अवत्सरः
वत्सरः नाम ऋषिः ऋग्वेदेन सम्बद्धः । तस्य उल्लेखः प्रथमतः पञ्चमे मण्डले वर्तते, पञ्चमं मण्डलं द्वतीयमण्डलादपि पूर्वं दृष्टम्[१]।
पूर्वपीठिका
[सम्पादयतु]अवत्सरः ऋग्वेदस्य पञ्चमे मण्डले ४४ सूक्ते विद्यमानां विश्वदेवाः नाम ऋग्वेद-देवतानां स्तुतीनां रचयिता इति ख्यातः।तस्य प्रसिद्धा कृतिः १०.५३-१०.६० अष्टसूक्तानि । प्रतिसूक्ते चत्वारः मन्त्राः विद्यन्ते। सः सामवेदसूक्तानां सा.वे.७५७, सा.वे.१७१७ अपि द्रष्टा[२]।
तथा अवत्सरः देवानां होता । ॐ अग्निये स्वाहा इति होत्र्या अग्निः संतुष्टः ततः वत्सरः विमुक्तः अभवत्[३]। सत्यसधाप्रकारेण (२१.३.१३) काश्यपगोत्राणां प्रवरः त्रयणां ऋषिपितॄणां सम्बद्धः - कश्यपः अवत्सरः नैध्रुवः च[४]।अष्ट प्रमुखाः ऋषयः काश्यपगोत्रे वर्तन्ते: कश्यपः अवत्सरः निधुर्वः रेभः देवलः असितः भूतंसः विव्रः इति । रेभस्य द्वौ अनामधेयौ पुत्रौ च केषाञ्चन ऋग्वेदसंहितानां रचयितारौ[५]।
अवत्सरः वैदिक ऋषिः
[सम्पादयतु]अवत्सरः कश्यपस्य पुत्रः । कश्यपऋषिः वामदेवात् भिन्नः, किन्तु अत्रेः पूर्वः [६]। अवतः पदस्य अर्थः मानवनिर्मितह्रदः अथवा जलकूपः [७][८]। अवत्सरप्रस्रवणः यस्य पिता कश्यपः ऋषिः ऋग्वेदे उल्लेखितः। तस्य नाम पञ्चमे मण्डले ४४ सूक्ते प्रथमतः विद्यते [९]।
अवत्सरस्य ख्यातिर्भवति नवमस्य मण्डलस्य ५३-६० सूक्तानां विषये। तेषु प्रतिसूक्तं मन्त्रचतुष्टयं गायत्रीछन्दसि निबद्धमस्ति। ऋग्वेदे अवत्सरः ईश्वरम् अद्रिवः इति सम्बोधयति। अद्रिवः बहूनि आयुधानि धृत्वा सूक्ष्माभिः महाशक्तिभिः सर्वान् दुष्टबलान् हन्ति (ऋ.वे.९.६३.१)। अनन्तरं अवत्सरः ईश्वरं शुक्रमिति सम्बोधयति। शुक्रम् अन्वर्थः पावकः अथवा निर्मलः ज्वलितः सूर्येण सदृशः इति [१०]।
अवत्सरस्य उल्लेखः यजुर्वेदे अपि लभ्यते(य.वे.III.i, III.xviii) यत्र सः अग्निम् आह्वयति [११] तथैव ऐतरेय ब्राह्मणे कौशितकि ब्राह्मणे च। ऐतरेयब्राह्मणे (ऐ.ब्रा २.२४) कौशितकिब्राह्मणे च (कौ.ब्रा.८.६) विद्यमानाः मन्त्राः पञ्चमहायज्ञानां विषये बोधयन्ति। अवत्सरः अग्नेः लोकं प्राप्तवान् तथा परमं लोकमपि [१२]।
ऋग्वेदसूक्ते (९.५३) अवत्सरः अस्मभ्यं ज्ञापयति कथं ज्ञानिनः सनातनतत्त्वानि दर्शनानि वेदेषु प्राप्नुवन्ति। ऋग्वेदमन्त्रे (९.६०.३) स कथयति-
अति वारन्यवमानो असिष्यद्त्कल्शां अभि धावति | इन्द्रस्य हार्द्याविशन् ||
स देवः ज्ञानस्वरूपः चिद्रूपः शुद्धज्ञानिनां हृदि विष्ठितः तथा सर्वाणां बुद्धजीविनां मनसि हृदि च वर्तते ये ईश्वरं पूर्णं जानन्ति किन्तु तद्ज्ञानेन तेषु अस्मिता नास्ति [१३]।
कश्यपाः
[सम्पादयतु]कश्यपमरीचिना अन्यतमः कश्यपः अपि प्रायेण आसीत् यस्य अपत्यानि अवत्सरः नारदः अरुन्धती च। सा अरुन्धती वशिष्ठस्य पत्नी एव । एष अन्यतमः कश्यपः एव सप्तर्षिषु अन्यतमः इति गण्यते [१४][१५][१६]।
