अयं दुर्गः ३०० वर्षेभ्यः पुरातनः अस्ति । नागपुर-नगरे नवरात्रिमहोत्सवः, विजयादशमी, गणेशमहोत्सवः, दुर्गामहोत्स्वः, मोहर्रम् च इत्यादयः उत्सवाः आचर्यन्ते । नागपुर-नगरं “नारङ्गफलस्य नगरी” इति कथ्यते । अस्मिन् नगरे प्रचुरमात्रायां नारङ्गफलस्य उत्पादनं क्रियते । नगरमिदं दक्कन-शैलप्रस्थस्य समीपे स्थितम् अस्ति । अतः तस्मिन् नगरे जलस्रोतांसि न सन्ति ।

नागपुर-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नागपुर-नगरस्य भ्रमणे सारल्यं भवति । मुम्बई-महानगराय, पुणे-महानगराय च नागपुर-नगरात् बसयानानि प्राप्यन्ते । नागपुर-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । नागपुर-नगरात् ६ किलोमीटर्मिते दूरे सोनेगांव-विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । सोनेगांव-विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नागपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया नागपुर-नगरं गन्तु शक्नुवन्ति ।

नाशिक-नगरं महाराष्ट्र-राज्यस्य नाशिक-मण्डलस्य केन्द्रम् अस्ति । नगरमिदं “मदिरायाः राजधानी” इति कथ्यते । यतः अस्मिन् नगरे द्राक्षाफलस्य उत्पादनम् अधिकमात्रायां क्रियते । नाशिक-नगरं मुम्बई-महानगरात् १८० किलोमीटर्मिते, पुणे-नगरात् २०० किलोमीटर्मिते च दूरे स्थितम् अस्ति । इदं नगरं “नापा घाटी” इत्यस्य पश्चिमघट्टे स्थितम् अस्ति । पुरा इदं नगरं सत्वहना-राजवंशस्य राजधानी आसीत् । षोडशशताब्द्याम् अस्मिन् नगरे मुगल-शासनम् आसीत् । तस्मिन् समये इदं “गुल्शानाबाद” इत्यपि कथ्यते स्म । एकोनविंशतितमशतब्द्याम् अस्मिन् नगरे आङ्ग्ल-शासनम् आसीत् । भारतीयस्वातन्त्र्यान्दोलने नैके क्रान्तिकारिणः नाशिक-नगरेण सह सम्बद्धाः आसन् । पुराणानुसारं ज्ञायते यत् – “भगवान् रामः चतुर्दशवर्षाणां वनवासस्य कानिचन वर्षाणि नाशिक-नगरस्य समीपे एकस्मिन् तपोवने यापितवान् । अत्रैव भगवता लक्ष्मणेन शूर्पणखायाः नासिकाछेदनं कृतम् आसीत् । अतः एव अस्य नाम “नाशिक” इत्यभवत् । नाशिक-नगरं महाराष्ट्रराज्यस्य विकासशीलनगरेषु अन्यतमं वर्तते । कालिदासेन, वाल्मीकिना अपि स्वस्य ग्रन्थेषु नाशिक-नगरस्य उल्लेखः कृतः अस्ति । नाशिक-नगरस्य समीपे त्र्यम्बकेश्वर-मन्दिरम् अस्ति । इदं मन्दिरं भारतस्य द्वादशज्योतिर्लिङ्गेषु अन्यतमं वर्तते । नगरेऽस्मिन् मुद्राणां सङ्ग्रहालयः अस्ति । अयं सङ्ग्रहालयः एशिया-खण्डस्य एकः एव मुद्रा-सङ्ग्रहालयः अस्ति । नगरमिदं मन्दिराणां नगरम् अस्ति । यतः अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । कालाराममन्दिरं नाशिक-नगरस्य विशिष्टमन्दिरेषु एकम् अस्ति । अस्मिन् मन्दिरे भगवतः रामस्य कृष्णपाषाणनिर्मिता प्रतिमा अस्ति । सीता-गुहा, पञ्चवटी च अस्य नगरस्य धार्मिकस्थले स्तः । अस्मिन् नगरे जनाः प्रतिचतुर्वर्षेषु नाशिक-नगरे कुम्भोत्सवम् आचरन्ति । जनाः उत्साहपूर्वकम् उत्सवम् आचरन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । महात्मना असहयोगान्दोलनस्य आरम्भः नाशिक-नगरादेव कृतः । “डॉ. बी. आर्. अम्बेडकर” महात्मनः समर्थनं प्रदत्तम् आसीत् । नाशिक-नगरस्य जलवायुः उष्णकटिबन्धीयः भवति । अतः अस्य नगरस्य तापमानम् अधिकं भवति । अतः ग्रीष्मर्तौ अस्य नगरस्य यात्रा न कर्त्तव्या । शीतर्तौ अस्य नगरस्य यात्रा लाभकरी, स्वास्थ्यप्रदा च भवति । इदं नगरं भारतस्य केन्द्रे स्थितम् अस्ति । अतः अस्य नगरस्य यात्रा सरलतया भवितुं शक्नोति ।

नाशिक-नगरं राष्ट्रियराजमार्गेषु स्थितम् अस्ति । नगरेऽस्मिन् महाराष्ट्रराज्यस्य सर्वकारेण प्रचालितानि बसयानानि सन्ति । बसयानैः नाशिक-नगरस्य भ्रमणे सारल्यं भवति । पुणे-नगरात् नाशिक-नगरं २२० किलोमीटर्मिते दूरे अस्ति । मुम्बई-महानगराय, पुणे-महानगराय, नागपुर-नगराय च नाशिक-नगरात् बसयानानि प्राप्यन्ते । नाशिक-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । मुम्बई-नगरस्य “छत्रपति शिवाजी”- विमानस्थानकं नाशिक-नगरस्य समीपस्थम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्मात् विमानस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण नाशिक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया नाशिक-नगरं गन्तु शक्नुवन्ति ।

वर्धा-नगरं महाराष्ट्र-राज्यस्य वर्धा-मण्डलस्य मुख्यालयः स्ति । वर्धा-नद्याः तटे स्थितम् इदं वर्धा-नगरम् । ई. स. १८५६ तमे वर्षे अस्य नगरस्य स्थापना जाता । इदं नगरं ६३१० किलोमीटर्मितं विस्तृतम् अस्ति । साम्प्रतम् इदं नगरं कार्पास-व्यापाराय भारते प्रसिद्धम् अस्ति । अस्य नगरस्य इतिहासः अपि महत्त्वपूर्णः वर्तते । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । तेषु चालुक्य-राजवंशः, मौर्य-राजवंशः, शतवाहन-राजवंशश्च मुख्यः अस्ति । ई. स. १३५१ तमे वर्षे नगरमिदं बहमनी-राजवंशजानाम् आधीन्ये आसीत् । समयान्तरे ब्रिटिश्-शासकैः अस्मिन् नगरे आधिपत्यं स्थापितम् । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । गीताई-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, महाकाली-मन्दिरं, केल्जर्-मन्दिरं च अस्य नगरस्य प्रसिद्धानि मन्दिराणि सन्ति । “विश्वशान्तिस्तूपः”, परमधाम-आश्रमः, “गान्धी आश्रम बापू कुटी” च इत्यादिनी अस्य नगरस्य समीपस्थानि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । वर्धा-नगरस्य वातावरणं सर्वदा सुखकरं, स्वास्थ्यकरं च भवति । महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः वर्धा-नगरस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । वर्धा-नगरात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । कोङ्कण-रेलमार्गे वर्धा-नगरस्य रेलस्थानकं स्थितम् अस्ति । इदं रेलस्थानकम् भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः प्रमुखनगरेभ्यः वर्धा-नगरात् रेलयानानि प्राप्यन्ते । नागपुर-नगरे स्थितं “डॉ. बी. आर्. अम्बेडकर”-विमानस्थानकं वर्धा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । वर्धा-नगरात् इदं विमानस्थानकं ७४ किलोमीटर्मिते दूरे स्थ्तम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । नागपुर-नगरस्य विमानस्थानकात् बसयानैः, भाटकयानैः वा वर्धा-नगरं गन्तुं शक्यते । अनेन प्रकारेण वर्धा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह सम्बद्धम् अस्ति ।

औरङ्गाबाद

[सम्पादयतु]

औरङ्गाबाद-नगरं महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डलस्य केन्द्रं विद्यते । अस्य नगरस्य नाम औरङ्गजेब-राज्ञः नाम्ना अभवत् । खामनद्याः तटे स्थितम् इदं नगरम् । ई. स. १६८१ तमे वर्षे औरङ्गजेब-राज्ञा स्वस्य राज्यस्य राजनैतिकव्यवस्थायै, रणनैतिकव्यवस्थायै च इदं नगरम् आधारत्वेन स्थापितम् । औरङ्गजेब-राज्ञः मृत्योः अनन्तरम् अस्मिन् नगरे निजाम-शासकनाम् आधिपत्यम् अभवत् । ई. स. १९५६ तमे वर्षे अस्य नगरस्य महाराष्ट्रराज्ये विलयः जातः । अस्मिन् नगरे जनैः मराठी-भाषायाम्, उर्दू-भाषायां च व्यवह्रियते । औरङ्गाबाद-नगरं “सिटी ऑफ् गेट्स्” इति नाम्ना अपि ख्यातम् अस्ति । इदं स्थलं महाराष्ट्रराज्यस्य आधिकारिकी सम्पत्तिः वर्तते । यदा अस्मिन् नगरे मुगल-शासनम् आसीत्, तत्पूर्वं बौद्धधर्मस्य महत्प्रभावः वर्तते स्म । साम्प्रतम् अजन्ता-एलोरा-गुहाः अस्य प्रमाणिभूताः सन्ति । अस्य नगरस्य संस्कृतिः हैदराबाद-नगरस्य संस्कृत्या सह सम्बद्धा अस्ति । अस्मिन् नगरे “बीबी का मकबरा” इति नामकः प्रसिद्धं स्मारकं वर्तते । तत्र औरङ्गजेब-राज्ञः पत्न्याः समाधिः वर्तते । अस्य नगरस्य जलवायुः शीतोष्णः वर्तते । अतः वर्षर्तौ, शीतर्तौ च अस्य नगरस्य वातावरणं मनोहरं भवति । आवर्षं तत्र जनानां सम्मर्दः दृश्यते । मुम्बई-नगरात् इदं नगरं ३७५ किलोमीटर्मिते दूरे स्थितम् अस्ति । औरङ्गाबाद-नगरं महाराष्ट्रराज्यस्य बृहत्तमेषु नगरेषु अन्यततमं वर्तते । अस्मिन् नगरे बसयानानां, भाटकयानानां व्यवस्था पर्याप्तमात्रायाम् अस्ति । औरङ्गाबाद-नगरं महाराष्ट्र-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकात् देहली-महानगराय, मुम्बई-महानगराय, पुणे-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरात् १२० किलोमीतर्मिते दूरे मनमाद-रेलस्थानकम् अस्ति । तद्रेलस्थानकम् अपि भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् विद्यते । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सरलतया सम्बद्धम् अस्ति ।

