सामग्री पर जाएँ

सिन्धुदुर्गमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सिन्धुदुर्गमण्डलम्

Sindhudurg district

सिन्धुदुर्ग जिल्हा
मण्डलम्
महाराष्ट्रराज्ये सिन्धुदुर्गमण्डलम्
महाराष्ट्रराज्ये सिन्धुदुर्गमण्डलम्
देशः  India
जिल्हा सिन्धुदुर्गमण्डलम्
उपमण्डलानि नागपुर, नागपुर ग्रामीण, सावनेर, कळमेश्वर, नरखेड, काटोल, पारशिवनी, रामटेक, हिङ्गणा, मौदा, कामठी, उमरेड, भिवापुर, कुही
विस्तारः ९,८९७ च.कि.मी.
जनसङ्ख्या(२०११) २०,४८,७८१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://ratnagiri.gov.in
विजयदुर्गः
विजयदुर्गः
देवबाग सागरतटः
देवबाग सागरतटः
देवगडसागरतटः
सिन्धुदुर्गकोटः

सिन्धुदुर्गमण्डलं (मराठी: सिन्धुदुर्ग जिल्हा, आङ्ग्ल: Sindhudurg District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सिन्धुदुर्ग इत्येतन्नगरम् | महाराष्ट्रराज्यस्य कोकणविभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् । निसर्गरम्यसागरतटानां, दुर्गाणां (३७) च प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । छत्रपतिशिवाजीमहाराजेन निर्मापितः सिन्धुदुर्ग सागरकोटः आभरतं प्रसिद्धः ।

भौगोलिकम्

[सम्पादयतु]

सिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि अरबी समुद्रः, उत्तरदिशि रायगडमण्डलं, दक्षिणदिशि गोवाराज्यं, कर्णाटकराज्यं च अस्ति । अत्र प्रवहन्त्यः मुख्यनद्यः शास्त्री, बोर, मुचकुन्दी, काजळी, सावित्री, वासिष्ठी च सन्ति । अस्मिन् मण्डले ३२८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

कृषिः उद्यमाश्च

[सम्पादयतु]

मण्डलेऽस्मिन् कोकणप्रान्तविशिष्टानां फलानाम् उत्पादनं अधिकं भवति । पूगफलं, नारिकेलफलम्, आम्रफलं, भल्लातकः, 'कोकम', पनसफलं, जम्बुफलम् इत्यादीनि फलानि उत्पाद्यन्ते । कृषिसम्बद्धाः व्यवसायाः प्रचलन्ति । खनिजसम्पत्तिः अत्र बह्वी उपलभ्यते । अतः तत्सम्बद्धउद्यमाः बहवः सन्ति । मत्स्यव्यवसायः प्रमुखोपजीविकारूपेण अस्ति अत्र । पर्यटनार्थं प्रसिद्धोऽयं परिसरः अतः बहूनां जनानां पर्यटनव्यवसायः अपि उपजीविकात्वेन विद्यते ।

जनसङ्ख्या

[सम्पादयतु]

सिन्धुदुर्गमण्डलस्य जनसङ्ख्या(२०११) ८,४९,६५१ अस्ति । अस्मिन् ४,१७,३३२ पुरुषाः, ४,३२,३१९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -२.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०३६ अस्ति । अत्र साक्षरता ८५.५६ % अस्ति ।

ऐतिहासिकं किञ्चित्

[सम्पादयतु]

