अलेक्जाण्डर् ग्राहम् बेल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अलेग्झाण्डर् ग्रहां बेल्
Portrait of Alexander Graham Bell
ca. 1914–1919
जन्म March 3, 1847
Edinburgh, Scotland, UK
मृत्युः २, १९२२(१९२२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-०२) (आयुः ७५)
Beinn Bhreagh, Nova Scotia, Canada
मृत्योः कारणम् Complications from diabetes
शान्तिस्थानम् Beinn Bhreagh Edit this on Wikidata
निवासः U.K., U.S., Canada
देशीयता संयुक्तराज्यानि, ग्रेट ब्रिटेन और आयरलैंड का यूनाइटेड किंगडम Edit this on Wikidata
नागरिकता Scotland, USA, Canada
शिक्षणस्य स्थितिः University of Edinburgh
University College London
वृत्तिः Inventor, scientist, engineer,
professor (boston university), teacher of the deaf
कृते प्रसिद्धः Inventing the Telephone
भार्या(ः) Mabel Hubbard
(married 1877–1922)
अपत्यानि (4) Two sons who died in infancy and two daughters
पितरौ Alexander Melville Bell
Eliza Grace Symonds Bell
सम्बन्धिनः Gardiner Greene Hubbard (father-in-law)
Gilbert Hovey Grosvenor (son-in-law)
Melville Bell Grosvenor (grandson)
Mabel Harlakenden Grosvenor (granddaughter)
Gilbert Melville Grosvenor (great-grandson)
Chichester Bell (cousin)
हस्ताक्षरम्

अलेग्झाण्डर् ग्रहां बेल् (जीवितकालः- १८४७ तमवर्षस्य मार्चतृतीयदिनाङ्कतः १९२२तमवर्षस्य आगस्टद्वितीयदिनाङ्कपर्यन्तम्) ऐदम्प्राथम्येन दूरवाणीयन्त्रस्य आविष्करणम् अयम् कृतवान् । एषः उत्कृष्टविज्ञानी, आविष्कारकः, तन्त्रांशज्ञः चिन्तकः च आसीत् । विद्युत्चालितदूरसम्पर्काः, हैड्रो फायिल्, वायुयानविज्ञानस्य परिवर्तनजन्यकार्येषु ग्रहां बेल् वर्यस्य योगदानं सदा स्मर्तव्यम् अस्ति । १८८८ तमे वर्षे न्याषनल् जियाग्राफिक् सोसैटी इत्यस्याः संस्थायाः सदस्येषु अलग्झाण्डर् ग्रहां बेल् अन्यतमः आसीत् ।

प्रथमः आविष्कारः[सम्पादयतु]

बाल्यदिनेषु ग्रहां बेल् भौतिकजगति कौतूहलवान् जातः आसीत् । अस्य परिणामतया सस्यवर्गाणां सङ्कलनं प्रयोगानि च अल्पे वयसि कृतवान् । बेल् आरम्भिकदशायां संवेदनात्मकस्वभावशीलः आसीत् । तस्य माता कला- कविता-सङ्गीतसम्बन्धि- अन्तर्विहितगुणान् प्रेरितवती आसीत् । औपचारिकपाठनं विना पियानोवादनम् अधीतवान् । पियानो वादकः च अभवत् । मातुः क्रमशः बधिरता या आसीत् सा बधिरता बेल् उपरि गाढपरिणामम् अजनयत् । ( तस्य द्वादशे वयसि मातुः श्रवणशक्तेः ह्रासः आरब्धः ) । अतः सः अङ्गुलीसंज्ञाभाषाम् अधीतवान् । अपि च परिसरे गृहे प्रचलितवार्ताः अङ्गुल्या मातरं सूचयन् असीत् । स्पष्टतया, कम्पनात्मकरूपेन स्थायिध्वनिना कथनस्य कौशलं वर्धितवान् । सः अनया शैल्या मातोः ललाटस्य पाश्वे यदि वदति तर्हि माता स्पष्टतया अवगच्छति स्म । सः ’मातुः बधिरतायाः परिहारः’ एव स्वीयम् आद्यकर्तव्यम् इति विचिन्त्य श्रवणविज्ञानाध्ययनं कृतवान् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]