सामग्री पर जाएँ

आनन्दीबाई गोपालराव जोशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(आनन्दीबाई जोशी इत्यस्मात् पुनर्निर्दिष्टम्)
आनन्दीबाई जोशी
डा. आनन्दीबाई जोशी, एम्. डि., १८८६
जन्म (१८६५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-३१)३१ १८६५
कल्याण्, बाम्बे प्रेसिडेन्सि, ब्रिटिश्-भारतम्
मृत्युः २६ १८८७(१८८७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-२६) (आयुः २१)
पुणे, बाम्बे प्रेसिडेन्सि, ब्रिटिश्-भारतम्
शान्तिस्थानम् पोहकीप्सी Edit this on Wikidata
शिक्षणस्य स्थितिः Drexel University, Woman's Medical College of Pennsylvania Edit this on Wikidata
वृत्तिः चिकित्सक&Nbsp;edit this on wikidata
भार्या(ः) गोपालराव् जोशी
आनन्दी गोपाल जोशी वर्यायाः भावचित्रं स्वीयहस्ताङ्कनेन सह

आनन्दीबाई जोशी (३१ मार्च् १८६५-२६ फेब्रवरी १८८७) पाश्चात्यवैद्यकीयपदवीं प्राप्तवती प्रथमा महिला वैद्या । (कादम्बिनी गङ्गूली अपि अस्मिन्नेव १८८६ तमे वर्षे आनन्दबाईवर्यायाः अनन्तरं वैद्यकीयपदवीधरा जाता ।) इयं पाश्चात्यवैद्यकीयपदवीं प्राप्तवती प्रथमा हिन्दुमहिला । [] अमेरिकादेशं गतवती प्रथमा हिन्दुमहिला इयमेव । []

आरम्भिकजीवनम्

[सम्पादयतु]

आनन्दाबाय्याः पूर्वनाम यमुना । सा महाराष्ट्रस्य पुणेनगरे कस्मिंश्चित् साम्प्रदायिके ब्राह्मणकुटुम्बे जन्म प्राप्नोत् । स्वीये नवमे वर्षे नवविंशतिवर्षीयेन गोपालरावेण सह अस्याः विवाहः सम्पन्नः । विवाहात् परं तस्याः नाम आनन्दिबाई इति जातम् ।

अस्याः पतिः गोपालरावः महाराष्ट्रस्य कल्याणनगरे लिपिकाररूपेण कार्यं करोति स्म । ततः सः अलिभागं प्रति ततः कोलकातानगरं प्रति स्थानपरिवर्तनं जातम् । स्त्रीशिक्षणविषये गोपालरावस्य विशेषा आस्था आसीत् । आनन्दबाय्याः आसक्तिम् अभिज्ञाय सः तस्याः शिक्षणव्यवस्थाम् अकरोत् ।

आनन्दीबाई स्वीये चतुर्दशे वयसि पुत्रं प्रासूयत । किन्तु योग्यचिकित्सायाः अभावतः सः शिशुः दशमे दिने एव प्राणान् अत्यजत । आनन्दीबाय्याः जीवने अस्य परिणामः महान् आसीत् । तदा एव सा 'मया वैद्यया भवितव्यम्' इति सङ्कल्पितवती ।

वैद्यकीयविद्याभ्यासः

[सम्पादयतु]

गोपालरावः वैद्यकीयशिक्षणं प्राप्तुं पत्नीं प्रेरितवान् । १८८० तमे वर्षे सः प्रसिद्धाय अमेरिकीयक्रैस्तप्रचारकाय रायल् वैल्डर्-वर्याय प्रत्रं प्रेषितवान् । तस्मिन् पत्रे अमेरिकादेशे वैद्यकीयशिक्षणं प्राप्तुम् आनन्दीबाय्याः आसक्तिं निवेद्य, स्वस्य कृते योग्यम् उद्योगम् अमेरिकादेशे प्रापयतु इति प्रार्थितवान् आसीत् । क्रैस्तधर्मं प्रति परिवर्तितौ भवतः चेत् तयोः साहाय्यं करिष्यामि इति वैल्डरेण उक्तम् । जोशीदम्पतिना अयम् आशयः नाङ्गीकृतः ।

