आनन्दीबाई गोपालराव जोशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आनन्दीबाई जोशी
डा. आनन्दीबाई जोशी, एम्. डि., १८८६
जन्म (१८६५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-३१)३१ १८६५
कल्याण्, बाम्बे प्रेसिडेन्सि, ब्रिटिश्-भारतम्
मृत्युः २६ १८८७(१८८७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-२६) (आयुः २१)
पुणे, बाम्बे प्रेसिडेन्सि, ब्रिटिश्-भारतम्
शान्तिस्थानम् पोहकीप्सी Edit this on Wikidata
शिक्षणस्य स्थितिः Drexel University, Woman's Medical College of Pennsylvania Edit this on Wikidata
वृत्तिः चिकित्सक&Nbsp;edit this on wikidata
भार्या(ः) गोपालराव् जोशी
आनन्दी गोपाल जोशी वर्यायाः भावचित्रं स्वीयहस्ताङ्कनेन सह

आनन्दीबाई जोशी (३१ मार्च् १८६५-२६ फेब्रवरी १८८७) पाश्चात्यवैद्यकीयपदवीं प्राप्तवती प्रथमा महिला वैद्या । (कादम्बिनी गङ्गूली अपि अस्मिन्नेव १८८६ तमे वर्षे आनन्दबाईवर्यायाः अनन्तरं वैद्यकीयपदवीधरा जाता ।) इयं पाश्चात्यवैद्यकीयपदवीं प्राप्तवती प्रथमा हिन्दुमहिला । [१] अमेरिकादेशं गतवती प्रथमा हिन्दुमहिला इयमेव । [२]

आरम्भिकजीवनम्[सम्पादयतु]

आनन्दाबाय्याः पूर्वनाम यमुना । सा महाराष्ट्रस्य पुणेनगरे कस्मिंश्चित् साम्प्रदायिके ब्राह्मणकुटुम्बे जन्म प्राप्नोत् । स्वीये नवमे वर्षे नवविंशतिवर्षीयेन गोपालरावेण सह अस्याः विवाहः सम्पन्नः । विवाहात् परं तस्याः नाम आनन्दिबाई इति जातम् ।

अस्याः पतिः गोपालरावः महाराष्ट्रस्य कल्याणनगरे लिपिकाररूपेण कार्यं करोति स्म । ततः सः अलिभागं प्रति ततः कोलकातानगरं प्रति स्थानपरिवर्तनं जातम् । स्त्रीशिक्षणविषये गोपालरावस्य विशेषा आस्था आसीत् । आनन्दबाय्याः आसक्तिम् अभिज्ञाय सः तस्याः शिक्षणव्यवस्थाम् अकरोत् ।

आनन्दीबाई स्वीये चतुर्दशे वयसि पुत्रं प्रासूयत । किन्तु योग्यचिकित्सायाः अभावतः सः शिशुः दशमे दिने एव प्राणान् अत्यजत । आनन्दीबाय्याः जीवने अस्य परिणामः महान् आसीत् । तदा एव सा 'मया वैद्यया भवितव्यम्' इति सङ्कल्पितवती ।

वैद्यकीयविद्याभ्यासः[सम्पादयतु]

गोपालरावः वैद्यकीयशिक्षणं प्राप्तुं पत्नीं प्रेरितवान् । १८८० तमे वर्षे सः प्रसिद्धाय अमेरिकीयक्रैस्तप्रचारकाय रायल् वैल्डर्-वर्याय प्रत्रं प्रेषितवान् । तस्मिन् पत्रे अमेरिकादेशे वैद्यकीयशिक्षणं प्राप्तुम् आनन्दीबाय्याः आसक्तिं निवेद्य, स्वस्य कृते योग्यम् उद्योगम् अमेरिकादेशे प्रापयतु इति प्रार्थितवान् आसीत् । क्रैस्तधर्मं प्रति परिवर्तितौ भवतः चेत् तयोः साहाय्यं करिष्यामि इति वैल्डरेण उक्तम् । जोशीदम्पतिना अयम् आशयः नाङ्गीकृतः ।

