ऋणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
ऋणम्
ऋणम् चित्रम्
ऋणम् चित्रम्

ऋणम् - अर्यते-ऋ (गतौ) 'क्तः' (३-२-१०२) । नत्वम् (८-२-६०) । निपा. ।

ऋणं भवति द्विविधम् - लौकिकम् अलौकिकञ्चेति ।

मनुष्यः स्वस्य कुटुम्बस्य आवश्यकतायाः पूरणाय, वाणिज्यादिनिमित्तं वा धनिकात् धनं यत् प्राप्नुयात् तत् लौकिक-ऋणम् इति उच्यते ।

कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः ।
समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः । (मनु ८-१७७)

प्रत्येकस्य मनुष्यस्य ऋणत्रयं भवति -

देवऋणम्
ऋषि-ऋणम्
पितृ-ऋणम् च । इदम् अलौकिकम् ऋणम् इति उच्यते ।
देवानां च पितॄणां च ऋषीणां च तथा नरः ।
ऋणवान् जायते यस्मात्तन्मोक्षे प्रयतैन्नरः । वि ध

जगति सर्वः अपि व्यवहारः ऋणमयाः । यस्मात् या गतिः प्रकाशिता भवति पुनः तस्मिन् एव तस्याः गतेः विलयनमेव 'ऋणम्' इति उच्यते । तदा एव तस्य विमुक्तिः । अस्याः पृष्ठभूमिकायामेव धर्मस्य स्वरूपं निर्णीतं भवति । यावत् ऋणबन्धः स्यात् तावत् धर्मस्वरूपम् अव्यक्तं भवति । ऋणस्य गतौ व्यत्ययः यदि स्यात् तर्हि धर्मस्वरूपमेव नष्टं भवेत् । अतः तस्य आदान-प्रदाने विवेकपूर्णः व्यवहारः अपेक्षितः । अन्यथा ऋणस्य सम्पर्कः सूक्ष्मरीत्या भवति एव । तावत् अधमर्णत्वम् अनुवर्तते, धर्मस्य पुरोगतिः न भविष्यति ।

मानवजन्म ऋणत्रयेण युक्तमस्ति । एतेषां प्रत्यर्पणं विना जीवने औन्नत्यं प्राप्तुं न शक्यते । तद्विना धार्मिकप्रज्ञा न प्राप्यते । तदा जगत् भवति अन्धकारमयम् । अतः स्मृतिकाराः 'ऋणादान'प्रकरणे ऋणानां वैविध्यम्, व्याप्तिञ्च विवृण्वन्ति । एतदाधारेण धर्मस्य गतिं निर्णयस्य गतिं च स्पष्टीकुर्वन्ति स्मृतिकाराः। ऋणं प्रत्युपकारसापेक्षं भवति । तदा एव तस्य वासुस्थितिः प्रकाशिता भवति । अस्यां स्थितौ धर्मः सापेक्ष-निरपेक्ष-उपाधिरहितः सन् स्वस्थितौ रमते ।

ऋणस्य स्वरूपं गतिः च क्षेत्रभेदात् भिन्नाः भवन्ति । स्थूल-सूक्ष्मस्तरेषु अस्माकं जीवने युक्ताः भवन्ति । स्वस्वरूपे प्रतिष्ठितः सन् अनन्त-निरुपाधिकस्थितौ जीवनस्य आनन्दम् अनुभोक्तुम् ऋणं बन्धकं भवति । अतः मानवः जीवने क्रियमाणेषु लोकव्यवहारेषु जागरूकतया विवेकेन गतिशीलः स्यात् । तदा ऋणानि परमानन्दानुभवस्य पोषकाः भवन्ति ।

धर्मस्य गतिः गहना । तदीयं तत्त्वं तपोभूमिकायां निगूहितं भवति । अतः तस्य अवगमनमपि तपोभूमिकायामेव शक्यं न तु बाह्यव्यवहारभूमिकायाम् । इदं सम्यक् जानद्भिः ऋषिभिः दिव्यव्यवस्था परिकल्पिता अस्ति । अस्य प्रभावः भवति दिव्यः । स्थूलबुद्ध्या गोचरितं न भवेत् । अनया दृष्ट्या एव स्थूलव्यवहारः व्यवस्थितः अस्ति । अतः ऋणस्य व्याप्तिः प्रभावश्च दिव्यः भवति । दिव्यभूमिकायां सृष्टायाः ऋणस्य गतेः अनुसृत्य भौतिकक्षेत्रे व्यवस्थितसोपानानि भवन्ति ।

"https://sa.wikipedia.org/w/index.php?title=ऋणम्&oldid=392752" इत्यस्माद् पुनः प्राप्तिः