एतच्छ्रुत्वा वचनं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(एतच्छ्र्त्वा वचनं - 11.35 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

सञ्जय उचाच -

एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चत्रिंशत्तमः(३५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिः वेपमानः किरीटी नमस्कृत्वा भूयः एव आह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥

अन्वयः[सम्पादयतु]

किरीटी केशवस्य एतत् वचनं श्रुत्वा कृताञ्जलिः वेपमानः भीतभीतः कृष्णं नमस्कृत्वा सगद्गदं भूयः एव प्रणम्य आह ।

शब्दार्थः[सम्पादयतु]

किरीटी = अर्जुनः
केशवस्य = श्रीकृष्णस्य
एतत् = इदम्
वचनम् = वाक्यम्
श्रुत्वा = आकर्ण्य
कृताञ्जलिः = मुकुलितकरः
वेपमानः = कम्पमानः
भीतभीतः = भयसहितः
कृष्णम् = श्रीकृष्णम्
नमस्कृत्वा = प्रणम्य
सगद्गदम् = निरुद्धकण्ठम्
भूयः एव = पुनरपि
प्रणम्य = नमस्कृत्वा
आह = उवाच ।

अर्थः[सम्पादयतु]

श्रीकृष्णस्य एतत् वाक्यं श्रुत्वा अर्जुनः मुकुलितकरः कम्पमानः भयसहितश्च सन् कृष्णं नमस्कृत्य गद्गदितकण्ठः पुनरपि प्रणम्य अवोचत् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एतच्छ्रुत्वा_वचनं...&oldid=418497" इत्यस्माद् प्रतिप्राप्तम्