अहमदनगरम्

[सम्पादयतु]

अहमदनगरं महाराष्ट्रराज्यस्य अहमदनगर-मण्डलस्य मुख्यालयः अस्ति । सिना-नद्याः तटे स्थितम् अस्ति इदं नगरम् । नगरमिदं ५०० वर्षेभ्यः पुरातनम् अस्ति । ई. स. १४९४ तमे वर्षे “अहमद निजाम शाह” इत्याख्येन राज्ञा अस्य नगरस्य स्थापना कृता । अतः एव अस्य नाम अहमदनगरम् अभवत् । प्रायः ई. स. १६३६ तमे वर्षे शाहजहां-राज्ञा अस्मिन् नगरे आधिपत्यं स्थापितम् । समयान्तरे अस्मिन् नगरे बहुभिः राजभिः शासनं कृतम् । कथ्यते यत् - “निजाम-शासकैः अस्मिन् नगरे १५० वर्षाणि शासनं कृतम् आसीत्” इति । ई. स. १७५९ तमे वर्षे पेशवा-राजवंशजैः, मराठा-शासकैः च अस्य नगरस्य स्वरूपं परिवर्तितम् । ई. स. १८१७ तमे वर्षे आङ्ग्लाः पराजयं प्राप्य अहमदनगरं समागतवन्तः । अहमदनगरे अहमदनगर-दुर्गः स्थितः अस्ति । अयं दुर्गः अस्य नगरस्य मुख्यं पर्यटनस्थलं वर्तते । “शलाबत खान का मकबरा”, “राउजा बाग”, “कोट बाघा निजाम” इत्यादीनि स्थलानि ऐतिहासिकानि सन्ति । नगरमिदम् एकं धार्मिकस्थलम् अपि अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि अपि सन्ति । मोहाता-देवीमन्दिरं, सिद्धेश्वर-मन्दिरं, श्रीगणपति-मन्दिरं च इत्यादीनि धार्मिकस्थलानि सन्ति । अस्मिन् नगरे ऐतिहासिकभवनानि, सङ्ग्रहालयाः, संशोधनकेन्द्राणि च सन्ति । तेषु टैङ्क-सङ्ग्रहालयः प्रसिद्धः अस्ति । अस्य पूर्णं नाम “कावालेरी टैङ्क सङ्ग्रहालयः” इति । ई. स. १९९४ तमे वर्षे “बी. सी जोशी” इत्याख्येन अस्य सङ्ग्रहालयस्य उद्घाटनं कृतम् आसीत् । अस्मिन् सङ्ग्रहालये अग्निगोलकाः, युद्धयानानि च सङ्गृहीतानि सन्ति । अस्मिन् सङ्ग्रहालये चत्वारिंशद् देशानां युद्धयानानि प्रदर्शितानि सन्ति । अहमदनगरस्य जलवायुः सामान्यः एव भवति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणं शुष्कम्, उष्णं च भवति । किन्तु वर्षर्तौ वातावरणं सुखदं भवति । अतः जनाः विहाराय तत्र गच्छन्ति । महाराष्ट्रराज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तेन जनाः अहमदनगरस्य समीपस्थानि वीक्षणीयस्थलानि प्राप्तुं शक्नुवन्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । अहमद-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण, पुणे-नगरेण च इत्यादिभिः महाराष्ट्र-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुणे-नगरस्य विमानस्थानकम् अहमदनगरात् ११३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अहमदनगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयाननि प्राप्यन्ते । पुणे-विमानस्थानकात् बसयानैः भाटकयानैः वा अहमदनगरं प्राप्यते । अनेन प्रकारेण अहमदनगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया अहमदनगरं प्राप्नुवन्ति ।

कोल्हापुरम्

[सम्पादयतु]

कोल्हापुरं महाराष्ट्र-राज्यस्य कोल्हापुर-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्रराज्यस्य धार्मिकस्थलत्वेन सम्पूर्णे भारते प्रसिद्धम् अस्ति । प्रतिवर्षं लक्षाधिकजनाः दर्शनार्थं तत्र गच्छन्ति । महालक्ष्मीदेव्या कोलासुर-राक्षसः हतः । तावदेव अस्य नगरस्य नाम कोल्हापुरम् इत्यभवत् । अस्मिन् नगरे ऐतिहासिकानि स्थलानि अपि सन्ति । दुर्गाः, ऐतिहासिकभवनानि च अस्य नगरस्य पर्यटनस्थलानि सन्ति । इदं नगरम् अतीव प्राचीनं विद्यते । सह्याद्रिपर्वतशृङ्खलायाः समीपे स्थितम् इदं नगरम् । “छत्रपति ताराबाई” इत्याख्यया कोल्हापुरस्य विकासः कृतः । अनन्तरं “छत्रपति शाहु महाराज” इत्याख्यः राजा राज्यस्य सञ्चालनं कुर्वन् आसीत् । तेन अस्य नगरस्य सामाजिकः शैक्षणिकः च विकासः कृतः । पुराणानुसारं कथ्यते यत् – कोल्हापुरं भगवतः शिवस्य निवासस्थलम् मन्यते । इदं नगरं “दक्षिणकाशी” इत्यपि कथ्यते । शाहु-सङ्ग्रहालयः अस्य नगरस्य प्राचीनतमः सङ्ग्रहालयः अस्ति । कोल्हापुर-नगरे कुशबाग-प्राङ्गणम् अस्ति । अस्मिन् प्राङ्गणे मल्लयुद्धाभ्यासः क्रियते । नगरेऽस्मिन् तडागाः अपि सन्ति । कोल्हापुर-नगरस्य पादत्राणानि विश्वस्मिन् प्रसिद्धानि सन्ति । कोल्हापुर-नगरे चर्मणः श्रेष्ठवस्तूनि प्राप्यन्ते । “राजा हरिशचन्द्र” नामकं चलच्चित्रं भारतस्य सर्वप्रथमं चलच्चित्रम् अस्ति । अस्य चलच्चित्रस्य निर्माणं कोल्हापुर-नगरे एव अभवत् । महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः कोल्हापुर-नगरस्य पर्यटनस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । कोल्हापुर-नगरात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय इत्यादिभ्यः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । कोल्हापुरनगरे “छत्रपति शाहु महाराज टर्मिनस्” इति नामकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय च कोल्हापुर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । कोल्हापुर-नगरे एकं विमानस्थानकम् अपि अस्ति । इदम् उजलाईवाडी-स्थले स्थितम् अस्ति । इदं कोल्हापुर-नगरात् ९ किलोमीटरमिते दूरे स्थितम् अस्ति । ततः मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण इदं नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । यात्रिकाः सरलतया अस्य नगरस्य भ्रमणं कर्तुं शक्नुवन्ति ।

राजनीतिः

[सम्पादयतु]

महाराष्ट्रे द्विसदनात्मकं विधानमण्डलं वर्तते । एकं विधानपरिषद्, अपरं विधानसभा च । विधानसभायाः आहत्य २८८ स्थानानि सन्ति । विधानसभायाः अध्यक्षः “स्पीकर्” इति कथ्यते । अस्य राज्यस्य विधानपरिषदः आहत्य ७८ सदस्याः सन्ति । परिषदः सर्वोच्चपदाधिकारी “सभापतिः” इति कथ्यते । “वाय्. वी. चौहान” इत्याख्यः अस्य राज्यस्य सर्वप्रथमः मुख्यमन्त्री आसीत् । ई. स. १९८० तमस्य वर्षस्य फरवरी-मासस्य अष्टादशदिनाङ्के (१८ फरवरी १९८०) अस्मिन् राज्ये सर्वप्रथमं राष्ट्रपतिशासनम् अभवत् । महाराष्ट्रराज्ये लोकसभायाः एकोनपञ्चाशत् (४९) स्थानानि, राज्यसभायाः एकोनविंशतिः (१९) स्थानानि च सन्ति । “शिवसेना”, “राष्ट्रवादी-कॉङ्ग्रेस्-पक्षः”, “भारतीय-राष्ट्रीय-कॉङ्ग्रेस्-पक्षः”, ”भारतीयजनतापक्षः”, “कम्युनिस्ट् पार्टी ऑफ् इण्डिया” च अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । मुम्बई-नगरे उच्चन्यायालयः स्थितः अस्ति । ई. स. १८६२ तमे वर्षे अस्य स्थापना जाता । नागपुर-नगरे, पणजी-नगरे, औरङ्गाबाद-नगरे च अस्य उच्चन्यायालयस्य खण्डपीठानि सन्ति । महाराष्ट्र-राज्यम् अस्य उच्चन्यायालयस्य अधिकारक्षेत्रम् अस्ति । अपि च गोवा-राज्यं, दादरा-नगरहवेली-केन्द्रशासितप्रदेशं, दमनदीव-केन्द्रशासितप्रदेशं च इत्येतानि प्रदेशानि अस्यैव उच्चन्यायालयस्य अधिकारक्षेत्रे सन्ति ।

अर्थव्यस्था, कृषिः च

[सम्पादयतु]

