हिङ्गोलीमण्डलम्
हिङ्गोलीमण्डलम् Hingoli district हिंगोली जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये हिङ्गोलीमण्डलम् | |
देशः | India |
मण्डलम् | हिङ्गोलीमण्डलम् |
उपमण्डलानि | औण्ढा नागनाथ, सेनगांव, कळमनुरी, वसमत, हिङ्गोली |
विस्तारः | ४,५२६ च.कि.मी. |
जनसङ्ख्या(२०११) | ११,७७,३४५ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://hingoli.nic.in |
हिङ्गोलीमण्डलम् (मराठी: हिंगोली जिल्हा, आङ्ग्ल: Hingoli district) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं हिङ्गोली इत्येतन्नगम् । १९९९ तमे वर्षे परभणीमण्डलस्य विभाजनं कृत्वा स्थापितम् अतः नूतनमिदं मण्डलम् ।
भौगोलिकम्
[सम्पादयतु]हिङ्गोलीमण्डलस्य विस्तारः ४,५२६ च.कि.मी. । अस्य मण्डलस्य पश्चिमदिशि परभणीमण्डलम्, उत्तरदिशि अकोलामण्डलं, यवतमाळमण्डलम्, आग्नेयदिशि नान्देडमण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं हिङ्गोलीमण्डलस्य जनसङ्ख्या ११,७७,३४५ । अस्मिन् ६,०६,२९४ पुरुषाः, ५,७१,०५१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८१% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५३ अस्ति । अत्र साक्षरता ७८.१७% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-
१ औण्ढा नागनाथ
२ सेनगांव
३ कळमनुरी
४ वसमत
५ हिङ्गोली
लोकजीवनम्
[सम्पादयतु]गोंधळ-शाहिरी-भारुड-पोतराज-कळगीतुरा-एताः लोककलाः अस्मिन्मण्डले प्रसिद्धाः सन्ति । 'ज्वारी', कार्पासः च प्रमुखोत्पादनम् ।
वीक्षणीयस्थलानि
[सम्पादयतु]१ औण्ढा नागनाथशिवमन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमः ।
२ मल्लिनाथ-दिगम्बर-जैनमन्दिरम्
३ तुळजादेवीसंस्थानम्
४ सन्तनामदेवसंस्थानम्
५ पूर्णा पाटबन्धारे प्रकल्पः
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Hingoli district website
- [१] Archived २०१३-०६-१६ at the Wayback Machine
अकोलामण्डलम्,यवतमाळमण्डलम् | ||||
परभणीमण्डलम् | ||||
हिङ्गोलीमण्डलम् | ||||
नान्देडमण्डलम् |