इन्द्रनीलः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इन्द्रनीलः
इन्द्रनीलः
इन्द्रनीलः

उत्पत्तिः[सम्पादयतु]

सिंहलद्वीपे रावणगङ्गाकूले पद्माकाराकरे च तस्य सम्भवः ।

दोषाः[सम्पादयतु]

नीलस्य षड्दोषाः -

  1. अभ्रकम्
  2. सशर्करम्
  3. भिन्नम्
  4. मृत्तिकागर्भम्
  5. भेदसंशयकृत्
  6. अश्मगर्भम् चेति ।

गुणाः[सम्पादयतु]

  1. गुरुत्वम्
  2. स्निग्धकान्तित्वम्
  3. सुरङ्गम्
  4. पार्श्वरञ्जनम्
  5. तृणग्राहित्वम् इति तस्य गुणाः पञ्च ।

छाया[सम्पादयतु]

नीलस्य च्छाया -

  1. वैष्णवी (नीलीरससमा भासा) आवली
  2. पुष्पसङ्काशा
  3. नीलेन्दीवरसमप्रभा
  4. अतसीपुष्पसङ्काशा
  5. चाषपक्षसमद्युतिः
  6. मयूरकण्ठसच्छाया
  7. भृङ्गपक्षसमप्रभा

परीक्षा[सम्पादयतु]

क्षीरमध्ये नीलं यदा क्षिप्यते तदा दुग्धं नीलतां व्रजेच्चेत् तत् इन्द्रनीलमित्युच्यते ।

"https://sa.wikipedia.org/w/index.php?title=इन्द्रनीलः&oldid=391726" इत्यस्माद् प्रतिप्राप्तम्