महाराष्ट्र-राज्यस्य राजधानी मुम्बई-महानगरम् अस्ति । इदं महानगरं भारतस्य “वाणिज्यराजधानी” इति कथ्यते । अस्य प्रदेशस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ६५ प्रतिशतं जनाः कृषिकार्येषु आधारिताः सन्ति । तण्डुलाः, गोधुमः, हरिद्रा च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । द्राक्षाफलम्, आम्रफलं, कदलीफलं, नारङ्गफलं च अस्य राज्यस्य प्रमुखाणि फलानि सन्ति । एतेषां फलानाम् उत्पादनं प्रचुरमात्रायां क्रियते । महाराष्ट्रराज्यस्य आहत्य कृषिक्षेत्रस्य १०.९८ हेक्टेयर् परिमिते कृषिक्षेत्रे फलानाम् उत्पादनं भवति ।

उद्योगाः

[सम्पादयतु]

महाराष्ट्रराज्यम् औद्योगिकरूपेण, आर्थिकरूपेण च समृद्धम् अस्ति । इद् भारतस्य प्रमुखम् औद्योगिकं राज्यम् अस्ति । भारतस्य आहत्य औद्योगिकोत्पादनस्य २५ प्रतिशतम् उत्पादनं महाराष्ट्रराज्ये भवति । भारतस्य आहत्य वैद्युतकोत्पादनस्य १९ प्रतिशतम् उत्पादनम् अस्मिन् राज्ये भवति । पुणे-नगरं, मुम्बई-महानगरं, थाणे-नगर, च वैद्युतकोत्पादनानां केन्द्राणि सन्ति । खाद्योद्योगः, वैद्युतोद्योगः, मुद्रण-प्रकाशनोद्योगः, कर्गजोद्योगः, रसायनोद्योगः, वस्त्रोद्योगः, यन्त्रोद्योगः, वाहनोद्योगः च महाराष्ट्रराज्यस्य उद्योगाः सन्ति । मुम्बई-महानगरं चलच्चित्रोद्योगस्य गृहम् अस्ति । अस्मिन् महानगरे उच्चस्तरात्मकं चलच्चित्रनिर्माणं क्रियते । इदं “बॉलिवुड्” इति कथ्यते । महाराष्ट्र-राज्ये पर्यटनस्थलानि अपि बहूनि सन्ति । अतः पर्यटनस्थलेषु अपि जनाः व्यापारं कुर्वन्ति ।

शिक्षणम्

[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं महाराष्ट्रराज्यस्य साक्षरतामानं ८२.६५ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८९.८२ प्रतिशतं, स्त्रीणां साक्षरतामानं ७५.४८ प्रतिशतं च अस्ति । “मुम्बई-विश्वविद्यालयः”,मुम्बई ; “डॉ बाबा साहेब अम्बेडकर मराठवाडा विश्वविद्यालयः”, औरङ्गाबाद; “भारतीय प्रौद्योगिकी संस्थानम्” (I.I.T.), मुम्बई; “पुणे-विश्वविद्यालयः”, पुणे; “उत्तरी महाराष्ट्र विश्वविद्यलयः”, जलगांव; “शिवाजी-विश्वविद्यालयः”, कोल्हापुर; “अमरावती-विश्वविद्यालयः, अमरावती; “महात्मागान्धी-अन्ताराष्ट्रियहिन्दीविश्वविद्यालयः”, वर्धा; “भारतीयविद्यापीठं”, पुणे; “जनसङ्ख्या विज्ञान का अन्तरराष्ट्रीय संस्थानम्”, मुम्बई; “महाराष्ट्र युनिवर्सिटी ऑफ् मेडिकल् सायन्स्”, नाशिक; “टाटा इन्स्टीट्यूट् ऑफ् सोशल् सायन्स्”, मुम्बई; “यशवंतराव चौहान महाराष्ट्र मुक्त विश्वविद्यालय”, नाशिक; “इन्दिरा गान्धी इन्स्टीट्यूट् ऑफ् डेवलपमेण्ट् रिसर्च्”, मुम्बई; “केन्द्रीय मत्स्य पालन शिक्षा संस्थान”, मुम्बई; “गोखले इन्स्टीट्यूट् ऑफ् पॉलिटिक्स् एण्ड् इकोनॉमिक्स्”, पुणे च इत्यादीनि महाराष्ट्रराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति ।

कला, संस्कृतिश्च

[सम्पादयतु]

कलादृष्ट्या इदं राज्यम् अत्यधिकं समृद्धम् अस्ति । मुम्बई-महानगरं भारतस्य चलच्चित्रोद्योगस्य केन्द्रं विद्यते । मुम्बई-महानगरं भारतीयचलच्चित्रजगतः राजधानी” अस्ति । इदं नगरं “भारतस्य हॉलीवुड्” इत्यपि कथ्यते । “दादा साहेब फाल्के” इत्याख्येन ई. स. १९१३ तमे वर्षे “हरिशचन्द्र” नामकं भारतस्य सर्वप्रथमं चलच्चित्रं निर्मितम् आसीत् । अतः सः एव भारतीयचलच्चित्रोद्योगस्य संस्थापकः अस्ति । महाराष्ट्र-राज्यस्य नृत्यकलासु तमाशा, लावणी, पोवाडा इत्यादयः नृत्यकलाः प्रमुखाः वर्तन्ते । मराठी-भाषा महाराष्ट्रराज्यस्य मातृभाषा अस्ति । किन्तु लिपिः देवनागरी अस्ति । “स्वामी मुकुन्द राव” इत्याख्यः मराठी-भाषायाः साहित्यकारः आसीत् । सर्वप्रथमं तेन एव मराठी-भाषायां साहित्यिकरचना कृता आसीत् । समयान्तरे सन्तज्ञानेश्वरः, नामदेवः, तुकारामः, रामदासः इत्यादिभिः मराठी-भाषायाः साहित्ये योगदानं प्रदत्तम् । अतः एव मराठीभाषासाहित्यं समृद्धम् अस्ति । महाराष्ट्रराज्ये भारतीयशास्त्रीयसङ्गीतम् अपि प्रचलितम् अस्ति । “पं. विष्णु दिगम्बर पलुस्कर” इत्याख्यः भारतीयशास्त्रीयसङ्गीतस्य मूर्धन्येषु अन्यतमः आसीत् । “विष्णुदास भावे” इत्याख्यः महाराष्ट्रराज्यस्य प्रथमः नाट्यकारः आसीत् । “विष्णुदास भावे” इत्याख्येन एव मराठी-भाषायाः नाटकस्य आधारः संस्थापितः ।

गणेश-महोत्सवः महाराष्ट्रराज्यस्य महत्त्वपूर्णः उत्सवः अस्ति । अयम् उत्सवः दशदिवसात्मकः भवति । जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । एलिफेण्टा-उत्सवः, पुणे-उत्सवः, बाणगङ्गा-उत्सवः, एलोरा-उत्सवः, कालिद-उत्सवः इत्यादयः महाराष्ट्रराज्यस्य प्रमुखाः उत्सवाः सन्ति । एलिफेण्टा-उत्सवः औरङ्गाबाद-नगरस्य समीपे आचर्यते । नागपुर-नगरे कालिदासोत्सवः आचर्यते । महाराष्ट्रराज्ये दीपावलि-पर्व, रामनवमी, विजयादशमी च इत्यादीनि धार्मिकपर्वणि जनाः आचरन्ति । महाराष्ट्रराज्यस्य जनाः सर्वे उत्सवान् उत्साहपूर्वकम् आचरन्ति । तेन जनेषु प्रीतिः अपि वर्धते । जनाः सङ्घटिताः अपि भवन्ति ।

महाराष्ट्र राज्यस्य लोकसंस्कृतिः विशिष्टा । राज्यस्य यथा पञ्चविभागाः भवन्ति, तत्र तत्र संस्कृत्याम् किञ्चित् भेदाः दृश्यन्ते, परं तदपि वैशिष्ट्यपूर्णमेव । महाराष्ट्रराज्यस्य संस्कृतिमध्ये काव्यं, शास्त्रं, विनोदः, नाटकं, चित्रपटः, नृत्यं, कला सर्वं द्रष्टुं शक्नुमः । वैविध्यपूर्णा एषा संस्कृतिः । इदानीं महाराष्ट्रराज्ये सर्वे भाषिकाः जनाः आगत्य निवसन्ति, परं मूलभाषा महाराष्ट्री-मराठी एव । महाराष्ट्रस्य विस्तारः अपि बृहत् अतः तावत् वैविध्यमपि अनुभवामः । राज्यमिदं कृषिप्रधानम् अतः तस्य प्रभावमपि दृश्यते ।

आहारपद्धतिः

[सम्पादयतु]

ये पञ्चविभागाः, तेषु आहारसंस्कृत्यां भिन्नता दृश्यते । प्रत्येकस्मिन् विभागे कृष्युत्पादनरूपेण यत् किमपि उपलभ्यते तदनुसारं विकल्पमस्ति । सामान्यतः प्रतिदिने आहारे रोटिका 'भाकरी'वा, उपलब्धिनुसारं शाकं वा शाकानि, ओदनम्, अवलेहः, उपसेचनं, पर्पटश्च समाविष्टः अस्ति । इतोऽपि मिष्टान्नम्, समारोहदिने विशेषपदार्थान् यथा - पुरणपोळी, जिलेबी(कुण्डलिका),बुंदी इत्यादिकं खादन्ति । नगर, ग्राम निवसनपद्धत्यनुसारमपि आहारे वैविध्यम् अनुभवामः ।

वीक्षणीयस्थलानि

[सम्पादयतु]

महाराष्ट्र-राज्यं जनसङ्ख्यादृष्ट्या भारते द्वितीयम् अस्ति । अस्मिन् राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । अस्य राज्यस्य पश्चिमदिशि समुद्रः स्थितः अस्ति । अतः तत्र बहूनि मनोहराणि समुद्रतटानि सन्ति । इतः परं सङ्ग्रहालयाः, स्मारकाः, दुर्गाः, मन्दिराणि चापि सन्ति । तेन कारणेन इदं राज्यं समृद्धम् अस्ति । अजन्ता-एलोरा-गुहाः, “महाबलेश्वर माथेरान”, “पञ्चगनी”, “जवाहर माथेरान”, “मालशेज घाट”, “चिकलधारा”, “पन्हाला” च इत्यादयः महाराष्ट्र-राज्यस्य पर्यटनस्थलानि सन्ति । शिरडी, पंढरपुर, हरिहरेश्वर, कोल्हापुर, अम्बजोगई, शेगाँव, नासिक, त्र्यम्बकेश्वर च इत्यादयः महाराष्ट्रस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । महाराष्ट्र-राज्ये “गेटवे ऑफ् इण्डिया” अपि अस्ति । ई. स. १९११ तमे वर्षे “जॉर्ज् पञ्चम” इत्याख्यस्य ब्रिटिश्-शासकस्य, मेरी इत्याख्यायाः राज्ञ्याः च स्वागतार्थं तस्य निर्माणं कारितम् आसीत् ।

