अम्बुबाची-उत्सवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अम्बुबाची-उत्सवः
{{{holiday_name}}}
कामाख्यदेवालयः
के आचरन्ति हिन्दुधर्मावलम्बिनः
वर्गः धार्मिकः, जानपदीयः उत्सवः
दिनाङ्कः जून्-मासस्य मध्यभागे

अम्बुबाची-उत्सवोऽयं हिन्दुधर्मस्य वात्सरिक उत्सवः। एवं हि लोकप्रसिद्धिरस्ति यत् - आषाढ़मासि मृगशिरानक्षत्रस्य त्रिपादि समाप्ते पृथिवी अर्थात् धरित्री माता ऋतुमयी सञ्जायते। अस्मिन्नेव समये अम्बुबाची-उत्सवोऽयं पालितो भवति।


अम्बुबाची-उत्सवस्य नियमाः[सम्पादयतु]

अम्बुबाची-उत्सवे भारतस्य कामाख्यामन्दिरे सम्मिलिताः जनाः

अम्बुबाची-उत्सवस्य आरम्भदिवसमादाय दिनत्रयं कामाख्यामन्दिरस्य द्वारं पिहितं भवति। कालेऽस्मिन् कथञ्चिदपि माङ्गलिकं कार्यं नानुष्ठीयते। चतुर्थदिवसेभ्यः माङ्गलिककार्ये न कापि बाधा भवति। अम्बुबाची-उत्सवसमये हल-चालनम्, गृहप्रवेशः, विवाहः इत्यादि शुभकार्यं निषिद्ध्यते।किञ्च, अस्मिन्नवसरे मठ-मन्दिरादीनां प्रवेशद्वारं पिधीयते।

अम्बुबाची-उत्सवः[सम्पादयतु]

अम्बुबाची-उत्सवे भारतस्य कामाख्यामन्दिरे सम्मिलिताः साधवः

अम्बुबाची-समये शक्तिपूजास्थानेषु आयोजितः उत्सवः हिन्दुधर्मीयैः "अम्बुबाची-उत्सवः" इत्युच्यते। भारतदेशस्य असमराज्यस्य गुयाहाटि-नगरस्य कामाख्या-देव्याः मन्दिरे प्रतिवत्सरम् अम्बुबाची-उत्सवः आयोज्यते। अम्बुबाची-उत्सवस्य आरम्भदिवसादेव देव्याः दर्शनं निषिद्धं भवति, अतः अस्मिन् काले मन्दिरस्य द्वारं पिधीयते। चतुर्थदिवसे देव्याः स्नानपूजाद्यवसाने सति मातृदर्शनस्य अनुमतिः दीयते। भारतस्य विभिन्नप्रान्तेभ्यः समागताः भक्ताः(वर्तमानकाले पाश्चात्त्या अपि) मन्दिरस्य चतुर्दिक्षु उपविश्य मातरं स्तुवन्ति। मन्दिरात् बहिः धूपदीपादिप्रज्वलनेन देवीं प्रणमन्ति च। अम्बुबाचीनिवृत्तेः परं पूजकाः भक्तेभ्यः रक्तवस्त्राणि उपहरन्ति। देवीपीठस्यास्य रक्तवस्त्रधारणेन मनोरथः पूर्तिं प्राप्नोति इति भक्तानां विश्वासः। इदं च रक्तवस्त्रं पुरुषाः दक्षिणहस्ते कण्ठे वा परिदधति, किञ्च महिलाः वामहस्ते कण्ठे वा परिदधति। रक्तवस्त्रमिदं परिधाय श्मशाने मृतस्य गृहे वा गमनं निषिद्धम्। आन्तर्जातीयस्तरे जातीयस्तरे च सम्प्रीतिरक्षायै कामाख्या-धाम्नः अम्बुबाची-उत्सवस्य विशिष्टमवदानमस्ति।

सम्बद्धाः लेखाः[सम्पादयतु]


बाह्यसम्पर्कसूत्राणि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अम्बुबाची-उत्सवः&oldid=463078" इत्यस्माद् प्रतिप्राप्तम्