एवमेतद्यथात्थ त्वम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(एवमेतद्यथात्थ - 11.3 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥ ३ ॥

अन्वयः[सम्पादयतु]

परमेश्वर ! पुरुषोत्तम ! आत्मानं त्वं यथा आत्थ एवम् एतत् ते ऐश्वरं रूपं द्रष्टुम् इच्छामि ।

शब्दार्थः[सम्पादयतु]

परमेश्वर = महेश्वर !
पुरुषोत्तम = पुरुषश्रे !
आत्मानम् = स्वम्
त्वं यथा आत्थ = त्वं येन प्रकारेण ब्रवीषि
एवम् एतत् = इत्थमेव तत्
ते ऐश्वरम् = तव ज्ञानैश्वर्यादियुक्तम्
रूपम् = आकारम्
द्रष्टुम् = अवलोकयितुम्
इच्छामि = अभिलषामि ।

अर्थः[सम्पादयतु]

श्रीकृष्ण ! पुरुषोत्तम ! आत्मानं भवान् येन प्रकारेण वदति तादृशमेव तव ऐश्वर्ययुक्तम् स्वरूपं द्रष्टुम् अभिलषामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=एवमेतद्यथात्थ_त्वम्...&oldid=418509" इत्यस्माद् प्रतिप्राप्तम्