भीमाशङ्कर

[सम्पादयतु]

“भीमाशङ्कर” इत्येतत् स्थलं महाराष्ट्रराज्यस्य धार्मिकं स्थलं वर्तते । इदं स्थलं महाराष्ट्रराज्यस्य पुणे-मण्डलात् १२७ किलोमीटर्मिते दूरे शिरधाव-ग्रामे स्थितम् अस्ति । इदं सह्याद्रिपर्वतशृङ्खलायाः क्षेत्रे स्थितम् अस्ति । भारते स्थितेषु द्वादशज्योतिर्लिङ्गेषु अन्यतमं ज्योतिर्लिङ्गम् अस्मिन् स्थले स्थितमस्ति । अतः तेन कारणेन इदं स्थलं प्रसिद्धम् अस्ति । इदं मन्दिरं समुद्रतलात् ३२५० पादोन्नतम् अस्ति । द्वादशज्योतिर्लिङ्गेषु पञ्च ज्योतिर्लिङ्गानि महाराष्ट्रे स्थितानि सन्ति । भीमाशङ्करस्थलात् भीमानदी उद्भवति । सा दक्षिणपश्चिमदिशि प्रवहति । अन्ते इयं नदी कृष्णानद्यां सम्मिलति । एका पौराणिकी कथा अस्ति यत् – “देवतानां निवेदनेन भगवान् शिवः सह्याद्रिपर्वते निवसन् आसीत् । तस्मिन् समये त्रिपुरासुरेण राक्षसेन सह भगवतः शिवस्य युद्धम् अभवत् । तस्मिन् युद्धे भगवता शिवेन त्रिपुरासुरः हतः । किन्तु युद्धस्य उष्णतायाः कारणेन भीमानदी शुष्का जाता । अनन्तरं भगवतः शिवस्य स्वेदेन पुनः भीमानदी उद्भूता । अस्य स्थलस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति । “कमलजा”, मोक्षकुण्डतीर्थं, कुशरान्यतीर्थं च अस्य स्थलस्य धार्मिकस्थानानि सन्ति । अस्य स्थलस्य समीपे वनक्षेत्रम् अपि विद्यते । तस्मिन् बहवः वन्यजीवाः दृश्यन्ते । ये जनाः धार्मिकाः भवन्ति, तेभ्यः अपि इदं स्थलं दर्शनीयम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण परिवहनाय बसयानानि प्रचालितानि सन्ति । बसयानैः एकस्मात् स्थानात् अन्यत्र गन्तुं शक्यते । भीमाशङ्कर-स्थलात् पुणे-नगरं १२७ किलोमीटर्मिते, मुम्बई-महानगरं २०० किलोमीटर्मिते च दूरे स्थितम् अस्ति । पुणे-नगरात्, मुम्बई-नगरात् च भीमाशङ्कर-स्थलाय बसयानानि, भाटकयानानि च प्राप्यन्ते । पुणे-नगरस्य रेलस्थानकं भीमाशङ्कर-स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । तद् रेलस्थानकं भीमाशङ्कर-स्थलात् ९५ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं बेङ्गळूरु, मुम्बई, देहली, इन्दौर, अहमदाबाद, वडोदरा, चेन्नै च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुणे-नगरे “लोहगांव” नामकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भीमाशङ्कर-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । इदं भीमाशङ्कर-स्थलात् ९५ किलोमीटर्मिते दूरे स्थितम् अस्ति । लोहगांव-विमानस्थानकं मुम्बई, हैदराबाद, देहली च इत्यादिभिः अन्ताराष्ट्रियविमानस्थानकैः सह सम्बद्धमस्ति । अस्मात् विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया गन्तुं शक्नुवन्ति ।

माळशेज घाट

[सम्पादयतु]

“माळशेज-घाट” इत्ययं घट्टः महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितः अस्ति । अयं घट्टः पश्चिमभागस्य घट्टेषु अन्यतमः अस्ति । महाराष्ट्रराज्ये अयं घट्टः ख्यातः वर्तते । अयं समुद्रतटात् ७०० मीटर्मितः उन्नतः वर्तते । अस्य जलवायुः शान्तः, सुखदश्च अस्ति । क्षेत्रमिदं पर्वतीयम् अपि अस्ति । अतः पर्वतारोहणाय अपि स्थलमिदं प्रसिद्धं वर्तते । तत्र बहवः तडागाः, नद्यः च अपि सन्ति । तत्र बहवः ऐतिहासिकाः दुर्गाः सन्ति । तस्मिन् क्षेत्रे जलप्रपाताः अपि सन्ति । जलप्रपातानां दृश्यं मनोहरं भवति । तत्र अभयारण्ये बहुप्रकाराकाः जीवजन्तवः, वनस्पतयः च प्राप्यन्ते । तस्मिन् अभयारण्ये “फ्लेमिङ्गो” इति नामकाः विहगाः अपि दृश्यन्ते । वर्षाकाले भ्रमणार्थं स्थलमिदं सर्वश्रेष्ठं वर्तते । पर्वतप्रदेशे मेघाः स्पृशन्तः भवन्ति । तत्र मेघेषु स्वर्गीयानुभवं कर्तुं शक्यते । अस्य स्थलस्य समीपं पिम्पल-ग्रामे “जोग-जलबन्धः” स्थितः अस्ति । अयं जलबन्धः पुष्पावतीनद्यां निर्मितः वर्तते । “अजोबा हिल् फोर्ट्” अयं पर्वते स्थितः एकः दुर्गः अस्ति । अस्य दुर्गस्य वास्तुकला दृष्टुं योग्या । इतः परम् अपि “जीवधन चावण्ड्” इति नामकः दुर्गः”, हरिशचन्द्रगढ-दुर्गः च अपि अस्ति । एतौ दुर्गौ विख्यातौ स्तः । अनन्तरम् अन्यः एकः दुर्गः अपि विद्यते । तस्य नाम “शिवनेरी-दुर्गः” इति । अयं तु आकर्षणस्य केन्द्रं विद्यते । “शिवाजी” इत्याख्यस्य मराठा-शासकस्य जन्मस्थलम् अस्ति अयं दुर्गः । अस्य क्षेत्रस्य समीपम् अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति । अतः जनाः तत्र वर्षर्तौ भ्रमणार्थं गच्छन्ति ।

माळशेज-घट्टः महाराष्ट्र-राज्यस्य प्रमुखनगरैः सह संलग्नः अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तानि बसयानानि सम्पूर्णे महाराष्ट्रराज्ये प्रचलन्ति । मुम्बई-नगरात्, पुणे-महानगरात् च इत्यादिभ्यः नगरेभ्यः “माळशेज-घट्टाय बसयानानि प्राप्यन्ते । भाटकयानैः अपि तत्र गन्तुं शक्यते । कल्याण-रेलस्थानकम् अस्य स्थलस्य निकटतमं रेलस्थानकम् अस्ति । इदं रेलस्थानकं महाराष्ट्र-राज्यस्य प्रमुखनगरैः, भारतस्य प्रमुखनगरैः च सम्बद्धम् अस्ति । मालशेज-घट्टात् कल्याण-रेलस्थानकं ८६ किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं माळशेज-घट्टात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्मात् विमानस्थानकात् भाटकयानैः बसयानैः वा माळशेज-घट्टः प्राप्तुं शक्यते ।

गुहागर

[सम्पादयतु]

गुहागर-नगरं महाराष्ट्रराज्यस्य रत्नागिरि-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि, समुद्रतटानि सन्ति । अतः इदं “मन्दिराणां तटानां च नगरम्” इति कथ्यते । भारत प्रमुखेषु पर्यटनस्थलेषु नगरमिदं प्रसिद्धम् अस्ति । इदं नगरं महाराष्ट्रराज्यस्य पश्चिमतटे स्थितम् अस्ति । गुहागर-नगरस्य पश्चिमदिशि अरबसागरः अस्ति । अस्य पूर्वदिशि सह्याद्रिपर्वतशृङ्खला च वर्तते । अस्मिन् नगरे हिन्दुधर्माणां बहूनि मन्दिराणि सन्ति । भारतस्य विभिन्ननगरेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । बालकेश्वर-मन्दिरम्, उदसेश्वर-मन्दिरं, व्यादेश्वर-मन्दिरं, वेलनेश्वर-मन्दिरं, तालकेश्वर-मन्दिरं च एतानि अस्य नगरस्य शिवमन्दिराणि सन्ति । एतेषु मन्दिरेषु भगवतः शिवस्य विभिन्नरूपाणि दृश्यन्ते । गुहागर-नगरे चन्द्रिका-मन्दिरं स्थितम् अस्ति । मन्दिरमिदं सम्पूर्णे भारते विख्यातम् अस्ति । तस्य मन्दिरस्य समीपं भगवतः गणपतेः मन्दिरं विद्यते । यात्रिकाः गणेशदेवस्थानस्य, उमामहेश्वर-मन्दिरस्य च दर्शनं कुर्वन्ति । नगरेऽस्मिन् बहूनि समुद्रतटानि सन्ति । तानि सर्वाणि सुन्दराणि सन्ति । तत्र वर्जिन-समुद्रतटम् अस्ति । अयं तटः ६ किलोमीटर्मितः विस्तृतः वर्तते । तत्र नारिकेलस्य वृक्षाः पर्याप्तमात्रायां सन्ति । अस्मिन् नगरे कोङ्कण-संस्कृतेः प्रभावः अधिकः वर्तते । इदं नगरम् अरबसागरस्य तटे स्थितम् अस्ति । अतः अस्य नगरस्य तापमानं सर्वदा सामान्यम् एव भवति । मई-मासतः सितम्बर-मासपर्यन्तम् अस्य नगरस्य तापमानं सुखदं भवति । अस्य नगरस्य अधिकतमं तापमानं ३९ डिग्री सेल्सियस्-मात्रात्मकं, न्यूनतमं तापमानं १८ डिग्री सेल्सियस्-मात्रात्मकं च भवति । अस्मिन् नगरे सर्वाधिकम् औष्ण्यं मई-मासे भवति ।

