उन्नतकूर्दनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उन्नतकूर्दनं (High Jump) अथ्लेटिक्-क्रीडासु एका प्रसिद्धाक्रीडा वर्तते ।

अथ्लेटिक्स्
High jump
पुरुषाणां विक्रमाः
विश्वस्तरे फलकम्:Country data CUB Javier Sotomayor 2.45 m (1993)
ओलिम्पिक्-क्रीडायाम् संयुक्तानि राज्यानि Charles Austin 2.39 m (1996)
महिलानां विक्रमाः
विश्वस्तरे फलकम्:Country data BUL Stefka Kostadinova 2.09 m (1987)
ओलिम्पिक्- क्रीडोत्सवे Russia Yelena Slesarenko 2.06 m (2004)

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

उन्नतकूर्दनं 'हाय् जम्प्’ नाम्ना विख्यातस्यास्य उन्नतकूर्दनस्य विकासपरम्परा १८७६ त्मेशवीयवत्सरे अमेरिकावास्तव्येन एच० श्राई० फिकन० नामकेन क्रीडकेन ५' ५" इञ्चमितोच्च्कूर्दनद्वारा राष्ट्रिय-प्रतियोगितायां विजयप्राप्त्या प्रवर्तिता । तत्प्रभावातिशयेन दशवर्षानन्तरं १८८७ तमे वर्षे डब्ल्यू० वी० येजः ६' ४" मितकूर्दनेन कीर्तिमानं स्थापितवान् । ततो ऽग्रे १८६५ तमे वत्सरे माइक एफ् स्वीनेमहोदयः ६' ५ ५/४" मानेनोच्चैः कूर्दनेन कीर्तिमानमस्थापयत् एतेन सहैवायं स्वीनेमहोदय एकां नवीनामुन्नतकूर्दनस्य पद्धतिमपि पुरस्कृतवान् या हि 'इस्ट्रनरोल्’ नाम्ना विख्याताऽस्ति । इतः पूर्व सर्वेऽपि कूर्दनकलाविदः 'सीजर-विधेः’ प्रयोगं कुर्वन्ति स्म । सन् १६१२ तमे हायने 'जार्ज होरिनः’ ६’७" मानकं कूर्दनं विधाय यशोऽर्जितवान् । अयमप्येकं नवीनं विधिं 'वेस्टर्न् रोल्’ नामकमजनयत् । एवमेव् मेक्सिकोनगरे सम्पन्ने १६६८ तमेशवीयवत्सरे क्रीडोत्सवे श्रीफासवरी-महोदयोऽप्येकामभिनवां पद्धतिं प्रादर्शयद् यस्या गवेषण सम्प्रत्यपि विधीयते । इत्थमस्योन्नतकूर्दनस्य साफल्याय सम्प्रति चत्वारो विधयः प्रयुज्यन्ते, तेषां नामानीत्यं विद्यन्ते-

'परिस्थितयः पुरुषं शिक्षयन्ति, बोधयन्ति पुरोवर्धनस्य पन्थानं च दर्शयन्ति’ इत्येषा भणितिः सुतरां सत्या वर्तते । यदा प्राचीनकाले मानवः प्राकृतिकैः पीडनैरात्मानं मोक्तुं प्राकृतान्येव साधनानि प्रयुङ्क्ते स्म तदा स सत्यामावश्यकतायां स्वशक्त्यनुरुपमुन्नतं स्थानमुल्लिलङ्घषुः सन् समुन्नतकूर्दनेनावश्यकतापूर्तये प्रयतते स्म । विकासवर्त्मनि विचरद्भिर्विचारशीलैः परिशीलितं तत्रापि तस्य विधेर्विकासाय ।

विधीनां नामानि-

  1. सीजर्-विधिः ।
  2. ईस्ट्रन्-विधिः ।
  3. वेस्ट्रन्-रोल्-विधिः
  4. स्ट्रेडल्-विधिः ।

एतेषु तृतीयचतुर्थविधियुगलम् इह परिचयाय प्रस्तूयते -

वेस्ट्रन्-रोल्-विधिः[सम्पादयतु]

अयं विधिः (१) धावनमार्गः (२) उच्छलनबिन्दुः(३) यष्टयुल्लङ्घनम् (४) भूम्यवतरणम् इत्येतैः चतुर्भिर्विभागैः संवलितो विध्यते । तत्र हि -

१. धावनमार्गविभागे -उल्लङ्घनयष्टेः ४५ कोणे भवति एतस्य लम्बता च ७-८ पादमिता भवति । एतस्मिन् केचन धावनकलाविदो द्वयोस्त्रयाणां वा परीक्षणचिह्नानां प्रयोगं कुर्वन्ति । तत्र (क) प्रथमं चिह्नमुच्छलन बिन्दुर्भवति यो यष्टया प्रायः ३' दूरे (हस्तस्यायामसमानो) विधीयते । द्वितीयं चिह्नमुच्छलनात् चतुष्पददूरे यष्टितः ४५ कोणे तथा तृतीयं चिह्नं द्वितीयाच्चतुरथवा त्रिपदमितेनायामेन कुर्वन्ति । तृतीयं लक्ष्म कूर्दकस्य धावनारम्बचिह्नं भवति । वैस्ट्रनरोलविधौ कूर्दकस्योच्छलनचरणं यष्टिं प्रति भवति, अतस्तेनैन भागेन स धावति येन पादेन स उच्छलति । अष्टचरणक्रमणवान् तृतीये चिहने समुत्पतनचरणं तथा सप्तचरणक्रमणवान् विपरीतं चरणं स्थापयित्वा धावनं प्रारभते । धावन काले तेनेदं ध्यातव्यं यदहमुच्चतां लङ्घयिष्यामि लम्बतां नैव, अतः स प्रारम्भिकानि त्रिचतुश्चरणक्रमणानि साहजिकतया तथोत्तरवर्तिनि चतुश्चरणक्रमणानि पूर्णया शक्त्या धावति ।