पाण्डवानां निवासः वनवासकाले अस्मिन् परिसरे आसीत् एवं कथ्यते । द्वितीयशतके कोकणविभागे मौर्य-नलवंशीयानां राजानाम् आधिपत्यमासीत् । अनन्तरं शिलाहार-पोर्तुगाली-मुघलराजानाम् आधिपत्यमासीत् अत्र । शिवाजीमहाराजेन मुघलशासकात् परिसरोऽयं जितः । अत्र सिन्धुदुर्ग सागरकोटः निर्मापितः । १८१७ तमे वर्षे परिसरोऽयं मराठाशासकेभ्यः आङ्ग्लप्रशासकैः जितः । १८३२ तमे वर्षे रत्नागिरिविभागस्य स्थापना आङ्ग्लैः कृतः । १९३० तमे वर्षे शिरोडे इत्यस्मिन् स्थाने सत्याग्रहः जातः । १९४७ तमे वर्षे विभागोऽयं स्वतन्त्रभारतदेशे समाविष्टः । १९६० तमे महाराष्ट्रराज्यनिर्मितीसमये महाराष्ट्रराज्यस्य रत्नगिरिमण्डले एव समाविष्टः आसीत् अयं परिसरः । १९८१ तमे वर्षे प्रशासनसौकर्यार्थं रत्नगिरिमण्डलात् विभाजनं कृत्वा पृथक्त्वेन सिन्धुदुर्गमण्डलस्य स्थापना कृता ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-

  • सावन्तवाडी
  • कणकवली
  • कुडाळ
  • देवगड
  • दोडामार्ग
  • मालवण
  • वेङ्गुर्ले
  • वैभववाडी

लोकजीवनम्

[सम्पादयतु]

मण्डलेऽस्मिन् आङ्ग्लाधिपत्यकालतः समाजसुधारणानां प्राचुर्यात् शिक्षणसुविधाः सन्ति । 'कोकणी' संस्कृतिः अत्र दृश्यते । गणेशोत्सवः, होलिका इत्येतौ प्रमुखोत्सवौ । गणेशोत्सवे भजन-'फुगड्या' इत्येतौ अन्तर्भवतः । गणेशोत्सवदिनेषु 'मोदक' इति कोकणविशिष्टपदार्थं जनाः पचन्ति । दशावतार इति सांस्कृतिककलाविष्कारः अत्र प्रचलति । धनगरजातीयजनैः 'दसरा' इति उत्सवः सोत्साहेन आचर्यते । दीपावलिदिनानन्तरं 'दहिकाला' जनाः कुर्वन्ति । जनानां वेशभूषायां व्यवसायपरत्वात् भिन्नता दृश्यते ।

व्यक्तिविशेषाः

[सम्पादयतु]

मण्डलमिदं बहूनां विभूतिमतानां जन्मस्थलं वा कार्यस्थलम् अस्ति । यथा समाजसुधारकः रा. गो. भाण्डारकर, अप्पासाहेब पटवर्धन, र.के.खाडिलकर, बेरिस्टर् नाथ पै च ।

वीक्षणीयस्थलानि

[सम्पादयतु]
  • सिन्धुदुर्ग सागरकोटः - सिन्धुदुर्ग इत्येषः दुर्गः शिवाजीमहाराजेन स्थापितः । शिवाजीराजस्य ध्येयम् आसीत् जञ्जिरादुर्गं स्वराज्यम् आनेतव्यम् इति । परं तत् साधयितुं न अशक्तः सः । तदा 'आरमार'(सागरसुरक्षा) इत्यस्य सबलीकरणार्थं गोविन्द विश्वनाथ प्रभु इत्यस्य साहाय्येन सिन्धुदुर्गं निर्मापितवान् । सिन्धुदुर्गस्य सबलीकरणार्थं राज्ञा पद्मदुर्गः, राजकोटः, सर्जेदुर्गः च निर्मापितः । ५० कि.मी.द्वीपपरिसरे सिन्धुदुर्गनिर्माणम् अभवत् ।

अस्मिन् मण्डले इतोऽपि बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • विजयदुर्गः
  • देवगड इत्यत्र कुणकेश्वरमन्दिरम्
  • मालवण इत्यत्र सुवर्णगणेशमन्दिरम्
  • अम्बोली गिरिधाम
  • महादेवगड कोटः, दीपगृहं च
  • सावन्तवाडी इत्यत्र राजप्रासादः
  • तेरेखोल कोटः
  • आचार खाडी (बेकवाटर)
  • तारकर्ली सागरतटः
  • यशवन्तकोटः
  • निवती-कोटः


बाह्यसम्पर्कतन्तुः

[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=सिन्धुदुर्गमण्डलम्&oldid=481849" इत्यस्माद् प्रतिप्राप्तम्