गुहागर-नगरात् चिपलून-नगरं ४० किलोमीटर्मिते दूरे स्थितम् अस्ति । सर्वकारप्रचालितैः बसयानैः चिपलून-नगरं सरलतया प्राप्यते । चिपलून-नगरं महाराष्ट्रराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । चिपलून-नगरे एकं रेलस्थानकम् अपि अस्ति । तस्मात् रेलस्थानात् पुणे-नगराय, मुम्बई-महानगराय, देहली-महानगराय, कोलकाता-महानगराय, बेङ्गळूरु-महानगराय च रेलयानानि प्राप्यन्ते । रेलस्थानात् भाटकयानैः, बसयानैः वा गुहागर-नगरं गन्तुं शक्यते । मुम्बई-नगरे स्थितं “छत्रपति शिवाजी” इत्याख्यं विमानस्थानकं गुहागर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-नगरे वैयक्तिकवाहनानि, भाटकवाहनानि, बसयानानि च प्रचलन्ति । भूमार्गेण ततः गुहागर-नगरं गन्तुं शक्यते ।

जुन्नर

[सम्पादयतु]

“जुन्नर” इत्येतत् पर्यटनस्थलं महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितम् अस्ति । इदं नगरं पुणे-नगरात् ९० किलोमीटर्मिते दूरे उत्तरदिशि स्थितम् अस्ति । मुम्बई-महानगरात् जुन्नर-नगरं १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं स्थलं समुद्रतलात् २२६० पादोन्नतं विद्यते । इदं नगरं धार्मिकम्, ऐतिहासिकं, पौराणिकं च वर्तते । इदम् अत्यन्तं लोकप्रियं स्थलम् अस्ति । जुन्नर-नगरं प्राचीनमन्दिरेभ्यः, वास्तुकलाभिः निर्मिताभ्यः गुहाभ्यः, दुर्गेभ्यः च भारते प्रसिद्धम् अस्ति । अस्य इतिहासः सहस्रवर्षेभ्यः पुरातनः अस्ति । पुरा इदं नगरं “जिमा-नगरम्” इति नाम्ना ज्ञायते स्म । तस्मिन् समये अस्मिन् नगरे नहापन-राजा शासनं कुर्वन् आसीत् । सः शक-राजवंशस्य राजा आसीत् । अनन्तरं सप्तवाहन-राजवंशजैः तत्र शासनं कृतम् । सप्तवाह-राजवंशस्य सातकर्ण-राज्ञा एव शिवनेरी-दुर्गः निर्मापितः । सः दुर्गः “छत्रपति शिवाजी” इत्याख्यस्य मराठा-शासकस्य जन्मस्थलं वर्तते ।

जुन्नर-नगरे याः गुहाः सन्ति, तासां गुहानां वास्तुकला विश्वस्मिन् प्रसिद्धा वर्तते । अत एव तत्स्थलं वास्तुकलायाः केन्द्रत्वेन ख्यातम् अस्ति । तत्र गुहानां त्रयः समूहाः सन्ति । “मनमोदी-हिल-समूहः”, “गणेश-लेना-समूहः”, “तुलजा-लेना-समूहः” च । इतः परं लेन्याद्रि-गुहाः सन्ति । ताः गुहाः शिलाछेदनेन निर्मिताः सन्ति । तस्मिन् समूहे त्रिंशत् गुहाः सन्ति । ताः गुहाः अस्य नगरस्य आकर्षणकेन्द्रं वर्तते । अस्य स्थलस्य ५०० चतुरस्रकिलोमीटर्मितं क्षेत्रे बहवः चित्रकायाः (Panther) प्राप्यन्ते । अस्य स्थलस्य जलवायुः शीतलः अस्ति । अतः आवर्षं जनाः सुखेन भ्रमणं कुर्वन्ति ।

महाराष्ट्र-राज्यस्य सर्वकारेण सौकर्याय बसयानानि प्रचालितानि सन्ति । पुणे-नगरात् जुन्नर-नगरं ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-नगरात् बसयानैः जुन्नर-नगरं प्राप्यते । पुणे-नगरे रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकं जुन्नर-नगरस्य समीपस्थं रेलस्थानकं वर्तते । पुणे-नगरस्य रेलस्थानकात् भारतस्य प्रमुख-नगरेभ्यः रेलयानानि नियमितरूपेण प्रचलन्ति । तस्मात् रेलस्थानकात् भाटकयानैः जुन्नर-नगरं गन्तुं शक्यते । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं जुन्नर-नगरात् १७७ किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया जुन्नर-नगरं प्राप्तुं शक्नुवन्ति ।

”वधु”, “तुलापुर” द्वौ ग्रामौ

[सम्पादयतु]

“वधु”, “तुलापुर” एतौ द्वौ लघु ग्रामौ महाराष्ट्रराज्यस्य पुणे-मण्डले स्थितौ स्तः । एतौ ऐतिहासिकौ ग्रामौ स्तः । “सम्भाजी” इत्याख्येन शिवाजी-राज्ञः पुत्रेण अत्रैव प्राणत्यागः कृतः आसीत् । तुलापुर-ग्रामः पुणे-नगरात् ४० किलोमीटर्मिते दूरे उत्तरपूर्वदिशि स्थितः अस्ति । अस्मिन् ग्रामे ब्रह्मा-भामा-इन्द्रायणीनदीनां सङ्गमः अस्ति । पुरा तुलापुर-नगरं “नागरगांव” इति नाम्ना ज्ञायते स्म । वधू-ग्रामे “सम्भाजी” इत्याख्यस्य समाधिः अस्ति । मराठाशासनस्य इतिहासे एतयोः ग्रामयोः महत्त्वपूर्णं स्थानम् अस्ति । ई. स. १८२२ तमे वर्षे युद्धस्मारकं निर्मापितम् आसीत् । साम्प्रतं तस्य नाम “रणस्तम्भः” इति । तुलापुर-ग्रामे भगवतः शिवस्य सङ्गमेश्वर-मन्दिरं विद्यते । इदं मन्दिरं प्राचीनम् अस्ति । अस्य मन्दिरस्य समीपे एव “सम्भाजी” इत्याख्यस्य समाधिः विद्यते ।

ताभ्यां ग्रामाभ्यां पुणे-नगराय बसयानानि प्राप्यन्ते । पुणे-नगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । पुणे-नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकं ताभ्यां ग्रामाभ्यां ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-नगरस्य रेलस्थानकात् ताभ्यां ग्रामाभ्यां भाटकयानानि, बसयानानि च प्राप्यन्ते । इदं रेलस्थानकात् मुम्बई-महानगराय, अहमदनगराय, नागपुर-नगराय, अहमदाबाद-नगराय च रेलयानानि प्राप्यन्ते । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया तौ ग्रामौ प्राप्तुं शक्नुवन्ति ।

“कर्जत” इत्येतत् स्थलं महाराष्ट्रराज्यस्य रायगढ-मण्डले स्थितम् अस्ति । इदं स्थलं पर्वतीयक्षेत्रम् विद्यते । इदं सह्याद्पर्र्तिशृङ्खलाः क्षेत्रे स्थितम् अस्ति । इदं स्थलम् उल्हास-नद्याः तटे स्थितम् अस्ति । “कर्जत” इत्येतत् स्थलं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । तत्र बहवः जलप्रपाताः सन्ति । वर्षर्तौ ते जलप्रपाताः दृश्यन्ते । इद स्थलं मुम्बई-महानगरात् ५५ किलोमीटर्मिते दूरे स्थितम् अस्ति । समीपस्थाः जनाः सप्ताहान्ते तत्र भ्रमणार्थं गच्छन्ति । पर्वतारोहणाय इदं स्थलं श्रेष्ठं वर्तते । तत्र पेठ-दुर्गः, कोण्डाना-गुहाः च सन्ति । बौद्धधर्मस्य प्राचीनावशेषाः अपि प्राप्यन्ते । इदं स्थलं २०० मीटर्मितं पादोन्नतं वर्तते । इदं नगरं पारम्परिकं वर्तते । अस्य नगरस्य ऐतिहासिकं महत्त्वं विद्यते । कर्जत-नगरे महाराष्ट्र-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । कर्जत-नगरात् मुम्बई-महानगराय, पुणे-नगराय, पनवेल-नगराय च नियमितरूपेण बसयानानि प्राप्यन्ते । कर्जत-नगरे एकं रेलस्थानकम् अपि विद्यते । कर्जत-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । कर्जत-नगरं खण्डाला-नगरस्य, लोनावाला-नगरस्य च समीपे स्थितम् अस्ति । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं कर्जत-नगरात् ९० किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया जुन्नर-नगरं प्राप्तुं शक्नुवन्ति ।

मुरुड जञ्जीरा

[सम्पादयतु]

“मुरुड जञ्जीरा” इतीदं स्थलं महाराष्ट्रराज्यस्य रायगढ-मण्डलस्य मुरुड-ग्रामे स्थितम् अस्ति । स्थलमिदं समुद्रतटे स्थितम् अस्ति । तत्र एकः दुर्गः अस्ति । अस्मिन् दुर्गे सिद्दी-राजवंशस्य शासनम् आसीत् । मराठा-शासकैः, पुर्तगाली-शासकैः, डच-शासकैः इत्यादिभिः शासकैः अस्मिन् दुर्गे बहुवारम् आक्रमणं कृतम् । तथापि ते तं दुर्गं जेतुं न अशक्नुवन् । “जञ्जीरा” इत्ययं शब्दः अरबी-भाषायाः अस्ति । अरबी-भाषायां “जजीरा” शब्दस्य अर्थः “द्वीपः” भवति ।