एषः विषयः वैल्डरेण स्वीये प्रिन्स्टन्स् मिषिनरि रिव्यू प्रकाशने तेन प्रकटितम् । इदं रोसेल्ले, न्यू जेर्सि निवासिन्या थियोडिशिया कार्पेण्टर्-वर्यया पठितम् । आनन्दीबाय्याः वैद्यकीयशिक्षणप्राप्तौ आसक्तिः, तत्पत्युः प्रोत्साहश्च तस्याः मनसि महान्तं प्रभावम् अजनयत् । 'आनन्दाबाय्याः वसतिव्यवस्था अमेरिकादेशे मया करिष्यते' इति सा पत्रद्वारा असूचयत् ।

कोलकतानगरे आनन्दाबाय्याः अस्वास्थ्यं वर्धमानम् आसीत् । निश्शक्तिः, निरन्तरं शिरोवेदना, कदाचित् ज्वरः, श्वासावरोधः च तां बाधन्ते स्म । १८८३ तमे वर्षे गोपालरावस्य सेरम्पुरं प्रति स्थानपरिवर्तनं जातम् । तदवसरे तेन निर्णीतं यत् अस्वास्थ्ये सति आनन्दाबाई वैद्यकीयाध्ययनाय अमेरिकां प्रति प्रेषणीया इति । 'उच्चशिक्षणप्राप्त्यर्थम् अन्यासां महिलानाम् आदर्शरूपा भवतु' इति उक्त्वा सातङ्कां तां समाधत्तवान् । अमेरिकादेशे वैद्यकीयशिक्षणप्राप्तेः तस्याः निर्णयं तदानीन्तनाः बहवः साम्प्रदायिकहिन्दवः महान्तं विरोधं प्रादर्शयन् । किन्तु पत्युः दृढः प्रोत्साहः तस्याम् आत्मविश्वासम् अवर्धयत् ।

आनन्दाबाई सेराम्पोर्-महाविद्यालये जनसमूहम् उद्दिश्य भाषणम् अकरोत् । तस्मिन् सा अमेरिकादेशे वैद्यकीयशिक्षणप्राप्तेः निर्णयः, तन्निमित्तं दम्पतिना क्रियमाणाः प्रयासाः च विवृतवती । भारते हिन्दुमहिलावैद्यायाः आवश्यकतां दृढं ज्ञापितवती । शिक्षणं प्राप्य भारतं प्रत्यागत्य महिलावैद्यकीयमहाविद्यालयस्थापनेच्छाम् अवदत् । 'कदापि क्रिश्चियन्-मतं प्रति परिवर्तिता न भवामि' तया उक्तम् । तस्याः भाषणं बहु प्रसिद्धिं प्राप्नोत् । आर्थिकसाहाय्यं कर्तुं आभारतात् बहवः अग्रे आगताः । भारतस्य वैसेरायेण तस्याः शिक्षणाय २०० रूप्यकाणि प्रदत्तम् ।

अमेरिकादेशे[सम्पादयतु]

१८८६ तमे वर्षे पेन्सिल्वेनिया-वैद्यकीय-महाविद्यालयात् पदवीधरा जाता आनन्दाबाई । के ओकमी (मध्ये), टबट् इस्लमूलि (दक्षिणे) । तिस्रः अपि पाश्चात्यवैद्यशिक्षणं प्राप्तवत्यः प्रथमाः ।

आनन्दाबाई कोलकत्तातः नौकया न्यूयार्क्-नगरम् अगच्छत् । १८८३ तमे वर्षे जून्-मासे न्यूयार्क्-नगरे थियोडिशिया कार्पेण्टर् तां स्वागतीकृतवती । सा पेन्सेल्वेनिया-महिला-वैद्यकीयमहाविद्यालयं प्रति शिक्षणाय आवेदनम् अकरोत् । [३] तया तत्र प्रवेशः प्राप्तः ।

स्वीये नवदशवर्षे तया वैद्यकीयविद्याभ्यासः आरब्धः । शैत्याधिक्यकारणतः, अपरिचिताहारपद्धतेः च कारणतः तस्याः अस्वास्थ्यम् अवर्धत । तथापि १८८६ तमस्य वर्षस्य मार्च्-मासस्य ११ दिनाङ्के तया वैद्यकीयशिक्षणे स्नातकोत्तरपदवीधरा जाता । तस्याः शोधविषयः आसीत् - 'अर्यहिन्दूमहिलानां प्रसूतिः शिशुपालनञ्च' इति । तस्याः पदवीस्वीकारावसरे राज्ञी विक्टोरिया तस्यै अभिनन्दनसन्देशं प्रेषितवती ।