मत्स्यपुराणे उल्लेखिताः ऋषयः एते - कश्यपस्य द्वौ पुत्रौ अवत्सरः असितः च। अवत्सरस्य पुत्रौ निधुर्वः रेभश्च । किन्तु एषा शृङ्खला शङ्कनीया । अन्यतर वंशवृत्तान्तः त्रीन् काश्यपवंशान् सूचयति - शाण्डिल्याः नैध्रुवः रैभ्याश्च [१७]। एतेषां सर्वेषु गोत्रप्रवरेषु ऋषिः देवलः प्रस्तावितः यः अष्टवसोः पुत्रः। अतः एष द्वितीयः कश्यपः (नैध्रुवः शाण्डिल्य इत्यादि गोत्राः) अष्टवसोः अपत्यं एव मरीचिकश्यपः न।
श्रीमद्भागवतमहापुराणे चतुर्थस्कन्दे अष्टमोऽध्याये मैत्रेयमहर्षिणा कथितं ध्रुवः उत्तानपादसुरुच्योः पुत्रः स्वयम्भुवमनोः पोत्रश्च ।तस्य ब्राह्मी नाम अग्रराज्ञ्याः द्वौ पुत्रौ आस्ताम् वत्सरश्च कल्मवत्सरः अथवा कल्पः च नामनि [१८][१९]।।
गोत्रम्
[सम्पादयतु]अवत्सरः कश्यपगोत्रस्य प्रवरः तथा द्वयोः शाण्डिल्यगोत्रयोः प्रवरश्च [२०]।
उल्लेखाः
[सम्पादयतु]- ↑ Shrikant G.Talageri. The Rig Veda: A Historical Analysis. Aditya Prakashan. Archived from the original on 2014-01-16. Unknown parameter
|access-date=
ignored (help); Unknown parameter|url-status=
ignored (help) - ↑ All Four Vedas. Agniveer. pp. 124–134, 326, 409–417, 734.
- ↑ Arthur Barriedale Keith. Rig Veda Brahmanas:The Aitareya and Kausitaki Brahmanas of the Rig Veda. Motilal Banarsidass. p. 419.
- ↑ Dhundiraja Ganesa. Sarautakosah:Encyclopaedia of Vedic Sacrificial Rituals. p. 1016.
- ↑ Purushottam Lal Bhargava. India in the Vedic Age. D.K.Print World. p. 221.
- ↑ Islamkotob. Rig Veda A Historical Analysis. Islamic Books. p. 102.
- ↑ Arthur Anthony Macdonell. Vedic Index of Names and Subjects Vol.1. Motilal Banarsidass. pp. 39–40.
- ↑ Macdonell, A.A.; Keith, A.B. (1995). Vedic Index of Names and Subjects (v. 1; v. 5). Motilal Banarsidass. p. 40. ISBN 9788120813328. आह्रियत 2015-02-09.
- ↑ Jayantanuja Bandopadhayaya. Class and Religion in Ancient India. Anthem Press. p. 13.
- ↑ Ravinder Kumar Soni. The Illumination of Knowledge. GBD Books. pp. 246–247.
- ↑ Agniveer. All Four Vedas. Agniveer. p. 46.
- ↑ Arthur Barriedale Keith. Rig Veda Brahmanas:The Aitareya and Kausitaki Brahmanas of the Rig Veda. Motilal Banarsidass. p. 153.
- ↑ Ravinder Kumar Soni. The Illumination of Knowledge. GBD Books. pp. 247–248.
- ↑ Sita Nath Pradhan. Chronology of Ancient India. Bhartiya Publishing House. p. 90.
- ↑ Praci-jyoti. Kurukshetra University.
- ↑ Ganga Ram Garg. Encyclopaedia of the Hindu World Vol.3. Concept Publishing Company. p. 839.
- ↑ F.E.Pargiter. Ancient Indian Historical Tradition. Motilal Banarsidass. p. 231.
- ↑ Francis Wilford. On the chronology of the Hindus Asiatic Researches Vol. 5. New Jersey College Library. p. 253.
- ↑ Swami Venkatesananda. The Concise Srimad Bhagvatam. Suny Press. p. 86,90.
- ↑ The Early Brahmanical System of Gotra and Pravara. Cambridge University Press. p. 36.