द्वादशशताब्द्यां सिद्दी-राजवंशेन अस्य दुर्गस्य निर्माणं कारितम् आसीत् । तस्मिन् समये मरुड-नगरं सिद्दी-राजवंशस्य राजधानी आसीत् । वैदेशिकशासकैः बहुवारम् अस्मिन् दुर्गे आक्रमणं कृतम्, किन्तु सर्वदा ते सर्वे वैफल्यं प्राप्तवन्तः । शिवाजी-राज्ञा अपि षड्वारम् आक्रमणं कृतम् आसीत् । किन्तु सः अपि निष्फलः जातः । पुरा अयं दुर्गः काष्ठैः निर्मितः आसीत् । पुरा ये मत्स्यपालकाः आसन्, समुद्रतस्करेभ्यः रक्षणाय तैः अयं दुर्गः काष्ठैः निर्मितः आसीत् । अनन्तरं “पीर खान” इत्याख्येन अस्मिन् दुर्गे स्वस्याधिकारः प्रस्थापितः । सः अहमदनगर-साम्राज्यस्य शासकः आसीत् । तेन अस्य दुर्गस्य दृढतया निर्माणं कारितम् । अतः अयं दुर्गः अभेद्यः अस्ति । “मालिक अम्बर” इत्याख्यः अहमदनगर-साम्राज्यस्य राजा आसीत् । तेन अस्य दुर्गस्य पुनर्निमाणं कारितम् ।

मुरुड-ग्रामः भूमार्गेण पुणे-नगरेण, कल्याण-नगरेण, मुम्बई-महानगरेण इत्यादिभिः महाराष्ट्र-राज्यस्य नगरैः सह सम्बद्धम् अस्ति । तत्र सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । रोहा-नगरस्य रेलस्थानकं मुरुड-नगरस्य समीपस्थं रेलस्थानकं वर्तते । इदं कोङ्कण-रेलमार्गे स्थितम् अस्ति । इदं रेलस्थानकं महाराष्ट्रराज्यस्य प्रमुकरेलस्थानकैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतत् विमानस्थानकं मुरुड-नगरात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्मात् विमानस्थानकात् भाटकयानैः बसयानैः वा मुरुड-नगरं प्राप्तुं शक्यते । पुणे-नगरस्य लोहगांव-विमानस्थानकं, नासिक-नगरस्य गान्धीनगर-विमानस्थानकं च अपि समीपस्थे विमानस्थानके स्तः । ताभ्यां विमानस्थानकां मुरुड-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते ।

खोडाला

[सम्पादयतु]

खोडाला-ग्रामः महाराष्ट्रराज्यस्य ठाणे-मण्डले स्थितः अस्ति । अयं ग्रामः समुद्रतलात् १८०० पादोन्नतः अस्ति । खोडाला-ग्रामस्य वातावरणं शान्तम् अस्ति । वैतरना-तडागः, इगतपुरी-कसार-घट्टः, त्रिङ्गलवाडी-दुर्गः च इत्यादीनि अस्य ग्रामस्य समीपस्थानि पर्यटनस्थलानि सन्ति । अयं ग्रामः पर्वतक्षेत्रे स्थितः अस्ति । अतः पर्वतारोहणाय अपि अयं ग्रामः विशिष्टः वर्तते । अस्मिन् ग्रामे आदिवासिनः निवसन्ति । साम्प्रतम् अपि ते पशुबलिं ददति । प्रतिवर्षम् आदिवासिनः स्वस्य पारम्परिकोत्सवान् आचरन्ति । तेषु उत्सवेषु आदिवासि-नृत्यं दर्शनीयं भवति । तत्र “अमला-वन्यजीवाभयारण्यम्” अस्ति । अस्मिन् अभयारण्ये बहवः वन्यपशवः दृश्यन्ते । खोडाला-ग्रामः पुणे-नगरेण, मुम्बई-नगरेण, इगतपुरी-नगरेण च भूमार्गेण सम्बद्धः अस्ति । तेभ्यः नगरेभ्यः खोडाला-ग्रामाय प्रतिदिनं नियमितरूपेण बसयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । इगतपुरी-नगरस्य रेलस्थानकं खोडाल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । तस्मात् रेलस्थानकात् पुणे-नगराया, मुम्बई-महानगराय इत्यादिभ्यः महाराष्ट्र-राज्यस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतत् विमानस्थानकं खोडाला-ग्रामात् १५० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः वा खोडाला-ग्रामं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च खोडाला-ग्रामः सरलतया गन्तुं शक्यते ।

यवतमाल

[सम्पादयतु]

यवतमाल-नगरं महाराष्ट्रराज्यस्य यवतमाल-मण्डलस्य मुख्यालयः वर्तते । इदं नगरं समुद्रतलात् १४६० पादोन्नतं वर्तते । विदर्भक्षेत्रे गण्यते इदं यवतमाल-नगरम् । इदं नगरं परितः चन्द्रपुर-मण्डलं, परभणीमण्डलम्, अकोला-मण्डलम्, अमरावती-मण्डलं च स्थितम् अस्ति । यवत, माल इत्याभ्यां शब्दाब्यां “यवतमाल” इति शब्दस्य उत्पत्तिर्जाता । मराठी-भाषायां “यवत” इत्यर्थः पर्वतः, “माल” इत्यर्थः पङ्क्तिः च । अस्य नगरस्य इतिहासः अति रोचकः वर्तते । तत्र बहुभिः शासकैः शासनं कृतम् आसीत् । पुरा इदं नगरं “यावाते चा महल”, “योत-लोहार” इति नामभ्यां ज्ञायते स्म । तस्मिन् समये यवतमाल-नगरं डेक्कन्-साम्राज्यस्य मुख्यनगरम् आसीत् । मुगल-शासकैः अहमदनगर-साम्राज्यस्य शासकाः पराजिताः । तदा मुगल-शासकैः शासनं कृतम् । मुगल-शासकस्य अन्तिमशासकस्य मृत्योः अनन्तरं मराठा-शासकैः अस्मिन् नगरे आधिपत्यं स्थापितम् । तदनन्तरं ब्रिटिश-शासकैः अधिकारः प्राप्तः । पुरा इदं नगरं मध्यभारतस्य किञ्चन नगरम् आसीत् । किन्तु समयान्तरे महाराष्ट्रराज्ये अस्य नगरस्य विलयः जातः । यवतमाल-नगरे बहूनि मन्दिराणि, वीक्षणीयस्थलानि च सन्ति । नरसिंह-मन्दिरं, दत्त-मन्दिरं, खाटेश्वरमहाराज-मन्दिरं, जगत-मन्दिरं, “खोजोची-मस्जिद्” च अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्य नगरस्य समीपं कलम्ब-ग्रामः वर्तते । तस्मिन् ग्रामे चिन्तामणिगणेश-मन्दिरं विद्यते । इदं मन्दिरं प्राचीनं वर्तते । अस्य समीपे गणेश-कुण्डः अपि अस्ति । अस्मिन् नगरे द्वे प्रमुखे अभयारण्ये स्तः । बैनगङ्गा-वन्यजीवाभयारण्यं, तिपेश्वर-वन्यजीवाभयारण्यं च । एतयोः अभयारण्ययोः प्राकृतिकसौन्दर्यं महत्त्वपूर्णं वर्तते । शीतर्तौ जनाः यवतमाल-नगरस्य भ्रमणं कर्तुं गच्छन्ति ।

यवतमाल-नगरं महाराष्ट्रराज्यस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अमरावती-नगरात्, चन्द्रपुर-नगरात् च यवतमाल-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अतः इदं नगरं महाराष्ट्रस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । यवतमाल-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगराय, नागपुर-नगराय, अहमदनगराय च रेलयानानि प्राप्यन्ते । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । नागपुर-नगरे “डॉ. बाबासाहेब आम्बेडकर” नामकं विमानस्थानकं वर्तते । इदं यवतमाल-नगरस्य समीपस्थं विमानस्थानकं वर्तते । यवतमाल-नगरात् नागपुर-नगरं १२६ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । हैदराबाद-नगरस्य “राजीवगान्धी-अन्ताराष्ट्रियविमानस्थानकम्” अपि समीपे स्थितम् अस्ति । इदं यवतमाल-नगरात् ३५६ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

कर्नाला

[सम्पादयतु]

कर्नाला-नगरं महाराष्ट्रराज्यस्य रायगढ-मण्डले स्थितम् अस्ति । इदं नगरं समुद्रतलात् ४७.५ किलोमीटर्मितम् उन्नतं वर्तते । इदं नगरं परितः सघनानि वनानि, उन्नताः पर्वताः च स्थिताः सन्ति । तुगलक-वंशस्य राज्ञां शासनकाले कर्नाला-नगरं कोङ्कण-मण्डलस्य राजधानी आसीत् । ततः परं तस्मिन् “निजाम शाह” इत्याख्येन राज्ञा आधिपत्यं स्थापितम् । सः अहमदनगरस्य संस्थापकः आसीत् । समयान्तरे अस्मिन् क्षेत्रे “ईस्ट् इण्डिया कम्पनी” इत्याख्यायाः संस्थायाः स्थापना जाता । तत्र एकं विहगाभयारण्यं वर्तते । तस्मिन् अभयारण्ये विहगानां १५० जातयः सन्ति । ये जनाः पर्वतारोहणाय उत्सुकाः भवन्ति, तेभ्यः इदं स्थलम् अत्युत्तमं वर्तते । अस्य स्थलस्य वातावरणं सर्वदा सुखदं, स्वास्थ्यप्रदं, मनोहरं च भवति ।

इदं स्थलं मुम्बई-महानगरात् ६० किलोमीटर्मिते, पनवेल-नगरात् १२ किलोमीटर्मिते च दूरे स्थितम् अस्ति । पनवेल-नगरात् गोवा-राजमार्गेण अपि कर्नाला-नगरं गन्तुं शक्यते । महाराष्ट्र-राज्यस्य सर्वकारेण सौकर्याय बसयानानि अपि प्रचालितानि सन्ति । अतः बसयानैः अपि भ्रमणे सारल्यं भवति । पनवेल-नगरस्य रेलस्थानकं कर्नाला-नगरस्य समीपस्थं रेलस्थानकं वर्तते । पनवेल-रेलस्थानकं मुम्बई-रेलविभागस्य मुख्यं रेलस्थानकं वर्तते । पनवेल-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मुम्बई-नगरे “छत्रपतिशिवाजी-अन्ताराष्ट्रियविमानस्थानकम्” अस्ति । इदं कर्नाला-नगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति । मुम्बई-नगरस्य विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । पुणे-नगरस्थं लोहगांव-विमानस्थानकम् अपि कर्नाला-नगरस्य समीपे एव अस्ति । लोहगांव-विमानस्थानकं कर्नाला-नगरात् १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सरलतया कर्नाला-नगरं प्राप्तुं शक्नुवन्ति ।

