उस्मानाबादमण्डलम्
उस्मानाबादमण्डलम् Osmanabad District उस्मानाबाद् जिल्हा | |
---|---|
मण्डलम् | |
![]() महाराष्ट्रराज्ये उस्मानाबाद् मण्डलम् | |
देशः |
![]() |
मण्डलम् | उस्मानाबाद मण्डलम् |
उपमण्डलानि | उस्मानाबाद्, तुळजापुर, उमरगा, लोहारा, कळंब, भूम, वाशी, पराण्डा |
विस्तारः | ७,५१२ च.कि.मी. |
जनसङ्ख्या(२०११) | १६,६०,३११ |
Government | |
• मण्डलसङ्गाहकः (District Collector) | डा. के. एम्. नागरगोजे |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://osmanabad.nic.in |
उस्मानाबादमण्डलं (मराठी: उस्मानाबाद जिल्हा, आङ्ग्ल: Osmanabad District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् उस्मानाबाद् इत्येतन्नगरम् । तुळजापुर इति तीर्थस्थानार्थं प्रसिद्धमिदं मण्डलम् ।
भौगोलिकम्[सम्पादयतु]
उस्मानाबादमण्डलस्य विस्तारः ७,५१२ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि लातूरमण्डलं, पश्चिमदिशि सोलापुरमण्डलम्, उत्तरदिशि बीडमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्मिन् मण्डले ६०० मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले माञ्जरा, तेरणा, बोरी, बाणगङ्गा, मन्याड, तावरजा, सीना इत्येताः नद्यः सन्ति ।
कृष्युत्पादनम्[सम्पादयतु]
अस्य मण्डलस्य ८०.१३% जनसङ्ख्या कृषिकार्ये रता दृश्यते । यवनालः(ज्वारी), कार्पासः, इक्षुः, कलायः, गोधूमः, तूर, माषः, चणकः 'अळशी' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।
जनसङ्ख्या[सम्पादयतु]
उस्मानाबादमण्डलस्य जनसङ्ख्या(२०११) १६,६०,३११ अस्ति । अस्मिन् ८,६१,५३५ पुरुषाः ७,९६,०४१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे २२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २२१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७६.३३% अस्ति ।
उपमण्डलानि[सम्पादयतु]
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-
- उस्मानाबाद्
- तुळजापुर
- उमरगा
- लोहारा
- कळम्ब
- भूम
- वाशी
- पराण्डा
लोकजीवनम्[सम्पादयतु]
मण्डलेऽस्मिन् बहवः जनाः कृष्यवलम्बिनः सन्ति । मण्डलेऽस्मिन् मराठी, कन्नड, ऊर्दू च इत्यादयाः भाषाः आधिक्येन व्यवहाररूढाः । मण्डलेऽस्मिन् सुविधा-अभावात् उद्यमानां विकासः न जातः । अतः जनानां जीवनपद्धतिः ग्रामीणा दृश्यते । अत्रस्थाः केचन जनाः उपजीविकारूपेण पर्यटनव्यवसायम् आचरन्ति यतो हि मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति पर्यटनस्थानेषु तुळजापुर इति अन्यतमम् ।
वीक्षणीयस्थलानि[सम्पादयतु]
मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । यथा -
१ तुळजाभवानी-मन्दिरम्
२ सन्त गोरोबा-मन्दिरम्
३ धाराशिव-लयनानि
४ नळदुर्गः
५ परान्दा-दुर्गः
६ कुन्थलगिरी-जैनमन्दिरम्
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
बीडमण्डलम् | ![]() | ||
सोलापुरमण्डलम् | ![]() |
लातूरमण्डलम् | ||
![]() ![]() | ||||
![]() | ||||
कर्णाटकराज्यम् |