भारतं प्रत्यागमनम्[सम्पादयतु]

१८८६ तमस्य वर्षस्य अन्तिमभागे आनन्दाबाई भारतं प्रत्यागतवती । तदवसरे तया अभूतपूर्वं स्वागतं प्राप्तम् । कोल्हापुरस्य आर् सि एस् एम् सर्वकारचिकित्सालयस्य सि पि आर् चिकित्सालयस्य च महिलाविभागस्य प्रमुखवैद्याधिकारिरूपेण तस्याः नियुक्तिः जाता ।

मृत्युः[सम्पादयतु]

१८८७ तमस्य वर्षस्य फेब्रवरीमासस्य २६ तमे दिनाङ्के स्वीये २२ तमे वयसि आनन्दाबाई दिवङ्गता । तस्याः मरणात् आदेशे सर्वे दुःखम् अन्वभवन् । तदीयं भस्म थियोडिया कार्पेण्टर् वर्यायै अपि प्रेषितम् यच्च सा स्वीयकुटुम्बश्मशाने एव अस्थापयत् ।


जीवनचरितम्[सम्पादयतु]

केरोलिन् वेल्स् हीले डाल् १८८८ तमे वर्षे आनन्दाबाय्याः जीवनचरितम् अलिखत् । [४]

दूरदर्शनेन आनन्दाबाय्याः जीवनम् आधारीकृतय आननी गोपालनाम्ना हिन्दीधारावाहिनी प्रकाशिता । (कम्लाकर् सारङ्ग् अस्याः धारावाहित्याः निर्देशकः ।)

श्रीकृष्ण जनार्दन जोशीवर्येण आनन्दाबाय्याः जीवनम् आधारीकृत्य आनन्दी गोपाल नाम्ना उपन्यासः रचितः । अस्याः नाटकरूपम् अददात् श्री राम् जि जोगेल्कर् ।

स्मरणाय[सम्पादयतु]

  • लक्नोनगरस्थया इन्स्टिट्यूट् फार् रिसर्च् एण्ड् डाक्युमेण्टेशन् इन् सोशियल् सैन्सस् (IRDS) नाम्न्याः असर्वकारीयसंस्थया, आनन्दाबाई प्रशस्तिः प्रदीयते । भारते वैद्यकीयशिक्षणविषये तस्याः योगदानं मनसि निधाय इदं प्रदीयते । [५]
  • महाराष्ट्रसर्वकारेण महिलास्वास्थ्याया साधनं कुर्वतीनां युवमहिलानां कृते फेलोशिप् दीयते ।

टिप्पणी[सम्पादयतु]

  1. Eron, Carol (1979). "Women in Medicine and Health Care". In O'Neill, Lois Decker. The Women's Book of World Records and Achievements. Anchor Press. p. 204. ISBN 0-385-12733-2. "First Hindu Woman Doctor" 
  2. "Historical Photos Depict Women Medical Pioneers". Public Radio International. 2013-07-12. आह्रियत 2013-10-29. 
  3. Scan of letter Archived २०१८-०९-२९ at the Wayback Machine from Anandibai Joshi to Alfred Jones, 28 June 1883; DUCOM Archives
  4. The Life of Dr. Anandabai Joshee: A Kinswoman of the Pundita Ramabai Archived २०१८-०९-२९ at the Wayback Machine, Roberts Brothers, Boston इति संस्थया प्रकाशितम्
  5. "IRDS Awards 2011". Irdsindia.com. आह्रियत 29 October 2013. "आनन्दाबाई कष्टपरम्परायां सत्यां महता परिश्रमेण अमेरिकादेशस्य पेनिल्वेनियाविश्वविद्यालयतः १९ शतके एव आधुनिके वैद्यकीयशिक्षणे स्नातकोत्तरपदवीं प्राप्नोत् ।" 

आधारग्रन्थाः[सम्पादयतु]

  • Documents at the Drexel University College of Medicine Archives and Special Collections on Women in Medicine and Homeopathy referencing Anandi Gopal Joshi

बाह्यसम्पर्काः[सम्पादयतु]