एषः विषयः वैल्डरेण स्वीये प्रिन्स्टन्स् मिषिनरि रिव्यू प्रकाशने तेन प्रकटितम् । इदं रोसेल्ले, न्यू जेर्सि निवासिन्या थियोडिशिया कार्पेण्टर्-वर्यया पठितम् । आनन्दीबाय्याः वैद्यकीयशिक्षणप्राप्तौ आसक्तिः, तत्पत्युः प्रोत्साहश्च तस्याः मनसि महान्तं प्रभावम् अजनयत् । 'आनन्दाबाय्याः वसतिव्यवस्था अमेरिकादेशे मया करिष्यते' इति सा पत्रद्वारा असूचयत् ।

कोलकतानगरे आनन्दाबाय्याः अस्वास्थ्यं वर्धमानम् आसीत् । निश्शक्तिः, निरन्तरं शिरोवेदना, कदाचित् ज्वरः, श्वासावरोधः च तां बाधन्ते स्म । १८८३ तमे वर्षे गोपालरावस्य सेरम्पुरं प्रति स्थानपरिवर्तनं जातम् । तदवसरे तेन निर्णीतं यत् अस्वास्थ्ये सति आनन्दाबाई वैद्यकीयाध्ययनाय अमेरिकां प्रति प्रेषणीया इति । 'उच्चशिक्षणप्राप्त्यर्थम् अन्यासां महिलानाम् आदर्शरूपा भवतु' इति उक्त्वा सातङ्कां तां समाधत्तवान् । अमेरिकादेशे वैद्यकीयशिक्षणप्राप्तेः तस्याः निर्णयं तदानीन्तनाः बहवः साम्प्रदायिकहिन्दवः महान्तं विरोधं प्रादर्शयन् । किन्तु पत्युः दृढः प्रोत्साहः तस्याम् आत्मविश्वासम् अवर्धयत् ।

आनन्दाबाई सेराम्पोर्-महाविद्यालये जनसमूहम् उद्दिश्य भाषणम् अकरोत् । तस्मिन् सा अमेरिकादेशे वैद्यकीयशिक्षणप्राप्तेः निर्णयः, तन्निमित्तं दम्पतिना क्रियमाणाः प्रयासाः च विवृतवती । भारते हिन्दुमहिलावैद्यायाः आवश्यकतां दृढं ज्ञापितवती । शिक्षणं प्राप्य भारतं प्रत्यागत्य महिलावैद्यकीयमहाविद्यालयस्थापनेच्छाम् अवदत् । 'कदापि क्रिश्चियन्-मतं प्रति परिवर्तिता न भवामि' तया उक्तम् । तस्याः भाषणं बहु प्रसिद्धिं प्राप्नोत् । आर्थिकसाहाय्यं कर्तुं आभारतात् बहवः अग्रे आगताः । भारतस्य वैसेरायेण तस्याः शिक्षणाय २०० रूप्यकाणि प्रदत्तम् ।

अमेरिकादेशे

[सम्पादयतु]
१८८६ तमे वर्षे पेन्सिल्वेनिया-वैद्यकीय-महाविद्यालयात् पदवीधरा जाता आनन्दाबाई । के ओकमी (मध्ये), टबट् इस्लमूलि (दक्षिणे) । तिस्रः अपि पाश्चात्यवैद्यशिक्षणं प्राप्तवत्यः प्रथमाः ।

आनन्दाबाई कोलकत्तातः नौकया न्यूयार्क्-नगरम् अगच्छत् । १८८३ तमे वर्षे जून्-मासे न्यूयार्क्-नगरे थियोडिशिया कार्पेण्टर् तां स्वागतीकृतवती । सा पेन्सेल्वेनिया-महिला-वैद्यकीयमहाविद्यालयं प्रति शिक्षणाय आवेदनम् अकरोत् । [] तया तत्र प्रवेशः प्राप्तः ।

स्वीये नवदशवर्षे तया वैद्यकीयविद्याभ्यासः आरब्धः । शैत्याधिक्यकारणतः, अपरिचिताहारपद्धतेः च कारणतः तस्याः अस्वास्थ्यम् अवर्धत । तथापि १८८६ तमस्य वर्षस्य मार्च्-मासस्य ११ दिनाङ्के तया वैद्यकीयशिक्षणे स्नातकोत्तरपदवीधरा जाता । तस्याः शोधविषयः आसीत् - 'अर्यहिन्दूमहिलानां प्रसूतिः शिशुपालनञ्च' इति । तस्याः पदवीस्वीकारावसरे राज्ञी विक्टोरिया तस्यै अभिनन्दनसन्देशं प्रेषितवती ।