बोरदी-नगरं महाराष्ट्रराज्यस्य ठाणे-मण्डलस्य दहानू-नगरात् १७ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं नगरं समुद्रतटे स्थितः अस्ति । अतः जलक्रीडाः अपि कर्तुं शक्यन्ते । अस्य नगरस्य समुद्रतटं शान्तं, कृष्णवर्णीयं च वर्तते । अस्य समुद्रतटस्य जलस्तरः न्यूनः एव भवति । अतः अस्मिन् तटे जलक्रीडाः सुरक्षितरूपेण क्रियन्ते । महाराष्ट्र-राज्यस्य “वुड्स्-संरक्षणविभागः” अस्य समुद्रतटस्य निरीक्षणं करोति । बोरदी-नगरे पारसी-समुदायस्य बहूनि धार्मिकस्थलानि सन्ति । पारसी-जनैः अस्मिन् नगरे पर्यटकेभ्यः पारसी-भोजनस्य, निवासस्य च व्यवस्था कृता । बोरदी-नगरात् ८ किलोमीटर्मिते दूरे बहरोट-गुहाः स्थिताः सन्ति । ताः गुहाः अस्य स्थलस्य आकर्षणस्य केन्द्रं वर्तते । तत्र पर्वतीयक्षेत्रम् अस्ति । इदं क्षेत्रं पारसीसमुदायस्य पवित्रस्थलं वर्तते । इदं क्षेत्रं १५०० पादोन्नतं वर्तते । तत्र मल्लीनाथतीर्थं, कोदबाद-मन्दिरं च अस्ति । एते मन्दिरे जैनधर्मस्य तीर्थस्थले स्तः । बोरदी-नगरात् १० किलोमीटर्मिते दूरे कल्पतरू-उद्यानं स्थितम् अस्ति । अस्य नगरस्य समीपे वृन्दावन-चलच्चित्रनिर्माणगृहं स्थितम् अस्ति । तत्र “महाभारत”, “रामायण” इत्यादीनाम् ऐतिहासिकचलच्चित्राणां निर्माणं क्रियते स्म । बोरदी-नगरे दहानू-दुर्गः अस्ति । कथ्यते यत् – “एकवारं दहानू-दुर्गस्य उपयोगः कारागारत्वेन अपि कृतः” इति । अयं दुर्गः भारतस्य संस्कृतेः प्रतीकं वर्तते । वर्षतोः अनन्तरं, शीतर्तोः पूर्वं च अस्य नगरस्य वातावरणं लाभकरं, सुखदं च भवति । नवम्बर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य तापमानं १२ डिग्री सेल्सियस् मात्रात्मकं भवति । तस्मिन् काले जलवायुः अपि स्वास्थ्यकरः, समशीतोष्णः च भवति ।

महाराष्ट्र-राज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । बोरदी-नगरात् दहानू-रेलस्थानकं १७ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं बोरदी-नगरस्य निकटतमं रेलस्थानकम् अस्ति । घोलवद-रेलस्थानकम् अपि समीपे एव स्थितम् अस्ति । बसयानैः भाटकयानैः वा ताभ्यां रेलस्थानकाभ्यां बोरदी-नगरं प्राप्यते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । इदं बोरदी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकात् भाटकयानैः बसयानैः वा बोरदी-नगरं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च बोरदी-नगरं गन्तुं सारल्यं भवति ।

सतारा-नगरं महाराष्ट्र-राज्यस्य सतारा-मण्डलस्य मुख्यालयः अस्ति । सतारा-मण्डलस्य उत्तरदिशि, पुणे-मण्डलं, दक्षिणदिशि साङ्गली-मण्डलं, पूर्वदिशि सोलापुर-मण्डलं, पश्चिमदिशि रत्नागिरि-मण्डलं च अस्ति । एतत् परितः सप्तपर्वताः सन्ति । जरन्देश्वर-पर्वतः, यवतेश्वर-पर्वतः, जिङ्क्यात्रा-पर्वतः, “कित्लिचा डोङ्गर”-पर्वतः, सज्जनगढ-पर्वतः, “पैदयाचा बैरोबा”-पर्वतः, “नक्दिचा डोङ्गर”-पर्वतः, अतः एव इदं नगरं “सतारा” इति कथ्यते । पुरा अस्मिन् नगरे राष्टकूट-राजवंशस्य शासनम् आसीत् । अनन्तरं चालुक्यवंशस्य, मौर्यवंशस्य शासनम् आसीत् । सप्तदशशताब्द्याम् अत्र मराठा-वंशस्य शासनम् आसीत् । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । अस्य नगरस्य पर्यटनस्थलेषु जिङ्क्यात्रा-दुर्गः प्रसिद्धः अस्ति । अस्य दुर्गस्य निर्माणं भोज-राज्ञा कारितम् । अयं दुर्गः ३००० पादोन्नतः अस्ति । अस्मिन् दुर्गे मङ्गलाईदेव्याः मन्दिरम् अपि अस्ति । सतारा-नगरस्य इतिहासः समृद्धः वर्तते । अस्य नगरस्य दुर्गाः, मन्दिराणि, वन्याभयारण्यानि, प्राकृतिकसौन्दर्यं च आकर्षणस्य केन्द्रं विद्यते ।

सतारा-नगरं पुणे-बेङ्गळूरु-राजमार्गे स्थितम् अस्ति । सतारा-नगरात् पुणे-नगरं १२० किलोमीटर्मितं, मुम्बई-महानगरं २७० किलोमीटर्मितं च दूरे स्थितम् अस्ति । महाराष्ट्रस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । सतारा-नगरे एकं रेलस्थानकं वर्तते । इदं रेलस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण, बेङ्गळूरु-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । पुणे-नगरस्य विमानस्थानकं सतारा-नगरस्य समीपस्थं विमानस्थानकं वर्तते । सतारा-नगरात् पुणे-विमानस्थानकं १०७ किलोमीटर्मिते दूरे स्थितम् अस्ति । पुणे-विमानस्थानकात् भारतस्य प्रमुखनगरेभ्यः विमानानि प्राप्यन्ते । अनेन प्रकारेण सतारा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः भ्रमणार्थम् इच्छुकाः यात्रिकाः सरलतया सतारा-नगरं गन्तुं शक्नुवन्ति ।

रत्नागिरि

[सम्पादयतु]

रत्नागिरि-नगरं महाराष्ट्रराज्यस्य रत्नागिरि-मण्डलस्य केन्द्रं विद्यते । इदं नगरं महाराष्ट्रराज्यस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । अरबसागरस्य तटे स्थितमिदं नगरम् । ई. स. १७३१ तमे वर्षे शिवाजी-राज्ञः शासनानन्तरम् अस्मिन् नगरे सात्र-राजभिः स्वस्य आधिपत्यं स्थापितम् । ई. स. १८१८ तमात् वर्षात् ब्रिटिश्-शासकैः शासनं कृतम् । पुराणानानुसारं कथ्यते यत् – “यदा पाण्डवैः चतुर्दशवर्षाणां वनवासः कृतः । तदा तैः तेषु वर्षेषु कश्चित् कालः रत्नागिरि-नगरे यापितः । तस्मिन् समये यः राजा अत्र शासनं कुर्वन् आसीत् , तेन कौरवाणां विरोधाय पाण्डवानां साहाय्यं कृतम् । एवं च महाभारतयुद्धे अपि तेन भागः गृहीतः । रत्नागिरि-नगरे जयगढ-दुर्गः आकर्षणस्य केन्द्रम् अस्ति । अस्य नगरस्य समीपे रत्नादुर्ग-दुर्गः अपि अस्ति । अयं दुर्गः ६०० वर्षेभ्यः प्राचीनः अस्ति । रत्नागिरि-नगरे इतिहासस्य, धर्मस्य, प्रकृतेः इत्यादीनां सर्वेषां मिश्रणम् अस्ति । अत्र मराठासंस्कृतेः अत्यधिकः प्रभावः अस्ति । रत्नागिरि-नगरे माण्डवी-समुद्रतटम् अस्ति । अस्य समुद्रतटस्य सिकता कृष्णवर्णीया अस्ति । गणपतिपुले-समुद्रतटं, गणेशघुले इत्येते द्वे स्थले अपि मुख्ये स्तः । गणपतिपुले-समुद्रतटस्य समीपे स्वयंभूगणपतेः प्राचीनं मन्दिरं विद्यते । इदं मन्दिरं ४०० वर्षेभ्यः पुरातनम् अस्ति । ग्रीष्मर्तौ अस्य नगरस्य वातावरणम् उष्णं भवति । अतः शीतर्तौ यात्रिकाः भ्रमणार्थं तत्र गच्छन्ति । किन्तु यदि येभ्यः जनेभ्यः आम्रं रोचते, तैः ग्रीष्मर्तौ तत्र गन्तव्यम् ।

रत्नागिरि-नगरं महाराष्ट्रराज्यस्य बृहत्तमनगरेषु अन्यतमं वर्तते । अतः अत्र परिवहनाय कष्टं नास्ति । इदं नगरं सप्तदशक्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारेण यात्रिकाणां सौकर्याय अल्पमूल्यकानि बसयानानि प्रचालितानि सन्ति । तैः बसयानैः यात्रिकाः रत्नागिरि-नगरस्य भ्रमणं कर्तुं शक्नुवन्ति । रत्नागिरि-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं कोङ्क-रेलमार्गे स्थितम् अस्ति । भारतस्य प्रमुखरेलस्थानकेषु अन्यतमम् अस्ति इदं रेलस्थानकम् । रत्नागिरि-रेलस्थानकात् मुम्बई-महानगराय, पुणे-नगरा, गोवा-नगराय, कोल्हापुर-नगराय, च नियमितरूपेण रेलयानानि प्राप्यन्ते । रत्नागिरि-नगरे एकं विमानस्थानकम् अपि स्थितम् अस्ति । रत्नागिरि-नगरात् इदं विमानस्थानकं १२ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं मुम्बई-महानगरेण, देहली-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं रत्नागिरि-ग्रामात् ३७० किलोमीटर्मिते दूरे स्थितः अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः, धूमशकटयानैः वा रत्नागिरि-ग्रामं प्राप्तुं शक्यते । अनेन प्रकारेण भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च रत्नागिरि-ग्रामः सरलतया गन्तुं शक्यते ।

