वर्धामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वर्धामण्डलम्

Vardha District

वर्धा जिल्हा
मण्डलम्
महाराष्ट्रराज्ये वर्धामण्डलम्
महाराष्ट्रराज्ये वर्धामण्डलम्
देशः  India
मण्डलम् वर्धामण्डलम्
उपमण्डलानि आर्वी, आष्टी, सेलू,समुद्रपुर, कारञ्जा, देवळी, वर्धा, हिङ्गणघाट
विस्तारः ६३०९ च.कि.मी.
जनसङ्ख्या(२०११) १२,९६,१५७
Government
 • मण्डलसङ्गाहकः
(District Collector)
एन्.नवीन सोना
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://wardha.nic.in
सेवाग्रामः
सेवाग्रामः
अगस्त-क्रान्ती-आन्दोलनम्

वर्धामण्डलं(मराठी: वर्धा जिल्हा, आङ्ग्ल: Wardha district) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं वर्धा इत्येतन्नगरम् । सेवाग्रामः-पवनार-आश्रमार्थं प्रसिद्धम् ।

भौगोलिकम्[सम्पादयतु]

वर्धामण्डलस्य विस्तारः ६३०९ च.कि.मी.मितः । अस्य मण्डलस्य पूर्वदिशि नागपुरमण्डलं, पश्चिमदिशि अमरावतीमण्डलम्, उत्तरदिशि नागपुरमण्डलं, दक्षिणदिशि यवतमाळमण्डलं च अस्ति । अस्मिन् मण्डले १०६२ मि.मी.मितः वार्षिकवृष्टिपातः भवति । वर्धामण्डले वर्धा प्रमुखनदी, वर्धानद्याः वेण्णा, यशोदा, बाकली इत्येताः उपनद्यः सन्ति । वर्धामण्डले पोथरा, बोर, धोम, कर इत्यादयः इतरनद्यः प्रवहन्ति ।

कृषिः[सम्पादयतु]

अस्मिन्मण्डले सर्वाधिकभूमिः(७५%) कृष्यर्थमेव उपयोजितः दृश्यते अर्थात् कृष्यवलम्बिता अर्थव्यवस्था अस्ति इति ज्ञायते । कार्पासः, सोया, तूर च प्रमुखकृष्युत्पादनानि सन्ति ।

जनसङ्ख्या[सम्पादयतु]

जनगणनानुगुणं(२०११) वर्धामण्डलजनसङ्ख्या १२,९६,१५७ अस्ति । अत्र ६,६८,३८५ पुरुषाः, ६,३२,३८९ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते २०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४६ अस्ति । अत्र साक्षरता ८७.२२% अस्ति ।

इतिहासः[सम्पादयतु]

वर्धानदी अतीव प्राचीना, यतो हि अस्याः उल्लेखः ई.स. पूर्वे द्वितीयशतकेऽपि प्राप्यते । वर्धानद्याः नाम्ना मण्डलस्य नाम वर्धा इति । षष्ठे शतके चालुक्यवंशीयराजानां राज्यं वर्धामण्डले आसीत् । तेषां कानिचन ताम्रपत्राणि अपि अत्र प्राप्तानि । तदनन्तरं क्रमशः मुघलवंशीय-मराठाराजानाम् आधिपत्यम् आसीत् । आङ्ग्लप्रशासनसमये १९ तमे शतके प्रशासनकारणेन वर्धामण्डलं नागपुरमण्डलात् पृथक्कृतम् ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-

  • आर्वी
  • आष्टी
  • सेलू
  • समुद्रपुर
  • कारञ्जा
  • देवळी
  • वर्धा
  • हिङ्गणघाट

लोकजीवनम्[सम्पादयतु]

वर्धामण्डले विदर्भविभागे या लोकसंस्कृतिः दृश्यते सा अत्रापि । परं केचन विशेषाः -

  • गान्धिविचाराणां, विनोबावर्याणां कार्यम् एतयोः प्रभावः लोकजीवने दृश्यते ।
  • १९६२ तमे वर्षे सहकारि अधिनियम १९६० इत्यस्य परिपालनं प्रारभत् । ततः सर्वकारेणापि सहकारिक्षेत्रे निवेशं कर्तुम् उत्साहः दर्शितः अतः सहकारिक्षेत्रे बहुप्रगतिः जाता । बापुराव देशमुख नामकेन कार्यकर्त्रा अस्मिन् कार्ये महत्त्वपूर्णः भागः ऊढः ।

