सामग्री पर जाएँ

वीरप्प मोयिलि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(एम्.वीरप्पमोयिली इत्यस्मात् पुनर्निर्दिष्टम्)
वीरप्प मोयिलि
ವೀರಪ್ಪ ಮೊಯ್ಲಿ
तैलेन्धनविभागःMinister of Petroleum and Natural Gas
कार्यालये
28 October 2012  17 May 2014
प्रधानमन्त्री Manmohan Singh
पूर्वगमः Murli Deora
पादानुध्यातः Dharmendra Pradhan
Minister of Corporate Affairs
कार्यालये
13 July 2011  28 October 2012
प्रधानमन्त्री Manmohan Singh
पूर्वगमः Hansraj Bhardwaj
पादानुध्यातः Sachin Pilot
Minister of Power
कार्यालये
31 July 2012  28 October 2012
प्रधानमन्त्री Manmohan Singh
पूर्वगमः Sushilkumar Shinde
पादानुध्यातः Jyotiraditya Madhavrao Scindia
Minister of Law and Justice
कार्यालये
28 May 2009  28 May 2011
प्रधानमन्त्री Manmohan Singh
पूर्वगमः Hansraj Bhardwaj
पादानुध्यातः Salman Khurshid
Chief Minister of Karnataka
कार्यालये
19 November 1992  11 December 1994
Governor Khurshed Alam Khan
पूर्वगमः S. Bangarappa
पादानुध्यातः H. D. Deve Gowda
व्यक्तिगत विचाराः
जननम् (१९४०-२-२) १२ १९४० (आयुः ८६)
मूडबिद्रे, ब्रिटिश्-भारतम्
राजनैतिकपक्षः भारतीयराष्ट्रियकाङ्ग्रेस्
पतिः/पत्नी मालती मोयिलि
अपत्यानि 3 पुत्र्यः
1 पुत्रः
मुख्यशिक्षणम् मङ्गलूरु विश्वविद्यालयः
यूनिवर्सिटि ला कालेज्, बेङ्गलूरु
धर्मः हिन्दुधर्मः
जालस्थानम् Official Website

कार्कळ उपमण्डलस्य मूडुबिदरेसमीपे मार्पाडिग्रामे तम्मय्य पूवम्मदम्पत्योः पुण्यसन्तानरूपेण क्रि.श.१९४०तमे वर्षे जनवरिमासस्य १२दिने जातः वीरप्प मोयिलि । देवाडिग इति अधस्थवर्गे जातस्य अस्य नारायणः वासु देवाडिगः च अस्य अग्रजौ । दारिद्र्यात् दुःखेन परिशोचितस्य तस्य बाल्ये कदाचित् भोजनकाले गृहस्वामी आगत्य गृहात् बहिः प्रेषितवान् । तदारभ्य अन्यायस्य परिशोषणस्य च विरुद्धं वीरप्पस्य मनसि क्रान्तिकारिकभावना प्रतिष्ठिता । दीनानां दुर्बलानां परिशोचितानाम् अश्रूणि मार्जयितुं बद्धसङ्कल्पः अभवत् । अस्य बाल्ये आर्थिकसङ्कष्टकारणात् शालां गन्तुं कष्टम् अभवत् । किन्तु शिक्षाप्राप्तये तस्य महती आसक्तिः आसीत् । यथा कथञ्चित् प्रौढशालापर्यन्तं स्वग्रामे एव पठित्वा मङ्गळूरुपत्तनस्य सर्वकारीयमहाविद्यालये अर्थशाशात्रविषये पदवीशिक्षां समापितवान् । जीवविमानिगमे कञ्चित्कालं करणिकः अभवत् । पुनः परिश्रमेण विद्याभ्यासम् अनुवर्तयन् अधुनिकन्यायाशात्रम् अधीतवान् । कार्कळपत्तने न्यायवादिनः वृत्तिम् आरब्धवान् । अल्पेनैव कालेन स्ववृत्तौ यशः प्राप्तवान् । उच्चवर्गैः परिशोषितस्य आलम्बनं कर्तुं प्रायतत । दीनानां निश्शुल्कं न्यायवादं कृतवान् । महाविद्यालयदिनेषु परिचितां कन्यां प्रेमाम् एव परिणीतवान् । कवयित्री सा वीरप्पमोयिलिमहोदयस्य उत्साहवर्धिनी अभवत् । मोयिलिमहोदयस्य कौटुम्बिकं जीवनम् आदर्शदाम्पत्यस्य उदाहरणम् । तिस्रः पुत्र्यः एकः पुत्रः च तस्य दाम्पत्यस्य सुफलानि । वीरप्पमहोदयः भूधारकानां श्रमिकवर्गाणां न्यायप्राप्तये प्रयतमानः निष्ठावान् न्यायवादी इति प्रसिद्धः अभवत् । समाजे तिरस्कृतजनानां प्रकाशं प्रदर्शयितुं “किसान् सभा” इति सङ्घटनम् अस्थापयत् । सा सभा इदानीमपि शिक्षाप्रसारः, कृषकजागृतिः, जनजागरणान्दोलनम्, चिन्तनगोष्ठयः, इत्यादीन् कार्यकमान् सञ्चालयन्ती अस्ति । सर्वदा सङ्घर्षमनोभावस्य मोयिलिमहोदयस्य जीवने अनिकानि सङ्कटानि आपतितानि । सञ्चारापघातव्यजेन तं मारयितुं वैरिणः प्रायतन्त ।

"https://sa.wikipedia.org/w/index.php?title=वीरप्प_मोयिलि&oldid=498378" इत्यस्माद् प्रतिप्राप्तम्