आख्याहि मे को भवान्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(आख्याहि मे को - 11.31 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकत्रिंशत्तमः(३१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

आख्याहि मे कः भवान् उग्ररूपः नमः अस्तु ते देववर प्रसीद विज्ञातुम् इच्छामि भवन्तम् आद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥

अन्वयः[सम्पादयतु]

देववर ! उग्ररूपः भवान् कः मे आख्याहि । ते नमः अस्तु । प्रसीद । आद्यं भवन्तं विज्ञातुम् इच्छामि । तव प्रवृत्तिं न हि प्रजानामि ।

शब्दार्थः[सम्पादयतु]

देववर = देवश्रे !
उग्ररूपः = भयरस्वरूपः
भवान् कः = त्वं कः
मे आख्याहि = मह्यं कथय
ते नमः = तव प्रणामः
अस्तु = भवतु
प्रसीद = प्रसन्नो भव
आद्यम् = प्रथमम्
भवन्तम् = त्वाम्
विज्ञातुम् = वेदितुम्
इच्छामि = अभिलषामि
तव = ते
प्रवृत्तिम् = चेष्टाम्
न हि प्रजानामि = न वेद्मि ।

अर्थः[सम्पादयतु]

देवश्रेष्ठ ! भयरस्वरूपः त्वं कः इति मह्यं कथय । तव प्रणामः अस्तु । अनुगृहाण । प्रथमं त्वां वेदितुम् इच्छामि । तव प्रवृत्तिं न जानामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आख्याहि_मे_को_भवान्...&oldid=418457" इत्यस्माद् प्रतिप्राप्तम्