अमी हि त्वां सुरसङ्घा...
पठन सेटिंग्स
(अमी हि त्वां - 11.21 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
- स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकविंशतितमः(२१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अमी हि त्वां सुरसङ्घा विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति स्वस्ति इति उक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥
अन्वयः
[सम्पादयतु]अमी हि सुरसङ्घाः त्वां विशन्ति । केचित् भीताः प्राञ्जलयः गृणन्ति । महर्षिसिद्धसङ्घाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वां स्तुवन्ति ।
शब्दार्थः
[सम्पादयतु]- अमी हि = एते
- सुरसङ्घाः = देवसमूहाः
- त्वां विशन्ति = त्वां प्रविशन्ति
- केचित् भीताः = केचन भयसहिताः
- प्राञ्जलयः = मुकुलितहस्ताः
- गृणन्ति = स्तुवन्ति
- महर्षिसिद्धसङ्घाः = महामुनीनां सिद्धानां च समुदायाः
- स्वस्ति इति = स्वस्ति इत्येवम्
- उक्त्वा = कथयित्वा
- पुष्कलाभिः = समृद्धाभिः
- स्तुतिभिः= नुतिभिः
- त्वां स्तुवन्ति = त्वां प्रशंसन्ति ।
अर्थः
[सम्पादयतु]एते हि देवसमूहाः त्वां प्रविशन्ति । केचित् भयसहिताः मुकुलितहस्ताः स्तुवन्ति । बहवो मुनयः सिद्धाश्च स्वस्ति इति उक्त्वा अर्थगर्भैः स्तोत्रैः त्वां प्रशंसन्ति ।