भण्डारामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भण्डारामण्डलम्

Bhandara district

भण्डारा जिल्हा
मण्डलम्
'महाराष्ट्रराज्ये भण्डारामण्डलम्
'महाराष्ट्रराज्ये भण्डारामण्डलम्
देशः  India
जिल्हा भण्डारामण्डलम्
उपमण्डलानि भण्डारा, साकोली, तुमसर, पवनी, मोहाडी, लाखनी, लाखान्दूर
विस्तारः ३,६४८ च.कि.मी.
जनसङ्ख्या(२०११) १२,००,३३४
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://bhandara.nic.in
सिवनी जलबन्धः
बुद्धविहारः
सहानगड-दुर्गः

भण्डारामण्डलं (मराठी: भंडारा जिल्हा, आङ्ग्ल: Bhandara District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं भण्डारा इत्येतन्नगरम् । तडागप्राचुर्यात् आमहाराष्ट्रं प्रसिद्धमिदं मण्डलम् । मण्डलेऽस्मिन् खनिजसम्पत्तेः, वनसम्पत्तेः अपि प्राचुर्यमस्ति ।

भौगोलिकम्[सम्पादयतु]

भण्डारामण्डलस्य विस्तारः ३,६४८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि गोन्दियामण्डलं, पश्चिमदिशि नागपुरमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि गडचिरोलीमण्डलम् अस्ति । अस्मिन् मण्डले वैनगङ्गा, बावनथरी, वाघ इत्येताः नद्यः प्रवहन्ति । वैनगङ्गानद्याः तटे मण्डलमिदं तिष्ठति । मण्डलस्य वायव्य-पूर्वदिशोः पर्वतप्रदेशः वर्तते । मण्डलेऽस्मिन् विषमवातावरणं भवति । मण्डलेऽस्मिन् १४७ से.मी.वार्षिकवृष्टिपातः भवति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

'भन्नारा' इत्यस्मात् पदात् अस्य मण्डलस्य नाम भण्डारा इति । बिलासपुर-उपमण्डलस्य रत्नपुर इत्यत्र लब्धात् शिलालेखात् ज्ञायते यत् ११ शतके अपि भण्डारापरिसरः महत्त्वपूर्णः आसीत् । 'लाञ्जी' इत्यस्मात् स्थानात् 'लाञ्जी'राजा अस्य प्रदेशस्य शासनं करोति स्म । १९६० तमे वर्षे महाराष्ट्रनिर्माणसमये अस्य परिसरस्य समावेशः महाराष्ट्रराज्यस्य गोन्दियामण्डले आसीत् । अन्ततः १९९९ तमे वर्षे भण्डारा, गोन्दिया इतीमे पृथक्-मण्डलत्वेन स्थापिते ।

जनसङ्ख्या[सम्पादयतु]

भण्डारामण्डलस्य जनसङ्ख्या(२०११‌) १२,००,३३४ अस्ति । अस्मिन् ६,०५,५२० पुरुषाः, ५,९४,८१४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.२३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । अत्र साक्षरता ८५.१४% अस्ति ।

कृषिः उद्यमाश्च[सम्पादयतु]

तण्डुलः, गोधूमः, यवनालः(ज्वारी), चणकः, 'तूर', कलायः, द्विदलसस्यम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । 'चिन्नोर', 'दुभराज', 'कालिकाम्मोड' इत्यादयः अत्रस्थाः तण्डुलस्य उपजातयः आमहाराष्ट्रं प्रसिद्धाः । नदीनां, तडागानां च प्राचुर्यात् मत्स्यव्यवसायस्य प्रगतिः जायमाना अस्ति । कृषिसम्बद्धानि कार्याणि जनाः कुर्वन्ति । वनप्रदेशे शाकोटवृक्षाः, 'शिसव', 'तेन्दू', 'धावडा', 'मोह', 'तिवस', 'खैर' इत्यादयः काष्ठवृक्षाः उपलभ्यन्ते । मण्डलेऽस्मिन् 'Manganese', लोहः इत्यादयः खनिजसम्पत्तयः उपलभ्यन्ते । विद्युच्छक्त्युत्पादनं, खनिजशुद्धिकरणं, लाक्षा-'तपकीर'-काच-प्लास्टिक-कर्गजनिर्माणोद्यमाः प्रचलन्ति अत्र । पित्तलभाजनानां निर्माणार्थं पुराणकालात् इदं मण्डलं प्रसिद्धम् इति कथ्यते । सर्वेषु व्यवसायक्षेत्रेषु 'सहकार'स्य प्रभावः दृश्यते ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

१. भण्डारा २. साकोली ३. तुमसर ४. पवनी ५. मोहाडी ६. लाखनी ७. लाखान्दूर

लोकजीवनम्[सम्पादयतु]

जनानां भोजने ओदनं, 'चूर्ण'(उपसेचनं), 'भाकरी', सूपः, शाकम् इत्येतेषां समावेशः भवति । शमायाः(जवस) तैलस्य उपयोगं जनाः पाचने कुर्वन्ति । मण्डलेऽस्मिन् कृषीवलानां, कर्मकराणां च प्रमाणं प्रायशः समानं वर्तते । मण्डलेऽस्मिन् मराठी भाषया सह हिन्दी, 'गोण्डी', 'पोवारी', उर्दु, 'कोष्ठी', 'कालारी' इत्यादयाः भाषाः व्यवहारे प्रचलन्ति । आदिवासिजनानां विशिष्टा संस्कृतिः प्रवर्तते अत्र । 'गोवारी'जनाः दीपावल्यां 'मुतूया' इत्येतस्याः देवतायाः मन्दिरसमीपं गत्वा पशून् बद्ध्वा ढोलवादनेन सह नृत्यन्ति । कृषिभूमौ 'सेवा' इति देवतायाः स्थापनाम् एते जनाः कुर्वन्ति । प्रत्येकस्मिन् गृहे 'धुला'देवतायाः पूजनं भवति । मण्डलेऽस्मिन् 'गवळी'-आभीरजनानां प्राचुर्यं दृश्यते ।

वीक्षणीयस्थलानि[सम्पादयतु]

  • अड्यार इत्यत्र हनुमानमन्दिरम्
  • चान्दपुर इत्यत्र चान्दपुर-तडागः
  • आमगाव इत्यत्र जलसिञ्चनप्रकल्पः
  • दरेकसा इत्यत्र गह्वरः
  • सिवनी जलबन्धः
  • आन्धळगाव
  • बावन्थडी
  • चौण्डेश्वरीदेवी
  • पावनी कोटः, अम्बागड दुर्गः, सहानगड दुर्गः, चान्दपुर कोटः
  • सिन्धपुरी इत्यत्र बौद्धविहारः
  • कोराम्भी देवी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भण्डारामण्डलम्&oldid=458989" इत्यस्माद् प्रतिप्राप्तम्