सोलापुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सोलापुरमण्डलम्

Solapur district

सोलापुर जिल्हा
मण्डलम्
महाराष्ट्रराज्ये सोलापुरमण्डलम्
महाराष्ट्रराज्ये सोलापुरमण्डलम्
देशः  India
जिल्हा सोलापुरमण्डलम्
उपमण्डलानि उत्तर सोलापुर, दक्षिण सोलापुर, अक्कलकोट, बार्शी, मङ्गळवेढा, पण्ढरपूर, साङ्गोला, माळशिरस, मोहोळ, माढा, करमाळा
विस्तारः १४,८४५ च.कि.मी.
जनसङ्ख्या(२०११) ४३,१७,७५६
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://solapur.gov.in
कम्बर तडागः
सिद्धेश्वरमन्दिरम्
सोलापुरी आच्छादिकानि
पण्ढरपुर क्षेत्रम्

सोलापुरमण्डलं (मराठी: सोलापूर जिल्हा, आङ्ग्ल: Solapur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सोलापुर इत्येतन्नगरम् । अत्र निर्मितानि 'सोलापुरी चादर' सोलापुरी-आच्छादकानि आभारतं प्रसिद्धानि । पण्ढरपुर इति तीर्थक्षेत्रम् अस्मिन्नेव मण्डले विद्यते ।

भौगोलिकम्[सम्पादयतु]

सोलापुरमण्डलस्य विस्तारः १४,८४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि उस्मानाबादमण्डलं, कर्णाटकराज्यं च पश्चिमदिशि साङ्गलीमण्डलं, सातारामण्डलं, पुणेमण्डलं च, उत्तरदिशि अहमदनगरमण्डलम्, उस्मानाबादमण्डलं च, दक्षिणदिशि साङ्गलीमण्डलं, कर्णाटकराज्यं च अस्ति । अस्मिन् मण्डले ५४५.४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य प्रमुखनदी भीमा अस्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

'सोळा' अर्थात् षोडशग्रामाणां समाहारः इत्यस्य दर्शकं नाम 'सोलापुर' इति कथ्यते । शिलालेखेभ्यः ज्ञायते यत् 'सोन्नळगी', 'सोन्नळगे', 'सोनाळिपुर', 'सोनळपुर' इत्येतानि अस्य परिसरस्य पुरातननामानि आसन् । अयं मण्डलपरिसरः आन्ध्रभृत्य-चालुक्य-राष्ट्रकूट-यादव-बहमनी-मुघल-मराठाराजानाम्, आङ्ग्लप्रशासकानां च आधिपत्ये आसीत् । मुघलाधिपत्ये अस्य नाम 'सोनलपुर' इति आसीत् । आङ्ग्लाधिपत्ये अस्य नाम 'सोलापुर' अभवत् । १९३० तमे वर्षे जाते 'सविनय-कायदेभङ्ग-आन्दोलने' अत्रस्थाः जनाः सोत्साहेन भागम् ऊढवन्तः । ४ युवानः हुतात्मनः अपि अभवन् । अतः हुतात्मनः नगरम् इति प्रसिद्धमिदं मण्डलम् ।

कृषिः उद्यमाश्च[सम्पादयतु]

यवनालः(ज्वारी), गोधूमः, चणकः, 'तूर', कलायः, इक्षुः च अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । मण्डलेऽस्मिन् वस्त्रोद्यमाः प्रचलन्ति । उद्यमेभ्यः आच्छादकानि, प्रोञ्छाः उत्पाद्यन्ते । तेषां विदेशविक्रयणं भवति । 'बीडी' इति तमाखुनालि-उत्पादनम् अपि प्रचलति अत्र । तेषु उद्यमेषु सहकार-गणाः प्रचलन्ति, गणेभ्यः कर्मकराणाम् अधिकाररक्षणं भवति । मण्डलेऽस्मिन् 'रबी'-यवनाल-संशोधनकेन्द्रं, दाडिमफलसंशोधनकेन्द्रं, कृषिसंशोधनकेन्द्रं च प्रचलन्ति ।

जनसङ्ख्या[सम्पादयतु]

सोलापुरमण्डलस्य जनसङ्ख्या(२०११) ४३,१७,७५६ अस्ति । अस्मिन् २२,२७,८५२ पुरुषाः, २०,८९,९०४ महिलाः च निवसन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.१६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ७७.०२% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले एकादश-उपमण्डलानि सन्ति । तानि-

  • उत्तर सोलापुर
  • दक्षिण सोलापुर
  • अक्कलकोट
  • बार्शी
  • मङ्गळवेढा
  • पण्ढरपुर
  • साङ्गोला
  • माळशिरस
  • मोहोळ
  • माढा
  • करमाळा

लोकजीवनम्[सम्पादयतु]

सोलापुरमण्डले मराठी, कन्नड, तेलुगु इत्येताः भाषाः व्यवहारे प्रचलन्ति । मराठीभाषायाः उच्चारणे इतरभाषाणां प्रभावः दृश्यते । मण्डलेऽस्मिन् प्रमुखतया 'लिङ्गायत', 'पद्मशाली', 'धनगर' इत्येताः जनजातयः सन्ति । अत्रस्थाः जनाः उत्सवप्रियाः सन्ति । श्रीसिद्धसिद्धेश्वर इत्यस्य समाधिस्थलं तथा अत्रस्था योगदण्डस्य/'गड्ड्याची'/'काठीची' यात्रा प्रसिद्धा । आषाढ-कार्तिक-एकादशीदिनयोः रथयात्रा प्रचलति । मण्डलेऽस्मिन् यवनालोत्पादनं बहु भवति, शीतकाले 'हुरडा' इति यवनालस्य विशिष्टसंस्कृतपदार्थं जनाः खादन्ति । आमहाराष्ट्रं प्रसिद्धा, जनेषु प्रिया इयं पद्धतिः ।

व्यक्तिविशेषाः[सम्पादयतु]

  • शिवभक्तः सिद्धरामेश्वरः
  • सन्त-शुभराय-महाराजः
  • सन्त-दामाजीपन्तः
  • श्री-स्वामी-समर्थः
  • साहित्यिकाः - न.चि.केळकर, शाहीर-राम-जोशी('लावणीकार'), बा.सी. मर्ढेकर

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • पण्ढरपुर-उपमण्डले विठ्ठलरुक्मिणीमन्दिरं, भक्तपुण्डलिकमन्दिरं, तनपुरेमहाराजमठः, कैकाडीमहाराजमठः च
  • अक्कलकोट इत्यत्र स्वामी-समर्थ-महाराजस्य समाधिस्थलम्
  • बार्शी इत्यत्र भगवन्तमन्दिरम्
  • सिद्धेश्वरमन्दिरम्
  • सोलापुर इत्यत्र भूमिकोटः
  • गङ्गापुर इत्यत्र श्री दत्तात्रेयमन्दिरम्

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सोलापुरमण्डलम्&oldid=481865" इत्यस्माद् प्रतिप्राप्तम्