विशेषाः[सम्पादयतु]

  • औगस्त क्रन्तिः -

१६ औगस्त १०४२ दिनाङ्के मण्डलेऽस्मिन् स्थितम् उपमण्डलम् आष्टी इत्यतः औगस्त क्रान्तिः प्रारब्धा । राष्ट्रसन्त तुकडोजी इत्यनेन 'पत्थर सारे बोम्ब बनेंगे, भक्त बनेगी सेना' इति उद्घोषणा तदर्थं कृता । तस्मिन् दिने प्रत्येकस्मात् ग्रामात् जनैः क्रान्तिकार्ये भागः ऊढः । तदा रक्षकैः गोलकास्रप्रयोगः कृतः, तदा ६ जनाः मृताः, ४ गभीरतया क्षतिग्रस्ताः अभवन् । ११२ जनानां कारावासमपि अभवत् । अतः १६ औगस्त दिनं हुतात्मा दिनं मत्वा पालनं कुर्वन्ति जनाः ।

वीक्षणीयस्थलानि[सम्पादयतु]

  • केळझर इति एकं गणेशमन्दिरम् । पाण्डवकालीन गणेशजलकुण्डमपि अस्ति अत्र इति जनाः वदन्ति ।
  • विश्वशान्तिस्तूपः - १९३५ तमे वर्षे एकेन जपानी महाभागेन बौद्धधर्मीयाणां प्रार्थनाकरणार्थं गान्धिना सह योजनां कृत्वा अस्य स्तूपस्य स्थापना कृता ।
  • गीताई मन्दिरम् - छदं, भित्तिकां च विहाय एतं मन्दिरं 'गीतई' इत्यास्याः विनोबावर्याणां रचनायाः स्मृतीं रक्षति ।
  • गान्धिज्ञानमन्दिरम् - एकः बृहद्ग्रन्थालयः । तस्मिन् गान्धिजीवनाधारितपुस्तकानां, गान्धिना रचितानां पुस्तकानां च सङ्ग्रहः दृश्यते ।
  • सेवाग्रामः - म.गान्धिना अस्य आश्रमस्य स्थापना कृता । जमनालाल बजाजवर्याणाम् आग्रहानुसारेण गान्धिना तत्र वास्तव्यमपि कृतम् । गान्धिवर्याणां सम्प्रयोजितानां वस्तूनामपि सङ्ग्रहः अस्ति अत्र । इदानीमपि बहुजनाः शान्तिप्राप्त्यर्थं तत्र गत्वा निवासं च कुर्वन्ति ।
  • परन्धामाश्रमः - अहिंसा, सत्य इत्यादयः गान्धिविचारैः प्रभावितः विनोबा भावेवर्याणां निवासः अत्र आसीत् । भूदानान्दोलनार्थं, भारत छोडो आन्दोलनार्थं च कृताः यत्नाः वर्धावासिभिः अनुभूताः । इदानीमपि विनोबावर्याणां विचाराणां प्रसारार्थं कार्यं प्रचलति, कार्यकर्तॄणां निवासश्च अस्ति तत्र ।
  • बोर जलबन्धः
  • ढगा अरण्यम्
  • मगन सङ्ग्रहालयः
  • बजाजवाडी - जमनालाल बजाजवर्याणां निवासस्थानं रक्षितमस्ति तत्र ।
  • पारडी - मुरलीधरभगवतः प्राचीनं मन्दिरमस्ति अत्र । वर्धानगरात् २८ कि.मी. दूरे अस्ति ।
  • हिङ्गणघाट - वास्तविकम् एकम् उपमण्डलं परं अत्रस्थेभ्यः विशेषेभ्यः प्रसिद्धमिदम् स्थानम् । भोसलेवंशीय सरदार दादोबा बोरकर इत्यनेन १८ तमे शतके मल्हारी मार्तण्डभगवतः देवालयः अत्र स्थापितः । १९५५ तमे वर्षे कोचरवर्येण जैनमन्दिरस्य स्थापना कृता । इत्येतैः विशेषैः हिङ्गाणघाटोपमण्डलं प्रसिद्धम् ।


बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वर्धामण्डलम्&oldid=480928" इत्यस्माद् प्रतिप्राप्तम्