आरती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
        आरात्रिकः

हिन्दुउपासनायाः एका विधिः आरात्रिकः अस्ति। एतस्यां विध्यां आराधकः प्रदीप्तं ज्योतं वा तस्य समं कश्चित् विशेषं द्रव्यं

वा आराध्यदेवस्य पुरतः  विधिपूर्वकः चक्राकारे भ्रामयति। दीपके घृतं वा तैलं वा कर्पूरं पूरयित्वा सः दीपकस्य ज्योतः प्रकटिकरोति। जनाःवैकल्परूपेण घृतस्य धूपस्य  सुगन्धितपदार्थानामपि  प्रयोगं कुर्वन्ति।   बहुशः एतस्मिन् समये भजनं कीर्तनं नृत्यमपि आयोजितम्। देवालयेषु आरात्रिकः प्रातःकाले सायंकाले एवं शयनकाले --रात्रिसमये मन्दिरस्य द्वारबन्धकाले भवति ।

प्राचीनकाले इयं विधिः विस्तृतरूपेण प्रचलितमं अभवत्। तमिलभाषायां अरात्रिकं दीप आराधनई नाम्नेन ख्यातः। सामान्यतया पूजान्तकाले आराध्यदेवस्य आरात्रिकः भवति। आरात्रिकस्य नानाविधानि सामग्रीः प्रयोजिताः। तेषु विशेषो अर्थः विद्यते ।न केवलं आरात्रिककार्यं अपितु आरात्रिककाले उपस्थितिमात्रं पुण्यप्रदम्- इति जनाः मन्यन्ते। कोडपि देवस्य आरात्रिककरणसमये त्रिवारं पुष्पार्पणं करणीयम्। तस्मिन् समये भेरीः पणवः आनकवादनमपि आवकार्यमस्ति। आरात्रिक कर्तारः मनांसि एतादृशं कल्पयेत्--यत् स पञ्चप्राणानां सहाय्येन आरात्रिकं कुर्वति। घृतस्य ज्योतिः जीवात्मनः प्रतिकः अस्ति। यदि भक्तः अन्तःकरणेन ईश्वरं आह्वयते तर्हि तं पञ्चारति इति ब्रूयते।आरात्रिकः एकस्मिन् दिने एकवारात् पञ्चवारः पर्यन्तं क्रियते ।तत् स्रर्वप्रकाराणां धार्मिकसमारोहेषु तथा उत्सवानां अन्ते क्रियते। एक पात्रात् शुद्धं घृतं गृहित्वा एकम संख्यया(3,5,7) ज्योतः रचयित्वा पञ्चवारं आरात्रिकः क्रियते। प्रथमं दीपमालेन सह , द्वितीयं जलधृतं शंखेन सह, तृतीयं वारं स्वच्छवस्त्रेण सह, चतुर्थं आम्रपत्रेण सह वा पिप्पलपत्रेण सह, पञ्चमं वारं साष्टाङ्गेन सह अर्थात् शरीरस्य पञ्च अङ्गैःसह(मस्तिष्कः, ह्रदयः द्वौ स्कन्धौ, द्वो हस्तौ. द्वै जाह्लूःच) ।आरात्रिकः यथा पञ्चप्राणानां प्रतिको वर्तते तथा मनुष्यशरीरस्य पञ्चप्राणानां अपि प्रतिकःइति मन्यन्ते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आरती&oldid=463082" इत्यस्माद् प्रतिप्राप्तम्