चन्द्रपुरमण्डलम्
चन्द्रपुरमण्डलम् Chandrapur District चन्द्रपुर जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये चन्द्रपुरमण्डलम् | |
देशः | India |
मण्डलम् | चन्द्रपुरमण्डलम् |
उपमण्डलानि | चन्द्रपुर, वरोरा, भद्रावती, चिमुर, नागभीड, ब्रम्हपूरी, सिंदेवाही, मूल, गोण्डपिम्परी, पोम्भुर्णा, सावली, राजुरा, कोरपन, जिवती, बल्लारपूर |
विस्तारः | १०,६९० च.कि.मी. |
जनसङ्ख्या(२०११) | २०,७१,१०१ |
Government | |
• मण्डलसङ्गाहकः (District Collector) | एन्.नवीन सोना |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://chanda.nic.in |
चन्द्रपुरमण्डलं (मराठी: चन्द्रपुर जिल्हा, आङ्ग्ल: Chandrapur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं चन्द्रपुरम् इत्येतन्नगरम् ।
भौगोलिकम्
[सम्पादयतु]चन्द्रपुरमण्डलस्य विस्तारः १०,६९० च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि गडचिरोलीमण्डलं, पश्चिमदिशि यवतमाळमण्डलम्, उत्तरदिशि नागपुरमण्डलं, भण्डारामण्डलं, वर्धामण्डलं च, दक्षिणदिशि आन्ध्रप्रदेशराज्यम् अस्ति । अस्मिन् मण्डले वैनगङ्गा, वर्धा, इरई, अन्धारी, पैनगङ्गा इत्येताः प्रमुखनद्यः सन्ति ।
कृषिः
[सम्पादयतु]मण्डलेऽस्मिन् ८०% जनाः कृषिक्षेत्रे रताः । तण्डुलः अस्य मण्डलस्य प्रमुखसस्योत्पादनम् । 'सोयाबीन', यवनालः(ज्वारी), कार्पासः, 'तूर' इत्यादीनि अपि अत्र उत्पाद्यन्ते ।
जनसङ्ख्या
[सम्पादयतु]चन्द्रपुरमण्डलस्य जनसङ्ख्या(२०११) २०,७१,१०१ अस्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे १९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. १९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.९५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५९ अस्ति । अत्र साक्षरता ८१.३५% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-
- चन्द्रपुरम्
- वरोरा
- भद्रावती
- चिमुर
- नागभीड
- ब्रम्हपूरी
- सिन्देवाही
- मूल
- गोण्डपिम्परी
- पोम्भुर्णा
- सावली
- राजुरा
- कोरपन
- जिवती
- बल्लारपूर
लोकजीवनम्
[सम्पादयतु]मण्डलस्य ७३.०७% जनाः ग्रामेषु निवसन्ति, २६.९३% जनाः नगरेषु निवसन्ति । जनाः कृषिकार्ये, गृहोद्योगे, इतरसेवाकार्येषु रताः दृश्यन्ते । खनिजसम्पतिदृष्ट्या मण्डलमिदं समृद्धम् अस्ति, अतः तत्सम्बद्धाः उद्यमाः प्रचलन्ति अत्र । कर्गजोद्यमः, कृष्णाङ्गारस्य आकराः, 'सिमेण्ट्' उद्यमाः प्रचलन्ति । मण्डलस्य वरोराभागे 'आनन्दवन' इति बाबा आमटेवर्याणां सेवाप्रकल्पः प्रचलति । ग्रामीणविभागे हस्तोद्योगाः प्रचलन्ति ।
व्यक्तिविशेषाः
[सम्पादयतु]मण्डलमिदं बहूनां व्यक्तिविशेषाणां जन्मस्थलं, कार्यस्थलम् वा अस्ति । तेषु केचन सन्ति - महाराष्ट्रभूषण बाबा आमटे, प्रकाश आमटे, विक्रम गोखले, मारुतीराव कण्णम्वार, विलास मुत्तेमवार इत्यादयः ।
वीक्षणीयस्थलानि
[सम्पादयतु]- रामाला, जुनोना टेंक
- महाकालीमातामन्दिरम्
- घोडाझारी
- सातवाहिनी
- ताडोबा-अन्धारी अभयारण्यम्
- चन्द्रपुर औष्णिक-विद्युत्-उद्यमः
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]शासकीय सङ्केतस्थलम् मण्डलप्रशासनस्य सङ्केतस्थलम् Archived २०१३-११-०५ at the Wayback Machine
नागपुरमण्डलम्, भण्डारामण्डलम् | ||||
यवतमाळमण्डलम् | गडचिरोलीमण्डलम् | |||
चन्द्रपुरमण्डलम् | ||||
आन्ध्रप्रदेशराज्यम् |