सजन-नगरं महाराष्ट्रराज्यस्य ठाणे-मण्डले स्थितम् अस्ति । इदं नगरं मुम्बई-नगरात् १३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् नगरे “चीकू”-फलस्य, आम्रस्य च विपुलतया उत्पादनं क्रियते । पुर्तगाली-जनैः यदा भारते आक्रमणं कृतम् आसीत्, तदा तैः सजन-नगरं विश्रामस्थलत्वेन उपयुक्तम् । ई. स. १३०० तमवर्षतः १६६० तमवर्षपर्यन्तम् अस्मिन् नगरे मुस्लिम-शासनम् आसीत् । मराठा-शासकानां शासनकाले सजन-नगरस्य उन्नतिः जाता । अस्मिन् नगरे बहूनि धार्मिकस्थलानि स्थितानि सन्ति । अस्मिन् नगरे पलूसा-जलप्रपातः अस्ति । अयं जलप्रपातः ६० पादोन्नतः वर्तते । टाईगर-गुहाः, कोहेज-दुर्गः इत्येते अस्य नगरस्य ऐतिहासिके स्थले स्तः । महाराष्ट्रराज्यस्य सर्वकारेण बसयानानि प्रचालितानि सन्ति । तैः बसयानैः महाराष्ट्रराज्यस्य विभिन्ननगरेभ्यः सजन-नगरं गन्तुं शक्यते । सजन-नगरं मुम्बई-नगरेण, पुणे-नगरेण, ठाणे-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ठाणे-नगरस्य रेलस्थानकं सजन-नगरस्य समीपस्थं रेलस्थानकं वर्तते । ठाणे-रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ठाणे-नगरात् भाटकयानैः, बसयानैः च सजन-नगरं गन्तुं शक्यते । मुम्बई-महानगरे “छत्रपति शिवाजी” इति नामकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । एतद् विमानस्थानकं सजन-नगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः तत्र सरलतया गन्तुं शक्यते । तस्माद् विमानस्थानकाद् भाटकयानैः बसयानैः वा सजन-नगरं प्राप्तुं शक्यते । अनेन प्रकारेण यात्रिकाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सजन-नगरं सरलतया गन्तुं शक्नुवन्ति ।

अजन्ता-गुहाः

[सम्पादयतु]

अजन्ता-गुहाः महाराष्ट्र-राज्यस्य औरङ्गाबाद-मण्डले स्थिताः सन्ति । ई. स. २०० वर्षाणि पूर्वतः ई. स. द्वितीयशताब्दीपर्यन्तम् एतासां गुहानां निर्माणकाः मन्यते । एतासु गुहासु भगवतः बुद्धस्य मूर्तयः, चित्राणि च दृश्यन्ते । भगवतः बुद्धस्य जन्मकालस्य प्रसङ्गाः अपि चित्रेषु दृश्यन्ते । तत्र आहत्य नवविंशतिः गुहाः सन्ति । इमाः गुहाः ऐतिहासिक्यः सन्ति । अतः “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इमाः गुहाः वैश्विकसम्पत्तित्वेन उद्घोषिताः । एतासु गुहासु बौद्ध-धर्मस्य, हिन्दुधर्मस्य,. जैनधर्मस्य च कलाकृतयः सन्ति । एकोनविंशतितमायां शताब्द्यां ब्रिटिश्-सैनिकाः औरङ्गाबाद-नगरस्य समीपस्थानि वनानि आखेटाय गतवन्तः, तस्मिन् समये ते एताः गुहाः दृष्टवन्तः । तैः त्वरितमेव पुरातत्त्वविभागाय सन्देशः प्रेषितः । तत्पूर्वं न कोऽपि एतासां गुहानां विषये जानाति स्म ।

अजन्ता-स्थलात् औरङ्गाबाद-नगरं ९६ किलोमीटर्मिते दूरे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारप्रचालितैः बसयानैः, भाटकयानैः वा औरङ्गाबाद-नगरं प्राप्यते । अजन्ता-स्थलं मुम्बई-महानगरेण, पुणे-नगरेण, शिरडी-नगरेण, नासिक-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य नगरैः सह सम्बद्धम् अस्ति । औरङ्गाबाद-नगरस्य रेलस्थानकम् अजन्ता-स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तस्मात् रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, पुणे-नगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरस्य विमानस्थानकम् अपि अजन्ता-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद् विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय बेङ्गळूरु-महानगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अजन्ता-स्थलं भूमार्गेण, धुमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया अजन्ता-स्थलं प्राप्तुं शक्नुवन्ति ।

एलोरा-गुहाः

[सम्पादयतु]

एलोरा-गुहाः महाराष्ट्रराज्यस्य औरङ्गाबाद-मण्डले स्थिताः सन्ति । औरङ्गाबाद-नगरात् इदं स्थलं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । इमाः गुहाः ऐतिहासिक्यः सन्ति । अतः “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इमाः गुहाः वैश्विकसम्प्रतित्वेन उद्घोषिताः । मन्यते यत् – “इमाः गुहाः राष्ट्रकूट-राजवंशस्य शासनकाले निर्मिताः आसन्” इति । एतासां गुहानां भागत्रयं वर्तते । बौद्धभागः, हिन्दुभागः, जैनभागश्च । बौद्धभागे द्वादश गुहाः, हिन्दुभागे सप्तदश गुहाः, जैन भागे पञ्च गुहाः च सन्ति । एतासु गुहासु सुन्दरकलाकृतयः सन्ति । “सर्वासु गुहासु जलस्रोतांसि सन्ति” इति सर्वासां गुहानां वैशिष्ट्यम् अस्ति । अतः एव साधवः, भिक्षवः च एतासु गुहासु निवसन्ति स्म । यतः तत्र जलसौकर्यम् आसीत् ।

एलोरा-स्थलात् औरङ्गाबाद-नगरं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । महाराष्ट्रराज्यस्य सर्वकारप्रचालितैः बसयानैः, भाटकयानैः वा औरङ्गाबाद-नगरं प्राप्यते । एलोरा-स्थलं मुम्बई-महानगरेण, पुणे-नगरेण, शिरडी-नगरेण, नासिक-नगरेण इत्यादिभिः महाराष्ट्रराज्यस्य नगरैः सह सम्बद्धम् अस्ति । औरङ्गाबाद-नगरस्य रेलस्थानकम् एलोरा -स्थलस्य समीपस्थं रेलस्थानकम् अस्ति । औरङ्गाबाद-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तस्माद् रेलस्थानकात् मुम्बई-महानगराय, देहली-महानगराय, पुणे-नगराय, बेङ्गळूरु-महानगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । औरङ्गाबाद-नगरस्य विमानस्थानकम् अपि एलोरा -स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद् विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय बेङ्गळूरु-महानगराय वायुयानानि प्राप्यन्ते । अनेन प्रकारेण एलोरा-स्थलं भूमार्गेण, धुमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः यात्रिकाः सरलतया एलोरा-स्थलं प्राप्तुं शक्नुवन्ति ।

परिवहनम्

[सम्पादयतु]

भूमार्गः

[सम्पादयतु]

ई. स. २००५ वर्षस्य मार्चमासपर्यन्तं महाराष्ट्रराज्यस्य मार्गाणाम् आहत्य दैर्घ्यं २.२९ लक्षकिलोमीटरमितम् आसीत् । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं ४,३६७ किलोमीटरमितं, प्रान्तीयराजमार्गाणां दैर्घ्यं ३३,४०६ किलोमीटरमितं, प्रमुखमण्डलस्थमार्गाणां दैर्घ्यं ४८,८२४ किलोमीटरमितम्, अन्यमण्डलस्थमार्गाणां दैर्घ्यं ४४,७९२ किलोमीटरमितं, ग्राम्यमार्गाणां दैर्घ्यं ९७,९१३ किलोमीटरमितं च आसीत् । अस्य राज्यस्य पञ्च राजमार्गाः इदं राज्यं देहली-महानगरेण, इलाहाबाद-नगरेण, कोलकाता-महानगरेण, हैदराबाद-महानगरेण, बेङ्गळूरु-महानगरेण च सह योजयन्ति । सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति ।

धूमशकटमार्गः

[सम्पादयतु]

महाराष्ट्रराज्ये रेलमार्गाणां दैर्घ्यं ५,५२७ किलोमीटरमितम् अस्ति । अस्मिन् राज्ये मुम्बई-नगरस्य, पुणे-नगरस्य, वर्धा-नगरस्य, नागपुर-नगरस्य इत्यादीनां नगराणां रेलस्थानकानि प्रमुखाणि सन्ति । एतैः रेलस्थानकैः इदं राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।

वायुमार्गः

[सम्पादयतु]

महाराष्ट्रराज्ये सप्तदश-विमानस्थानकानि सन्ति । तैः महाराष्ट्रराज्यं भारतस्य विदेशस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । मुम्बई-महानगरस्य “छत्रपति शिवाजी”-विमानस्थानकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । तस्माद् विमानस्थानकात् अमेरिका, यूरोप, सिङ्गापुर, ऑस्ट्रेलिया इत्यादीन् देशान् गन्तुं वायुयानानि प्राप्यन्ते । महाराष्ट्रराज्यस्य विमानस्थानकानि महाराष्ट्रराज्यं भारतस्य सर्वैः राज्यैः सह सञ्योजयन्ति ।

बाह्यानुबन्धः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=महाराष्ट्रराज्यम्&oldid=483429" इत्यस्माद् प्रतिप्राप्तम्