आवर्तनम् (Frequency)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


Three cyclically flashing lights, from lowest frequency (top) to highest frequency (bottom). f is the frequency in hertz (Hz), meaning the number of cycles per second. T is the period in seconds (s), meaning the number of seconds per cycle. T and f are reciprocal (mathematics)

यदा कञ्चन वस्तु पदार्थो वा ध्वनेः स्त्रोतरुपे कार्यं करोति तर्हि वयं आवर्तनत्वस्य सहयोगेन तस्य ध्वनेः गतिमापनं कर्त्तु शक्नुमः । अर्थात् आवर्तनत्वस्य सहयोगेन ध्वनिस्त्रोतस्य कम्पनगतिं परिगण्यते । अपि च कस्यापि पदार्थस्य कम्पनगतिरेव भवति आवृत्तिः । फलतः आवर्तनत्वमधिकं भवति तस्यावृत्तिः अपि अधिका भवति, तथा यस्यावृत्तिः न्य़ूना भवति तस्य आवर्तनत्वमपि न्य़ूनं भवति । अस्य मापनं हर्टजमाध्यमेन भवति । एकं हर्ट्ज इति एका आवृत्तिः प्रति –विपलं (सेकेण्ड) भवति । एकः जनः २० तः २०००० हर्टज् पर्यन्तं ध्वनेः कम्पनं श्रोतुं समर्थः भवति । २०००० तः अधिकं ध्वनिं जनाः श्रोतुं न पारयन्ति । अयमेव भवति अल्ट्रासोनिक् ध्वनिः, पराध्वनिको ध्वनिर्वा । १५००० हर्टज् तः अधिकःध्वनिः जनानां कृते हानिप्रदः भवति । अनेन मनुष्याणां श्रवण- यन्त्रं प्रभावितं भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आवर्तनम्_(Frequency)&oldid=482483" इत्यस्माद् प्रतिप्राप्तम्