यवतमाळमण्डलम्
यवतमाळमण्डलम् Yavatmal district यवतमाळ जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये यवतमाळमण्डलम् | |
देशः | India |
जिल्हा | यवतमाळमण्डलम् |
उपमण्डलानि | यवतमाळ, आर्णी, कळम्ब, बाभूळगाव, दारव्हा, दिग्रस, नेर, पुसद, उमरखेड, महागाव, केळापूर, राळेगाव, घाटञ्जी, वाणी, मारेगाव, झरी जामणी |
विस्तारः | १३,५८४ च.कि.मी. |
जनसङ्ख्या(२०११) | २७,७२,३४८ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://yavatmal.nic.in |
यवतमाळमण्डलं (मराठी: यवतमाळ जिल्हा, आङ्ग्ल: Yavatmal District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं यवतमाळ इत्येतन्नगरम् । मण्डलमिदं कार्पासनिर्माणे अग्रगण्यम् ।
भौगोलिकम्
[सम्पादयतु]यवतमाळमण्डलस्य विस्तारः १३,५८४ चतुरस्रकिलोमीटर-मित:। अस्य मण्डलस्य पूर्वदिशि चन्द्रपुरमण्डलं, पश्चिमदिशि परभणीमण्डलम्, अकोलामण्डलं च, उत्तरदिशि वर्धामण्डलम्, अमरावतीमण्डलं च, दक्षिणदिशि आन्ध्रप्रदेशराज्यं, नान्देडमण्डलं च अस्ति । अस्मिन् मण्डले २५७६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र वर्धा, वैनगङ्गा, पैनगङ्गा च प्रमुखनद्यः सन्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं यवतमाळमण्डलस्य जनसङ्ख्या २७,७२,३४८ अस्ति । अस्मिन् १४,१९,९६५ पुरुषाः, १३,५२,३८३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २०४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.७८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५२ अस्ति । अत्र साक्षरता ८२.८२% अस्ति ।
कृषिः उद्यमाश्च
[सम्पादयतु]यवनालः, कार्पासः, कलायः, तण्डुलः, गोधूमः, चणकः, इक्षुः, कदलीफलं, नारङ्गफलं, द्राक्षाफलम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि । कार्पासः, वस्त्रं, 'नायलोन' (Nylon), कर्करं (limestone) इत्येतेषां विदेशविक्रयणं भवति । एतेषां निर्माणाय, विक्रयणाय च उद्यमाः प्रचलन्ति ।
ऐतिहासिकं किञ्चित्
[सम्पादयतु]मण्डलपरिसरोऽयं 'बेरार'प्रान्तस्य भागः आसीत् । शुङ्ग-मौर्य-चालुक्य-वाकाटक-राष्ट्रकूट-देवगिरियादव-मराठाराजानाम् आधिपत्यमासीत् । अनन्तरm आङ्ग्लाधिपत्ये आसीत् एषः परिसरः । निजामशासकस्य अपि आधिपत्यमासीत् अत्र । १९५६ तमवर्षपर्यन्तम् परिसरोऽयं मध्यप्रदेशराज्ये समाविष्टः आसीत् । १९५६ तमे वर्षे भाषानुसारेण प्रान्तनिर्मितिः जाता तदा मुम्बईप्रान्ते समाविष्टः कृतः ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले षोडश-उपमण्डलानि सन्ति । तानि-
- यवतमाळ
- आर्णी
- कळम्ब
- बाभूळगाव
- दारव्हा
- दिग्रस
- नेर
- पुसद
- उमरखेड
- महागाव
- केळापूर
- राळेगाव
- घाटञ्जी
- वाणी
- मारेगाव
- झरी जामणी
लोकजीवनम्
[सम्पादयतु]मण्डलेऽस्मिन् 'माळी', 'लमाणी', 'आन्ध', 'गोण्ड', 'प्रधान', 'कोलाम' इत्येताः जनजातयः निवसन्ति । तेषां परम्परासु अपि इदानीं नगरसम्पर्केण परिवर्तनं दृश्यते । मण्डलेऽस्मिन् प्रमुखतया मराठीभाषा व्यवहारे प्रचलिता । तया सह गोण्डीभाषा, कोलम, उर्दू, तेलुगु, हिन्दी इत्येताः भाषाः प्रचलन्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- घण्टीबाबा 'जत्रा'- मेला
- रङ्गनाथस्वामि-मेला
- कळम्ब इत्यत्र चिन्तामणिगणपतिमन्दिरम्
- रङ्गनाथमन्दिरम्
- सहस्रकुण्ड-जलप्रपातः
- चौसलेश्वर-मन्दिरम्