भारतं प्रत्यागमनम्

[सम्पादयतु]

१८८६ तमस्य वर्षस्य अन्तिमभागे आनन्दाबाई भारतं प्रत्यागतवती । तदवसरे तया अभूतपूर्वं स्वागतं प्राप्तम् । कोल्हापुरस्य आर् सि एस् एम् सर्वकारचिकित्सालयस्य सि पि आर् चिकित्सालयस्य च महिलाविभागस्य प्रमुखवैद्याधिकारिरूपेण तस्याः नियुक्तिः जाता ।

मृत्युः

[सम्पादयतु]

१८८७ तमस्य वर्षस्य फेब्रवरीमासस्य २६ तमे दिनाङ्के स्वीये २२ तमे वयसि आनन्दाबाई दिवङ्गता । तस्याः मरणात् आदेशे सर्वे दुःखम् अन्वभवन् । तदीयं भस्म थियोडिया कार्पेण्टर् वर्यायै अपि प्रेषितम् यच्च सा स्वीयकुटुम्बश्मशाने एव अस्थापयत् ।


जीवनचरितम्

[सम्पादयतु]

केरोलिन् वेल्स् हीले डाल् १८८८ तमे वर्षे आनन्दाबाय्याः जीवनचरितम् अलिखत् । []

दूरदर्शनेन आनन्दाबाय्याः जीवनम् आधारीकृतय आननी गोपालनाम्ना हिन्दीधारावाहिनी प्रकाशिता । (कम्लाकर् सारङ्ग् अस्याः धारावाहित्याः निर्देशकः ।)

श्रीकृष्ण जनार्दन जोशीवर्येण आनन्दाबाय्याः जीवनम् आधारीकृत्य आनन्दी गोपाल नाम्ना उपन्यासः रचितः । अस्याः नाटकरूपम् अददात् श्री राम् जि जोगेल्कर् ।

स्मरणाय

[सम्पादयतु]
  • लक्नोनगरस्थया इन्स्टिट्यूट् फार् रिसर्च् एण्ड् डाक्युमेण्टेशन् इन् सोशियल् सैन्सस् (IRDS) नाम्न्याः असर्वकारीयसंस्थया, आनन्दाबाई प्रशस्तिः प्रदीयते । भारते वैद्यकीयशिक्षणविषये तस्याः योगदानं मनसि निधाय इदं प्रदीयते । []
  • महाराष्ट्रसर्वकारेण महिलास्वास्थ्याया साधनं कुर्वतीनां युवमहिलानां कृते फेलोशिप् दीयते ।

टिप्पणी

[सम्पादयतु]
  1. Eron, Carol (1979). "Women in Medicine and Health Care". In O'Neill, Lois Decker. The Women's Book of World Records and Achievements. Anchor Press. p. 204. ISBN 0-385-12733-2. "First Hindu Woman Doctor" 
  2. "Historical Photos Depict Women Medical Pioneers". Public Radio International. 2013-07-12. आह्रियत 2013-10-29. 
  3. Scan of letter Archived २०१८-०९-२९ at the Wayback Machine from Anandibai Joshi to Alfred Jones, 28 June 1883; DUCOM Archives
  4. The Life of Dr. Anandabai Joshee: A Kinswoman of the Pundita Ramabai Archived २०१८-०९-२९ at the Wayback Machine, Roberts Brothers, Boston इति संस्थया प्रकाशितम्
  5. "IRDS Awards 2011". Irdsindia.com. Archived from the original on 5 November 2013. आह्रियत 29 October 2013. "आनन्दाबाई कष्टपरम्परायां सत्यां महता परिश्रमेण अमेरिकादेशस्य पेनिल्वेनियाविश्वविद्यालयतः १९ शतके एव आधुनिके वैद्यकीयशिक्षणे स्नातकोत्तरपदवीं प्राप्नोत् ।" 

आधारग्रन्थाः

[सम्पादयतु]
  • Documents at the Drexel University College of Medicine Archives and Special Collections on Women in Medicine and Homeopathy referencing Anandi Gopal Joshi

बाह्यसम्पर्काः

[सम्पादयतु]