नाशिकमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
नाशिकमण्डलम्
Nashik District
नाशिक जिल्हा
मण्डलम्
' महाराष्ट्रराज्ये नाशिकमण्डलम्
' महाराष्ट्रराज्ये नाशिकमण्डलम्
देशः  भारतम्
जिल्हा नाशिकमण्डलम्
उपमण्डलानि सटाणा, सुरगणा, मालेगाव, देवळा, पेठ, दिण्डोरी, चान्दवड, नान्दगाव, नाशिक, निफाड, येवला, इगतपुरी, सिन्नर, कळवण, त्र्यम्बकेश्वरः
विस्तारः १५,५३० च.कि.मी.
जनसङ्ख्या(२०११) ६१,०७,१८७
Time zone भारतीयमानसमयः(IST) (UTC+५:३०)
Website http://nashik.nic.in

नाशिकमण्डलं(मराठी: नाशिक जिल्हा, आङ्ग्ल: Nashik District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नाशिक इत्येतन्नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णं यतो हि राम-सीता-लक्ष्मणानाम् १४ वर्षीयवनवासस्य मुख्यस्थानं नाशिक आसीत् इति मन्यते ।

जैनमन्दिरम्

भौगोलिकम्[सम्पादयतु]

नाशिकमण्डलस्य विस्तारः १५,५३० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि जळगावमण्डलं, पश्चिमदिशि गुजरातराज्यम्, उत्तरदिशि धुळेमण्डलं, दक्षिणदिशि अहमदनगरमण्डलम् अस्ति । अस्मिन् मण्डले २,६०० मि.मी. वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य प्रमुखा नदी गोदावरी नदी । नाशिकमण्डलं परितः नव-पर्वतानां आवलिः अस्ति ।

कृष्युत्पादनम्[सम्पादयतु]

'बाजरी', गोधूमः च उत्पाद्यते सर्वाधिकम् । हरितशाकानि, पलाण्डुः, इक्षुः, द्राक्षाफलम् अपि कृष्युत्पादनानि सन्ति अत्र । अत्रस्थाः कृषकाः पशुपालन-पुष्पनिर्मिति-कुक्कुटपालनव्यवसायेषु अपि रताः ।

जनसङ्ख्या[सम्पादयतु]

नाशिकमण्डलस्य जनसङ्ख्या(२०११) ६१,०७,१८७ अस्ति । अस्मिन् ३१,५७,१८६ पुरुषाः, २९,५०,००१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३९३ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.३१% अस्ति ।

इतिहासः[सम्पादयतु]

मण्डलविषये नैकाः पुराणकथाः सन्ति । अस्य मण्डलस्य नामविषयेऽपि तथैव । रामायणे लक्ष्मणः शूर्पणखायाः नासिकां यस्मिन् स्थाने अच्छिनत् तत् स्थानमिदम् । एनां कथाम् अनुसृत्य एव मण्डलस्य नाम 'नाशिक' अभवत् इति जनाः मन्यन्ते । संस्कृतसाहित्यकारेषु वाल्मीकिः, कालिदासः, भवभूतिः इत्यादयः नाशिकमण्डले स्थित्वा लेखनम् अकुर्वन् । मोघलाधिपत्यकाले स्थानस्य नाम 'गुल्शनाबाद्' इति कृतमासीत् । पेशवे-आधिपत्यकाले राघोबादादा इत्यनेन पुनः 'नाशिक' इति नामपरिवर्तनं कृतम् । पेशवे-आङ्ग्ल-आधिपत्यकाले मण्डलेऽस्मिन् बहुस्थापत्यनिर्मितिः कृता । १८६९ तमे वर्षे एषः प्रभागः मण्डलत्वेन स्थापितः । तदानीमेव अस्य मण्डलस्य व्यापारकेन्द्रत्वेन अपि प्रतिष्ठापना जाता । रेलमार्गः निर्मितः । ततः नाशिकमण्डलस्य समृद्धिः वर्धमाना एव अस्ति ।

उपमण्डलानि[सम्पादयतु]

माङ्गी-तुङ्गी-पर्वतशिखरौ

अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-

प्रसिद्धा येवलापैठणी शाटिकायाः निर्माणकार्यम् ।

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् जनाः कृषि-उद्यमेषु रताः सन्ति । कृषिसम्बन्धिताः व्यवसायाः, शर्करा-निर्मिति-उद्यमाः च सन्ति अत्र । मण्डलेऽस्मिन् १७४ मध्यम-बृहदुद्यमाः सन्ति । मण्डलेऽस्मिन् बहूनि धार्मिकस्थलानि सन्ति , जनाः धार्मिककार्येषु अपि रताः सन्ति । कस्मिंश्चित् ग्रामीण-स्थाने जनाः पटनिर्माणोद्योगेन उपजीविकां प्राप्नुवन्ति । इदानीं तु एतैः जनैः निर्मिताः पटाः आन्तर्राष्ट्रियव्यापारेऽपि विक्रीयन्ते । मण्डलेऽस्मिन् 'येवले' इति 'पैठणी'-शाटिकानिर्माणस्थानम् आमहाराष्ट्रं प्रसिद्धम् ।

व्यक्तिविशेषाः[सम्पादयतु]

बहूनां व्यक्तिविशेषाणां जन्मस्थलं, कार्यस्थलं च इदं मण्डलम् । यथा पं.विष्णु दिगम्बर पलुस्कर-येन सङ्गीतक्षेत्रे बहुकार्यं कृतम् ; दादासाहेब फाळके - भारतीय चित्रपट-व्यवसायस्य संस्थापकः अयम् । वि.वा. शिरवाडकर-मराठी-साहित्यक्षेत्रे ख्यातानाम लेखकः ।

वीक्षणीयस्थलानि[सम्पादयतु]

श्री गोण्डेश्वरमन्दिरम् ।

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।

  • त्र्यम्बकेश्वर-ज्योतिर्लिङ्गम् - कुम्भमेला (प्रति १२ वर्षे)
  • सप्तशृङ्गिदुर्गः, वणी
  • श्रीकाळाराम-मन्दिरम्
  • मुक्तिधाम
  • सोमेश्वरमन्दिरम्
  • धम्मगिरिः, इगतपुरी
  • भण्डारदरा, कळसुबाई पर्वतशिखरः
  • वीर-सावरकर-स्मारकम्
  • नरोशङ्कर-मन्दिरम्
  • श्रीसुन्दरनारायणमन्दिरम्
  • मुक्तिधाम
  • सीतागह्वरः
  • पाण्डवलयनानि
  • समर्थ रामदासांची टाकळी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नाशिकमण्डलम्&oldid=273420" इत्यस्माद् पुनः प्राप्तिः