सामग्री पर जाएँ

अरुणाचलक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अरुणाचलम् अथवा अन्नामलै तमिलनाडु राज्ये अस्ति ।पञ्चभूतलिंगक्षेत्रेषु अरुणाचलम् एकं क्षेत्रम् । दक्षिणभारते विलसित पञ्चलिंगक्षेत्रेषु अरुणाचलम् अग्रे स्थितम् । अरुणाचलस्य व्युत्पत्तिः यथा अरुण नाम रक्तवर्णः , अचलं नाम पर्वतः । अरुणपर्वतः इति अस्य तात्पर्यः। अरुण नाम पापं परिहरति इत्यर्थः । तमिलभाषायां तिरुवण्णामलै इति उच्यते । तिरु नाम श्रीः , अन्नामलै नाम बृहत् पर्वतः इति विश्लेषणम्। इदम् अति विशिष्टं पुण्यक्षेत्रम्। स्मरणमात्रेणैव मुक्तिदायकं क्षेत्रमिदम् । काशी , चिदम्बरं , तिरुवूरुणामपेक्षया भक्ताः अस्मिन् क्षेत्रे अधिकं विश्वासन्ति ।

वेद पुराणेषु अरुणाचलमाहात्म्यं विद्यते । अरुणाचलेश्वरदेवालयं शिवेच्छया विश्वकर्मणा निर्मितमिति, तं परितः अरुणमिति पुरं निर्मितमिति पुराणानि प्रतिपादयन्ति । तत्र क्रियमाण पूजाविधानं सर्वमपि शिवाज्ञया गौतममहर्षिणा प्रतिपादितमिति स्कन्दपुराणान्तर्गत अरुणाचलमाहात्म्यं ज्ञापयति। इदम् अचलं शिव इति पुराणैः उच्यते इति हेतोः अस्य अचलस्य पूर्वदिशि विद्यमान अरुणाचलेश्वरालयापेक्षया अस्य पर्वतस्यैवाधिकं प्राधान्यं दीयते । इदं ज्योतिर्लिंगमिति उच्यते । इदं तेजोलिंगमिति हेतोः अग्निक्षेत्रमिति व्यवहरन्ति । इदम् अरुणाचलं परमेश्वरज्योतिर्लिंगस्वरूपमिति हेतोः क्षेत्रं परितः प्रदक्षिणं साक्षात् शिवं परितः प्रदक्षिणमिति भक्तानां विश्वासः । रमणमहर्षिणापि वारं वारम् अस्य प्राशस्त्यम् उद्घोषितम् । पादचारिणोभूत्वा शिवस्मरणं कुर्वन्तः प्रदक्षिणं कुर्वन्ति चेत् महापुण्यं सिध्यति इति महात्मानां वचनम् । अतः एव अनुनित्यं बहवः गिरिप्रदक्षिणं कुर्वन्ति । अचले विद्यमान महौषधीनां प्रभावेण शरीरस्य, शिवस्मरणेन मनसः, शिवानुग्रहणेन आध्यात्मिकजीवनस्वास्थ्यं भवतीति भक्तानां विश्वासः । गिरिप्रदक्षिणं अधिकतया पूर्वस्मिन् मार्गे भवति । अधुना तु गिरिप्रदक्षिणानुकूलाय मार्गं परितः पद्भ्यां गन्तुं मार्गं निर्मितवन्तः । बहवः प्रातः सूर्यतापं सोढुम् अश्क्ताः रात्रौ अथवा उषःकाले गिरिप्रदक्षिणं कुर्वन्ति। रमणाश्रमात् २ कि, मी दूरं गत्वा ततः दक्षिणमार्गं गच्छामः चेत् विनायकमन्दिरम् आयाति।. ततः गिरिं पश्यामः चेत् नन्दि इव दृश्यते ।

विषयसूची

१ गिरिप्रदक्षिणम्

२ रमणाश्रमम्

३ शेषाद्रिस्वाम्याश्रमः

४ चेन्नैतः दूरः

५ चित्रमूलकम्

६ मूलानि

७ अन्यनि योजनानि

गिरिप्रदक्षिणम्

गिरिप्रदक्षिणकरणसमये स्वीकरणीयाः जगरूकताः

पादरक्षाभ्यां विना गिरिप्रदक्षिणं करणीयम्।

अधिकभारयुक्तानि मा स्वीकुर्वन्तु ( स्यूतादिकम् )।

गिरिप्रदक्षिणं १४ कि,मी दूरं यावत् भवति।

प्रातः काले गिरिप्रदक्षिणम् अतीव कष्टप्रदम् , अतः नववादनात् पूर्वमेव समापनीयम्।

गिरिप्रदक्षिणं पूर्णिमादिवसेषु अधिकाः कुर्वन्ति।

नाणकस्वीकरणं मा विस्मरन्तु।

गिरिप्रदक्षिणे पुरतः शिवालयं वर्तते इत्यस्य शिखरस्य पुरतः विद्यमानं शिवालयम् इत्यर्थः।

नित्यानन्दाश्रमसमीपे एव भक्त कन्नप्पमन्दिरं वर्तते।

भक्ताः गिरिप्रदक्षिणं प्रतिदिनं कुर्वन्ति।

२०१६ वर्षे गिरिप्रदक्षिणदिनांकाः : जनवरि २३( शनि),फरवरी२१(रवि),मार्चि २२(मंगल),एप्रैल् २१(गुरु), मई२१(शनि),जून्१९ (शनि),जुलाई १९(मंगल), अगस्त१७(गुरु),सितम्बर्१६(शुक्र),अक्तूबर् १५(शनि),  नवम्बर्१३(रवि), दिसम्बर्१३(मंगल)।

रमणाश्रमम्

प्रधानव्यासः : श्रीरमणाश्रमः

रमणाश्रमम् अरुणाचलेश्वरालयस्य २ कि, मी दूरे अस्ति । अरुणाचलेश्वरं गतवन्तः जनाः रमणाश्रमं पश्यन्ति। तत्र स्थानिकानामपेक्षया वैदेशिकाः अधिकाः दृश्यन्ते। सायं समये रमणाश्रमे क्रियमाणा प्रार्थना अति समीचीना भवति।  रमणाश्रमे रमणमहर्षिणां समाधिः द्रष्टुं श्क्यते। रमणाश्रमे मर्कटाः अधिकाः दृश्यन्ते।  मयूराः अपि स्वेच्छया विहरन्ति।  रमणाश्रमे इतोपि लक्ष्म समाधिः , काकसमाधिः, शुनकसमाधिः अपि द्रष्टुं शक्यते। एते सर्वे अपि श्रेण्यां सन्ति। तत्र विद्यमान ग्रन्थालये रमणमहर्षिविषयक पुस्तकानि लभ्यन्ते। यदि आश्रमे स्थतुम् इच्छन्ति चेत् पूर्वसूचना दातव्या ।

श्रीरमणाश्रमः

रमणाश्रमात् पूर्वमेव शेषाद्रिस्वाम्याश्रमम् अस्माभिः द्रष्टुं शक्यते ।  शेषाद्रिस्वामिनः समाधिरपि तत्र विद्यते । तत्रापि स्थातुं नियमाः सन्ति । तत्रापि पूर्वसूचना दातव्या ।

चेन्नैतः दूरः

चेन्नैतः १८५ कि, मी दूरे अस्ति । चेन्नै मध्ये कोयंबेडु बस् स्थानकात् अरुणाचलं गन्तुं ४-५ होराः भवन्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=अरुणाचलक्षेत्रम्&oldid=463079" इत्यस्माद् प्रतिप्राप्तम्