अश्वललितम् = अद्रितनया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अश्वलालितम् इत्यस्मात् पुनर्निर्दिष्टम्)

अश्वललितम् = अद्रितनया।
प्रतिचरणम् अक्षरसङ्ख्या 23
यदिह नजौ भजौ भ्जभलगास्तदाश्वललितं हरार्कयतिमत्। केदारभट्टकृत- वृत्तरत्नाकर:३.१०४

नजभजभा जभौ लघुगुरू बुधैस्तु गदितेतमद्रितनया।

।।। ।ऽ। ऽ।। ।ऽ। ऽ।। ।ऽ। ऽ।। ।ऽ
न ज भ ज भ ज भ ल ग।
यति: एकादशभि: द्वादशभि: च।
उदाहरणम् -
जनिरहितोऽप्यहं प्रकृतिमान्भवामि निजमायया तनुधर:,
बलवदधर्ममीक्ष्य यदि वा प्रणष्टमपि धर्ममार्गमवनौ।
सुजनसुरक्षणाय जननं च दिव्यमसतां वधाय भविता,
रचयितुमत्र धर्मपदवीं प्रबुद्धमिति चेन्न तस्य जननम्॥

सम्बद्धाः लेखाः[सम्पादयतु]