वीरप्प मोयिलि
| वीरप्प मोयिलि ವೀರಪ್ಪ ಮೊಯ್ಲಿ | |
|---|---|
| तैलेन्धनविभागःMinister of Petroleum and Natural Gas | |
| कार्यालये 28 October 2012 – 17 May 2014 | |
| प्रधानमन्त्री | Manmohan Singh |
| पूर्वगमः | Murli Deora |
| पादानुध्यातः | Dharmendra Pradhan |
| Minister of Corporate Affairs | |
| कार्यालये 13 July 2011 – 28 October 2012 | |
| प्रधानमन्त्री | Manmohan Singh |
| पूर्वगमः | Hansraj Bhardwaj |
| पादानुध्यातः | Sachin Pilot |
| Minister of Power | |
| कार्यालये 31 July 2012 – 28 October 2012 | |
| प्रधानमन्त्री | Manmohan Singh |
| पूर्वगमः | Sushilkumar Shinde |
| पादानुध्यातः | Jyotiraditya Madhavrao Scindia |
| Minister of Law and Justice | |
| कार्यालये 28 May 2009 – 28 May 2011 | |
| प्रधानमन्त्री | Manmohan Singh |
| पूर्वगमः | Hansraj Bhardwaj |
| पादानुध्यातः | Salman Khurshid |
| Chief Minister of Karnataka | |
| कार्यालये 19 November 1992 – 11 December 1994 | |
| Governor | Khurshed Alam Khan |
| पूर्वगमः | S. Bangarappa |
| पादानुध्यातः | H. D. Deve Gowda |
| व्यक्तिगत विचाराः | |
| जननम् | १२ १९४० मूडबिद्रे, ब्रिटिश्-भारतम् |
| राजनैतिकपक्षः | भारतीयराष्ट्रियकाङ्ग्रेस् |
| पतिः/पत्नी | मालती मोयिलि |
| अपत्यानि | 3 पुत्र्यः 1 पुत्रः |
| मुख्यशिक्षणम् | मङ्गलूरु विश्वविद्यालयः यूनिवर्सिटि ला कालेज्, बेङ्गलूरु |
| धर्मः | हिन्दुधर्मः |
| जालस्थानम् | Official Website |
कार्कळ उपमण्डलस्य मूडुबिदरेसमीपे मार्पाडिग्रामे तम्मय्य पूवम्मदम्पत्योः पुण्यसन्तानरूपेण क्रि.श.१९४०तमे वर्षे जनवरिमासस्य १२दिने जातः वीरप्प मोयिलि । देवाडिग इति अधस्थवर्गे जातस्य अस्य नारायणः वासु देवाडिगः च अस्य अग्रजौ । दारिद्र्यात् दुःखेन परिशोचितस्य तस्य बाल्ये कदाचित् भोजनकाले गृहस्वामी आगत्य गृहात् बहिः प्रेषितवान् । तदारभ्य अन्यायस्य परिशोषणस्य च विरुद्धं वीरप्पस्य मनसि क्रान्तिकारिकभावना प्रतिष्ठिता । दीनानां दुर्बलानां परिशोचितानाम् अश्रूणि मार्जयितुं बद्धसङ्कल्पः अभवत् । अस्य बाल्ये आर्थिकसङ्कष्टकारणात् शालां गन्तुं कष्टम् अभवत् । किन्तु शिक्षाप्राप्तये तस्य महती आसक्तिः आसीत् । यथा कथञ्चित् प्रौढशालापर्यन्तं स्वग्रामे एव पठित्वा मङ्गळूरुपत्तनस्य सर्वकारीयमहाविद्यालये अर्थशाशात्रविषये पदवीशिक्षां समापितवान् । जीवविमानिगमे कञ्चित्कालं करणिकः अभवत् । पुनः परिश्रमेण विद्याभ्यासम् अनुवर्तयन् अधुनिकन्यायाशात्रम् अधीतवान् । कार्कळपत्तने न्यायवादिनः वृत्तिम् आरब्धवान् । अल्पेनैव कालेन स्ववृत्तौ यशः प्राप्तवान् । उच्चवर्गैः परिशोषितस्य आलम्बनं कर्तुं प्रायतत । दीनानां निश्शुल्कं न्यायवादं कृतवान् । महाविद्यालयदिनेषु परिचितां कन्यां प्रेमाम् एव परिणीतवान् । कवयित्री सा वीरप्पमोयिलिमहोदयस्य उत्साहवर्धिनी अभवत् । मोयिलिमहोदयस्य कौटुम्बिकं जीवनम् आदर्शदाम्पत्यस्य उदाहरणम् । तिस्रः पुत्र्यः एकः पुत्रः च तस्य दाम्पत्यस्य सुफलानि । वीरप्पमहोदयः भूधारकानां श्रमिकवर्गाणां न्यायप्राप्तये प्रयतमानः निष्ठावान् न्यायवादी इति प्रसिद्धः अभवत् । समाजे तिरस्कृतजनानां प्रकाशं प्रदर्शयितुं “किसान् सभा” इति सङ्घटनम् अस्थापयत् । सा सभा इदानीमपि शिक्षाप्रसारः, कृषकजागृतिः, जनजागरणान्दोलनम्, चिन्तनगोष्ठयः, इत्यादीन् कार्यकमान् सञ्चालयन्ती अस्ति । सर्वदा सङ्घर्षमनोभावस्य मोयिलिमहोदयस्य जीवने अनिकानि सङ्कटानि आपतितानि । सञ्चारापघातव्यजेन तं मारयितुं वैरिणः प्रायतन्त ।