२.उच्छलनबिन्दुविभागे - कूर्दनस्यान्तिमं चरणं लम्बकूर्दनस्य विपरीतं पूर्ववर्ति च क्रमण्मतीव दीर्धं भवति । अन्तिमाद्दीर्घचरणक्रमणात् (१) कटिप्रदेशे पूर्णं वलनं, (२) स्वतन्त्रस्य पादस्य स्वतन्त्रमुच्छलनं तथा (३) गुरुत्वाकर्षणकेन्द्रे शमुच्छलनबिन्दोः पृष्ठे समतलवेगं शक्तौ परिवर्तनसुविध्यं जायते । उच्छलन्ग्रहणकाले प्रथममुच्छलनगृहीतुः पादस्य पार्ष्णिर्भूमिं स्पृशति ततः परं पादतलं प्रत्युत्थातु प्रवर्तते । यदि वामं पादं समुच्छलनकरं पादं मानयेम तर्हि निम्नोक्ताः शक्तयो युगपत कार्यं करिष्यन्ति तथा प्रलम्बकूर्दनवदेकं समानान्तरं चतुर्भुजं निर्मास्यन्ति

  1. दक्षिणचरण्स्योर्ध्वभागं प्रति शक्तिशाली प्रक्षेपः ।
  2. वामचरणस्य जानोः सरलीभावस्य शक्तिः ।
  3. भूमेरुच्छलनम् ।
  4. ह्स्तयोरुर्ध्वभागं प्रत्युच्छलनम् ।

प्रलम्बकूर्दनस्य तथोच्चैः कूर्दनस्य सक्तिसमानान्तरचतुर्भुजे केवलमियदन्तरं भवति यदस्य परिणामशक्तिः प्रलम्बकूर्द नस्य शक्तेरधिकं बृहतकोणं निर्माति यतो हि प्रलम्बकूर्दनस्य गतिरुन्नतकूर्चनस्य गत्याऽधिकं भवति ।

(३) यष्टयुल्लङघनविभागे - प्रक्रियायां यदोच्छलनस्य कार्यं समाप्नोति तथा शरीरं यष्टेरुपरि समागच्छति तदा कूर्दको वामपादस्य शक्तिमतोच्छलनेन शरीरं यष्टेः समानान्तरेण परिक्राम्यति । वामः पादो यष्टेः शरीरस्य च मध्ये वलितायां स्थितौ तिष्ठति । दक्षिणं ह्स्तं यष्टेरुर्ध्वभागादधोभूमिं प्रति नयति यतः शरीरं यष्टौ भ्राम्यति । अस्मिन् समये कूर्दकस्य शिर ऊर्ध्वमुत्थाय भुवं प्रत्यायाति वामं पादं अ त्वरया जानोरुन्नमयन्नुच्चैः प्रक्षिप्य पादसाहाय्येन भुवमुपयाति ।

(४)भूम्यवतरणविभागे -द्वयोर्हस्तयोस्तथोत्पतिष्णोः पदस्य साहाय्येनावतरणस्थलीं कूर्दकोऽवतरति ।

स्ट्रेडल्-विधिः[सम्पादयतु]

अस्मिन् विधावपि वेस्ट्रनरोल्-विधिवदेव् स्वतन्त्रस्य चरणस्योच्छलनमेव शरीरं यष्टेरुपर्यानयति तत्रान्तरं केवलमिदमेवास्ति यदुच्छलनकारी पादोऽत्र वलितो न भूत्वा पृष्ठाकर्षणस्थितौ तिष्ठति । कूर्दको यष्टौ जठरबलेनागच्छति । पृष्ठेन पादेन यष्टौ कबन्धपरिवर्तनमेवात्र विशिष्यते यतोऽस्मिन् विधौ यष्टिः सदैव पृष्ठवर्तिना पादेनैव पतति ।

स्ट्रेडल्-विधौ कूर्दकस्य शिरोऽतीव महत्त्वं भजते । यदा कूर्दको यष्टेरुपर्यधिकतमोच्चतायां भवति तदा स शिरः पृष्ठभागं प्रति निचैर्वलयन् नयति तथा दृष्टिमुच्छलनबिन्दौ ददाति । एतस्मादयं लाभो भवति यत पृष्ठवर्ती पादो यष्ठिस्पर्श विना ततोऽवतरति । अवतरणकाले कूर्दको दक्षिणपादस्य हस्तस्य च सहाय्येनावतरणस्थल्यां पतति तथा सहैव तदभुव एकस्मिन् भागे लुठति ।

आधारः[सम्पादयतु]

अभिनवक्रीडातरङ्गिणी

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उन्नतकूर्दनम्&oldid=485019" इत्यस्माद् प्रतिप्राप्तम्